________________ 152 योगविंशिका गाथा-२० अथ निरालम्बनध्यानस्यैव फलपरम्परामाह - एयम्मि मोहसागर-तरणं सेढी य केवलं चेव / तत्तो अजोगजोगो, कमेण परमं च निव्वाणं / / 20 / / (छाया : एतस्मिन्' मोहसागरतरणं' श्रेणिः च केवलमेव / ततश्च' अयोगयोगः क्रमेण परमं च निर्वाण' / / ) एयम्मिति / एतस्मिन् निरालम्बनध्याने लब्धे, मोहसागरस्य दुरन्तरागादिभावसन्तानसमुद्रस्य तरणं भवति / ततश्च श्रेणिः क्षपकश्रेणिर्नियूँढा भवति, सा ह्यध्यात्मादियोगप्रकर्षगर्भिताशयविशेषरूपा' / विक्षिप्तं चलमिष्टं यातायातं च किमपि सानन्दम् / प्रथमाभ्यासे द्वयमपि विकल्पविषयग्रहं तत् स्यात् / / 3 / / श्लिष्टं स्थिरसानन्दं सुलीनमतिनिश्चलं परानन्दम् / तन्मात्रकविषयग्रहमुभयमपि बुधैस्तदाम्नातम् / / 4 / / एवं क्रमशोऽभ्यासावेशाद् ध्यानं भवेनिरालम्बनम् / समरसभावं यातः परमानन्दं ततोऽनुभवेत् / / 5 / / 1- तुला - A - अत्रैव मतान्तरमाह - समाधिरेष एवान्यैः, सम्प्रज्ञातोऽभिधीयते / सम्यकप्रकर्षरूपेण, वृत्त्यर्थज्ञानतस्तथा / / 419 / / वृ० - समाधिरेष एवाध्यात्मादियोगः अन्यैस्तीर्थान्तरीयैः सम्प्रज्ञातः सम्प्रज्ञातनामाऽभिधीयते / कुत इत्याह सम्यक् - यथावत् प्रकर्षरूपेण-सवितर्कनिश्चयात्मकेन, वृत्त्यर्थज्ञानतः वृत्तीनां नरनारकाद्यात्मपर्यायाणामर्थानां द्वीपाचलजलधिप्रभृतीनां ज्ञानतो - विकल्पात् 'तथा' तेन प्रकारेण / यतः सम्यक् प्रकृष्टं वृत्त्यर्थज्ञानं तत्प्रकारमत्रास्ति ततोऽसौ समाधिः सम्प्रज्ञात इत्युच्यत इति / / 419 / / अर्थतत्समाधिफलमाह - एवमासाद्य चरम, जन्माऽजन्मत्वकारणम् / श्रेणिमाप्य ततः क्षिप्रं, केवलं लभते क्रमात् / / 420 / / वृ० - एवमुक्तरूपेण समाधिना समाहितः सन् आसाद्य-क्रमेणोपलभ्य चरमं अपश्चिमम् जन्म-भवम् अविद्यमानजन्माऽजन्मा तद्भावोऽजन्मत्वं तस्य कारणं-हेतुम् श्रेणि-क्षपकश्रेणिलक्षणम् आप्य लब्ध्वा ततःप्राप्तेरनन्तरम् क्षिप्रमचिरेण केवलं ज्ञानं दर्शनं च लभते क्रमात् / / 420 / / __- योगबिन्दुः सवृत्तिः // B - वितर्कविचारानन्दास्मितारूपानुगमात्सम्प्रज्ञातः / / 1-17 / / भाष्यम् - अथासम्प्रज्ञातः समाधिः किमुपायः किंस्वभावो वा इति / विरामप्रत्याभ्यासपूर्वः संस्कारशेषोऽन्यः / / 1-18 / / भाष्यम् - सर्ववृत्तिप्रत्यस्तमये संस्कारशेषो निरोधश्चित्तस्य समाधिरसम्प्रज्ञातः / तस्य परं वैराग्यमुपायः / सालम्बनो ह्यभ्यासस्तत्साधनाय न कल्पत इति विरामप्रत्ययो निर्वस्तुक आलम्बनीक्रियते, स चार्थशून्यः / तदभ्यासपूर्वं चित्तं निरालम्बनमभावप्राप्तमिव भवतीत्येष निर्बीजः समाधिरसम्प्रज्ञातः / /