________________ योगविंशिका गाथा-१९ 151 mmmmmm...151 रत्नत्रयसाम्राज्यानां जिनकल्पिकादीनामपि निरालम्बनध्यानमसङ्गताभिधानं स्यादिति / मैवम् - यद्यपि तत्त्वतः परतत्त्वलक्ष्यवेधाभिमुखस्तदविसंवादी सामर्थ्ययोग एव निरालम्बनस्तथापि परतत्त्वलक्ष्यवेधप्रगुणतापरिणतिमात्रादर्वाक्तनं परमात्मगुणध्यानमपि मुख्यनिरालम्बनप्रापकत्वादेकध्येयाकारपरिणतिशक्तियोगाञ्च निरालम्बनमेव / अत एवावस्थात्रयभावने रूपातीतसिद्धगुणप्रणिधानवेलायामप्रमत्तानां शुक्लध्यानांशो निरालम्बनोऽनुभवसिद्ध एव / संसार्यात्मनोऽपि च व्यवहारनयसिद्धमौपाधिकं रूपमाच्छाद्य शुद्धनिश्चयनयपरिकल्पितसहजात्मगुणविभावने निरालम्बनध्यानं दुरपह्नवमेव, परमात्मतुल्यतयाऽऽत्मज्ञानस्यैव निरालम्बनध्यानांशत्वात् तस्यैव च मोहनाशकत्वात् / आह च - 11“जो जाणइ अरिहंते, दव्वत्तगुणत्तपज्जयत्तेहिं / सो जाणइ अप्पाणं, मोहो खलु जाइ तस्स लयं / / " [प्रवचनसार-१-८०] (छाया : यो जानात्यर्हतो द्रव्यत्वगुणत्वपर्यायत्वैः / स जानात्यात्मानं मोहः खलु याति तस्य लयम्) इति / / तस्मादूपिद्रव्यविषयं ध्यानं सालम्बनं, अरूपिविषयं च निरालम्बनमिति स्थितम् / / 19 / / त्तरम् - यद् यस्मात् तस्य सिद्धस्य करणाभावेन प्रयत्नो नास्ति, न च योगलक्षणं निरोद्धव्यमस्ति / अतः प्रयत्नाभावात् प्रयोजनाभावाञ्च न सिद्धस्य ध्यानमिति / / 3081 / / / - विशेषावश्यकभाष्यम् सवृत्तिकम् / / 11 - वृ०. - यो / हि नामार्हन्तं द्रव्यत्वगुणत्वपर्यायत्वैः परिच्छिनत्ति स खल्वात्मानं परिच्छिनत्ति, उभयोरपि निश्चयेनाविशेषात् / अर्हतोऽपि पाककाष्ठागर्तकातस्वरस्येव परिस्पष्टामात्मरूपं, ततस्तत्परिच्छेदे सर्वात्मपरिच्छेदः / तत्रान्वयो द्रव्यं, अन्वयविशेषणं गुणः, अन्वयव्यतिरेकाः पर्यायाः / तत्र भगवत्यर्हति सर्वतो विशुद्धे त्रिभूमिकमपि स्वमनसा समयमुत्पश्यन्ति / यश्चेतनोऽयमित्यन्वयस्तद्रव्यं, यञ्चान्वयाश्रितं चैतन्यमिति विशेषणं स गुणः, ये चैकसमयमात्रावधृतकालपरिमाणतया परस्परपरावृत्ता अन्वयव्यतिरेकास्ते पर्यायाश्चिद्विवर्तनाग्रन्थय इति यावत् / अथैवमस्य त्रिकालमप्येककालमाकलयतो मुक्ताफलानीव प्रलम्बे प्रालम्वे चिद्विवर्ताश्चेतन एव संक्षिप्य विशेषणविशेष्यत्ववासनान्तर्धानाद्धवलिमानमिव प्रालम्बे चेतन एव चैतन्यमन्तर्हितं विधाय केवलं प्रालम्बमिव केवलमात्मानं परिच्छिन्दतस्तदुत्तरोत्तरक्षणक्षीयमानकर्तृकर्मक्रियाविभागतया निष्क्रियं चिन्मात्रं भावमधिगतस्य जातस्य मणेरिवाकम्पवृत्तनिर्मलालोकस्यावश्यमेव निराश्रयतया मोहतमः प्रलीयते / यद्येवं लब्धो मया मोहवाहिनीविजयोपायः / / 80 / / - प्रवचनसार, 1-80 वृत्तिः / / . 12-इह विक्षिप्तं यातायातं श्लिष्टं तथा सुलीनं च / चेतश्चतुःप्रकारं तज्ज्ञचमत्कारकारि भवेत् / / 2 / /