________________ योगविंशिका गाथा-२० 155 ततश्च केवलमेव केवलज्ञानमेव भवति / अयं चासम्प्रज्ञातः समाधिरिति परैर्गीयते, तत्रापि अर्थतो अथाद्यशुक्लध्यानस्य नामाह - सवितर्कं सविचारं, सपृथक्त्वमुदाहृतम् / त्रियोगयोगिनः साधोराद्यं शुक्लं सुनिर्मलम् / / 60 / / वृ० - त्रियोगयोगिनः साधोः मनोवचःकाययोगवतो मुनेः आद्यं प्रथमं शुक्लध्यानं उदाहृतं प्रोक्तं, तत्कथम्भूतं ? सह वितर्केण वर्त्तत इति सवितर्क, सह विचारेण वर्त्तत इति सविचारं, सह पृथक्त्वेन वर्तत इति सपृथक्त्वं, इति विशेषणत्रयोपेतत्वात् पृथक्त्ववितर्कसविचारनामकं प्रथमं शुक्लध्यानमिति / / 60 / / अथ तद्विशेषणत्रयस्य स्वरूपमाह - श्रुतचिन्ता वितर्कः स्यात्, विचारः संक्रमो मतः / पृथक्त्वं स्यादनेकत्वं, भवत्येतत्त्रयात्मकम् / / 61 / / वृ० - एतत्प्रथमं शुक्लध्यानं त्रयात्मकं, क्रमोत्क्रमगृहीतविशेषणत्रयरूपं, तत्र श्रुतचिन्तारूपो वितर्कः, अर्थशब्दयोगान्तरेषु संक्रमो विचारः, द्रव्यगुणपर्यायादिभिरन्यत्वं पृथक्त्वं / / 61 / / अर्थतत्त्रयस्य क्रमेण व्यक्तार्थं व्याचिख्यासुः प्रथमं वितर्कमाह - स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् / अन्तर्जल्पो वितर्कः स्याद्, यस्मिंस्तत्सवितर्कजम् / / 62 / / वृ० - यस्मिन् ध्यानेऽन्तर्जल्पोऽन्तरङ्गध्वनिरूपो वितर्को विचारणात्मकस्तत्सवितर्फ ध्यानं स्यात्, कस्मात् ? स्वशुद्धात्मानुभूतात्मभावश्रुतावलम्बनात् स्वकीयनिर्मलपरमात्मतत्त्वानुभवमयान्तरङ्गभावगतागमावलम्बनतः, इत्युक्तं सवितर्फ ध्यानम् / / 62 / / / अथ सविचारमाह - अर्थादर्थान्तरे शब्दाच्छब्दान्तरे च संक्रमः / योगायोगान्तरे यत्र, सविचारं तदुच्यते / / 63 / / वृ० - यत्र ध्याने स एव पूर्वोक्तो वितर्को विचारणात्मकोऽर्थान्तरे सङ्क्रमते, योगाद्योगान्तरे सङ्क्रमते तद्ध्यानं सविचारं ससङ्क्रमणमुच्यत इति / / 63 / / . अथ सपृथक्त्वमाह - द्रव्याद् द्रव्यान्तरं याति, गुणाद्याति गुणान्तरम् / पर्यायादन्यपर्यायं, सपृथक्त्वं भवत्यतः / / 64 / / वृ० - यत्र ध्याने स एव पूर्वोक्तो वितर्कः सविचारोऽर्थव्यञ्जनयोगान्तरसंक्रमणरूपोऽपि निजशुद्धात्मद्रव्यान्तरं याति, अथवा गुणाद् गुणान्तरं याति, यद्वा पर्यायान्तरं याति, तत्र - सहजाता गुणा द्रव्ये, सुवर्णे पीतता यथा / क्रमभूतास्तु पर्याया, मुद्राकुण्डलतादयः / / 1 / / तेषु द्रव्यगुणपर्यायान्तरेषु अन्यत्वं पृथक्त्वं तदस्ति यत्र ध्याने तत्सपृथक्त्वम् / / 64 / / अथाद्यशुक्लध्यानजनितां शुद्धिमाह - इति त्रयात्मकं ध्यानं, प्रथमं शुक्लमीरितम् / प्राप्नोत्यतः परां शुद्धिं, सिद्धिश्रीसौख्यवर्णिकाम् / / 65 / / वृ० - इति त्रयात्मकं पृथक्त्ववितर्कसविचारात्मकं प्रथमं शुक्लध्यानं कथितं, तस्माद्ध्यानात् परां प्रकृष्टां शुद्धिं प्राप्नोति, कथम्भूतां ? सिद्धिश्रीसौख्यवर्णिकां मुक्तिलक्ष्मीमुखनिदर्शनिकामासादयतीत्यर्थः / / 65 / / अथ तत्र शुक्लध्यानस्य द्वितीयांशाश्रयणमाह - भूत्वाऽथ क्षीणमोहात्मा, वीतरागो महायतिः / पूर्ववद्धावसंयुक्तो, द्वितीयं शुक्लमाश्रयेत् / / 74 / /