________________ 148 योगविंशिका गाथा-१९. क्तिनकेवलिव्यापारस्य ध्यानरूपत्वाभावादुक्तान्यतरयोगपरिणतेरेव ध्यानलक्षणत्वात् / ' आह च महाभाष्यकारः - कर्मणो हननं-घातः प्रलयो यस्मिन् प्रयत्नविशेषे स समुद्धातः / अयं च केवलिसमुद्घातोऽष्टसामयिकः, तं च प्रारभमाणः प्रथममेवाऽऽयोजिकाकरणमान्तर्मोहूर्तिकमुदीरणावलिकायां कर्मप्रक्षेपव्यापाररूपमभ्येति / अथा-. ऽऽयोजिकाकरणमिति कः शब्दार्थः ? उच्यते - “आङ् मर्यादायाम्” आ - मर्यादया केवलिदृष्टया योजनं शुभानां योगानां व्यापारणमायोजिका, “भावे” (सि. 5-3-122) णकः, तस्याः करणमायोजिकाकरणम् / आह च - _ 'कइसमइए णं भंते ! आओजीकरणे पन्नत्ते ? गोयमा ! असंखेजसमइए अंतोमुहुत्तिए आओजीकरणे पन्नत्ते' / / (प्रज्ञापनापत्र-६०१-१) -- षडशीतिनामा चतुर्थः क्रर्मग्रन्थः, गा. 29 / / 9]- तुला - A - द्वितीयापूर्वकरणे प्रथमस्तात्त्विको भवेत् / आयोज्यकरणादूर्ध्वं द्वितीय इति तद्विदः / / 12 / / वृ० - xxx आयोज्यकरणं केवलाभोगेनाचिन्त्यवीर्यतया भवोपग्राहिकर्माणि तथा व्यवस्थाप्य तत्क्षपणव्यापारणं शैलेश्यवस्थाफलं तत ऊर्ध्वं द्वितीयो योगसन्न्याससंज्ञित इति तद्विदोऽभिदधति शैलेश्यवस्थायां कायादियोगानां सन्यासेनायोगाख्यस्य सर्वसन्न्यासलक्षणस्य सर्वोत्तमस्य योगस्य प्राप्तेरिति / / 12 / / - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / / B - वृ० - xxx आयोज्यकरणादूर्ध्वं इति केवलाभोगेनाऽचिन्त्यवीर्यतया ‘योज्य' - तथातथातत्कालक्षपणीयत्वेन भवोपग्राहिकर्मणस्तथावस्थानभावे ‘करणं' कृतिरायोज्यकरणं शैलेश्यवस्थाफलमेतत् / अत एवाह 'द्वितीय इति तद्विदः' योगसन्न्याससज्ज्ञितः सामर्थ्ययोग इति तद्विदोऽभिदधति शैलेश्यवस्थायामस्य भावात् / सर्वमिदमागमिकं वस्तु, तथा चैतत्संवाद्यार्षम् - करणं अहापवत्तं, अपुव्वमणियट्टिमेव भव्वाणं / इयरेसिं पढमं चिय, भण्णइ करणं ति परिणामो / / 1 / / जा गण्ठी ता पढमं, गण्ठि समइच्छओ भवे बीयं / अणियट्टीकरणं पुण, सम्मत्तपुरक्खडे जीवे / / 2 / / गण्ठि त्ति सुदुब्भेओ, कक्खडघणरुढगूढगण्ठि व्व / जीवस्स कम्मजणिओ, घणरागद्दोसपरिणामो / / 3 / / एत्तो विवजओ खलु, भिन्ने एयम्मि सम्मणाणं तु / थोवं पि सुपरिसुद्धं सञ्चासम्मोहहेउ त्ति / / 4 / / सम्मत्तंमि उ लद्धे, पलियपुहत्तेण सावओ होइ / चरणोवसमखयाणं, सागरसंखन्तरा होन्ति / / 5 / / (एतासां विशेषार्थो विशेषावश्यकभाष्य 1192 आदिगाथाविवरणे / ) इत्यादि लेशतः परिभावितार्थमेतत् / / 10 / / -- योगदृष्टिसमुच्चयः, गाथा-१० वृत्तिः / / यत आयोज्यकरणादूर्ध्वं द्वितीयः - अतस्त्वयोगो योगानां, योगः पर उदाहृतः / मोक्षयोजनभावेन, सर्वसन्न्यासलक्षणः / / 11 / / वृ० - अत एव शैलेश्यवस्थायां योगसन्न्यासात्कारणात् अयोगो - योगाभावः योगाना - मित्रादीनाम्, 'मध्य' इति गम्यते, किमित्याह योगः परः - प्रधानः 'उदाहृतः' इति / कथमित्याह - 'मोक्षयोजनभावेन' हेतुना योजनाद्योग इति कृत्वा, स्वरूपमस्याह - 'सर्वसन्न्यासलक्षणः' - अधर्मधर्मसंन्यासयोरप्यत्र परिशुद्धिभावादिति / / 1 / / - योगदृष्टिसमुययः सवृत्तिः / /