________________ योगविंशिका गाथा-१९ 147 6"द्रागस्मात्तदर्शन-मिषुपातज्ञातमात्रतो ज्ञेयम् / एतञ्च केवलं तत्, ज्ञानं यत्तत्परं ज्योतिः / / " [षो० 15-10] तत्र परतत्त्वे, अप्रतिष्ठितः अलब्धप्रतिष्ठः, सर्वोत्तमस्य योगस्य अयोगाख्यस्य, 'अनुजः पृष्ठभावी / तदर्शनं परतत्त्वदर्शनं, एतञ्च परतत्त्वदर्शनं, केवलं सम्पूर्णं, तत् प्रसिद्धं यत् तत् केवलज्ञानं, परं प्रकृष्टं ज्योतिः / / स्यादत्र कस्यचिदाशङ्का - इषुपातज्ञातात् परतत्त्वदर्शने सति केवलज्ञानोत्तरमनालम्बन योगप्रवृत्तिर्मा भूत्, सालम्बनयोगप्रवृत्तिस्तु विशिष्टतरा काचित् स्यादेव, केवलज्ञानस्य लब्धत्वेऽपि मोक्षस्याद्यापि योजनीयत्वात् / मैवम्, केवलिनः स्वात्मनि मोक्षस्य योजनीयत्वेऽपि ज्ञानाकाङ्क्षाया अविषयतया ध्यानानालम्बनत्वात् क्षपकश्रेणिकालसम्भविविशिष्टतरयोगप्रयत्नाभावादावर्जीकरणोत्तरयोगनिरोधप्रयत्नाभावाञ्चानालम्बनत्वापत्तिरपरतत्त्वस्य दृष्टत्वाभ्युपगमे च ध्यानानुपपत्तिरिति, मैवं / अपरतत्त्वे प्रतिमाद्यालम्बनद्वारा सामान्यतो दृष्टेऽपि. विशेषदर्शनाय ध्यानोपपत्तेः परम्परयालम्बनवत्त्वेन च सालम्बनत्त्वव्यपदेशात्परतत्त्वे तु केनापि द्वारेण दर्शनाभावादनालम्बनत्वोपपत्तेः / / 9 / / - षोडशक-१५, वृत्तिः / / 6- वृ० य० - किं पुनरनालम्बनाद्भवतीत्याह - द्राक् शीघ्रमस्मात्प्रस्तुतादनालम्बनात्तद्दर्शनं परतत्त्वदर्शनमिषोः पातस्तद्विषयं ज्ञातमुदाहरणं तन्मात्रादिषुपातज्ञातमात्रतो ज्ञेयं दर्शनम् / एतञ्च परतत्त्वदर्शनं केवलं सम्पूर्णं, तदिति तत्प्रसिद्धं ज्ञानं केवलज्ञानमित्यर्थः यत्तत्केवलज्ञानं परं प्रकृष्टं ज्योतिः प्रकाशरूपम् / इषुपातोदाहरणं च / यथा केनचिद्धनुर्द्धरेण लक्ष्याभिमुखे बाणे तदविसंवादिनि प्रकल्पिते यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदविसंवादित्वेन च समानोऽनालम्बनो योगो यदा तु तस्य बाणस्य विमोचनं लक्ष्याविसंवादिपतनमात्रादेव लक्ष्यवेधकं तदा अनालम्बनोत्तरकालभावी तत्पातकल्पः सालम्बनः केवलज्ञानप्रकाश इत्यनयोः साधर्म्यमङ्गीकृत्य निदर्शनम् / / 10 / / उ० - किं पुनरनालम्बनाद्भवतीत्याह - द्रागित्यादि / द्राक् शीघ्रमस्मादनालम्बनयोगात्तदर्शनं परतत्त्वदर्शनमिषुपातस्य बाणपतनस्य ज्ञातमुदाहरणं तन्मात्रतो ज्ञेयम् / एतञ्च परतत्त्वदर्शनं केवलं सम्पूर्ण तत्प्रसिद्धं ज्ञानं यत्केवलज्ञानं परं प्रकृष्टं ज्योतिः प्रकाशरूपम् / इषुपातोदाहरणं चैतद् / यथा केनचिद्धनुर्द्धरेण लक्ष्याभिमुख्येन तदऽविसंवादितया च बाणो व्यापारितो यावत्तस्य बाणस्य न विमोचनं तावत्तत्प्रगुणतामात्रेण तदविसंवादित्चेन च समोऽनालम्बनयोगः / यदा तु तस्य बाणस्य मोचनलक्ष्याऽविसंवादिपतनमात्रादेव सुतरां लक्ष्यवेध एवं यदानालम्बनध्यानमोचनं ध्यानान्तरिकायां तदैव परतत्त्ववेधकल्पः केवलप्रकाश इति / / 10 / / - षोडशक-१५, वृत्तिः / / 7]- अनु - पूर्व योगः यस्य स अनुयोगी / ___ - सम्पा० / / . अनुजः प्रागनन्तवर्ती / / - षोडशक-१५, श्लोक-१५ वृत्तिः / / [8] - अथ विनेयजनानुग्रहाय केवलिसमुद्घातस्वरूपमभिधीयते - तत्र सम्यग्-अपुनर्भावेन उत्-प्राबल्येन