________________ 146 योगविंशिका गाथा-१९ wwwwwwwws NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा, इति एवंस्वरूपा या असङ्गशक्तया निरभिष्वङ्गाविच्छिन्नप्रवृत्त्या, आढया-पूर्णा, सा परमात्मदर्शनेच्छा अनालम्बनयोगः, परतत्वस्यादर्शनं अनुपलम्भं यावत्, परमात्मस्वरूपदर्शने तु केवलज्ञानेनानालम्बनयोगो न भवति, तस्य तदालम्बनत्वात् / अलब्धपरतत्त्वस्तल्लाभाय ध्यानरूपेण प्रवृत्तो ह्यनालम्बनयोगः, स च क्षपकेण धनुर्धरेण क्षपकश्रेण्याख्यधनुर्दण्डे लक्ष्यपरतत्त्वाभिमुखं तद्वेधाविसंवादितया व्यापारितो यो बाणस्तत्स्थानीयः, यावत्तस्य न मोचनं तावदनालम्बनयोग व्यापारः, यदा तु ध्यानान्तरिकाख्यं तन्मोचनं तदाऽविसंवादितत्पतनमात्रादेव लक्ष्यवेध इतीषुपातकल्पः सालम्बनः केवलज्ञानप्रकाश एव भवति, न त्वनालम्बनयोगव्यापारः, फलस्य सिद्धत्वादिति निर्गलितार्थः / आह च - 5“तत्राप्रतिष्ठितोऽयं, यतः प्रवृत्तश्च तत्त्वतस्तत्र / सर्वोत्तमानुजः खलु, तेनानालम्बनो गीतः / / " [षो० 15-9] . सामर्थ्ययोगतः शास्त्रोक्तत्वात् क्षपकश्रेणीद्वितीयाऽपूर्वकरणभाविनः सकाशात् / सामर्थ्ययोगस्वरूपं चेदम् / “शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः / शक्तत्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तमः” / / (यो.दृ. 5) या तत्र परतत्त्वे द्रष्टुमिच्छा दिदृक्षा इत्येवंस्वरूपाऽसङ्गा चासौ शक्तिश्च निरभिष्वङ्गाऽनवरतप्रवृत्तिस्तयाढ्या परिपूर्णा दिदृक्षा / सा परमात्मविषयदर्शनेच्छा अनालम्बनयोगः प्रोक्तस्तद्वेदिभिस्तस्य परतत्त्वस्यादर्शनमनुपलम्भस्तद्यावत् परमात्मस्वरूपदर्शने तु केवलज्ञानेन अनालम्बनयोगो न भवति / तस्य तदालम्बनत्वात् / / 8 / / उ० - कः पुनरनालम्बनयोगः कियन्तं च कालं भवतीत्याह - सामर्थ्येत्यादि / सामर्थ्ययोगतः “शास्त्रसन्दर्शितोपायस्तदतिक्रान्तगोचरः / शक्त्युद्रेकाद्विशेषेण सामर्थ्याख्योऽयमुत्तम” इत्येवमुक्तलक्षणात् क्षपकश्रेणीद्वितीयापूर्वकरणभाविनः सकाशात् या तत्र परतत्त्वे दिदृक्षा द्रष्टुमिच्छा इत्येवंस्वरूपाऽसङ्गा निरभिष्वङ्गा शक्तिरनवरतप्रवृत्तिस्तयाढ्या परिपूर्णा सा परमात्मविषयदर्शनेच्छाऽनालम्बनयोगः प्रोक्तः तद्वेदिभिस्तस्य परतत्त्वस्यादर्शनमनुपलम्भस्तद् यावत्परमात्मस्वरूपदर्शने तु केवलज्ञानेऽनालम्बनयोगो न भवति दृष्टस्य तस्य तदालम्बनीभावात् / / 8 / / - षोडशक-१५, वृत्तिः / / [5] - वृ० य० - कथं पुनरनालम्बनोऽयमित्याह - तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठः अयमनालम्बनो यतो यस्मात्प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे सर्वोत्तमानुजः खलु सर्वोत्तमस्य योगस्यानुजः प्रागनन्तरवर्ती तेन कारणेनाऽनालम्बनो गीतः कथितः / / 9 / / उ० - परतत्त्वदिदृक्षाया अनालम्बनयोगत्वे उपपत्तिमाह - तत्रेत्यादि / तत्र परतत्त्वेऽप्रतिष्ठितोऽलब्धप्रतिष्ठोऽयं परमात्मदिदृक्षाख्यो योगो यतो यस्मात् प्रवृत्तश्च ध्यानरूपेण तत्त्वतो वस्तुतस्तत्र परतत्त्वे तदाभिमुख्याप्रच्यवात् सर्वोत्तमस्य योगनिरोधाख्यनिखिलातिशायियोगस्याऽनुजः प्रागनन्तरवर्ती खलु तेन कारणेनानालम्बनोऽनालम्बनयोगो गीतः कथितः पुरा विद्वद्भिः / स्यादेतत्परतत्त्वदिदृक्षाया अप्यपरतत्त्वदर्शनं यावद