________________ योगविंशिका गाथा-१९ 145 wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww पत्तिरूपान्निष्क्रान्तो निरालम्बनः यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् / जिनरूपस्य समवसरणस्थस्य ध्यानं खलु आद्यः सालम्बनो योगः / तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः, तुः एवार्थे, अपरः अनालम्बनः, अत्रारूपितत्त्वस्य स्फुटविषयत्वाभावादनालम्बनत्वमुक्तम् / / अधिकृतग्रन्थगाथायां च विषयतामात्रेण तस्यालम्बनत्वमनूद्यापि तद्विषययोगस्येषदालम्बनत्वादनालम्बनत्वमेव प्रासाधीति फलतो न कश्चिद्विशेष इति स्मर्तव्यम् / अयं चानालम्बनयोगः - . "शास्त्रसन्दर्शितोपाय-स्तदतिक्रान्तगोचरः / शक्तयुद्रेकाद्विशेषेण, सामर्थ्याख्योयमुत्तमः / / " [योगदृष्टि-५] इतिश्लोकोक्तस्वरूपक्षपंकश्रेणीद्वितीयापूर्वकरणभाविक्षायोपशमिकक्षान्त्यादिधर्मसंन्यासरूपसामर्थ्ययोगतो निस्सङ्गानवरतप्रवृत्ता या परतत्त्वदर्शनेच्छा तल्लक्षणो मन्तव्यः आह च - 4“सामर्थ्ययोगतो या, तत्र दिदृक्षेत्यसङ्गशक्तयाढ्या / साऽनालम्बनयोगः, प्रोक्तस्तददर्शनं यावत् / / " [षो० 15-8] साम्यपर्यालोचनायां ‘त्वमहं अहं त्वमि' त्यभेदज्ञानं समापत्तिरूपं भवति / तत्र चान्तर्जल्पे युष्मदस्मत्पदे उल्लिख्येते, ततश्च भिन्नत्वेन ज्ञातयोरभेदस्यायोग्यत्वज्ञाने युष्मदस्मत्पदयोर्वेदान्तिरीत्याऽखण्डब्रह्मणि जहदजहल्लक्षणायामन्तर्जल्पजं निर्विकल्पकसाक्षात्काररूपं ज्ञानमाविर्भवति / भेदनयार्थव्युत्क्रान्ताभेदग्राहिद्रव्यार्थोपयोगेन वा / सोऽयमनालम्बनयोगश्चरमावञ्चकयोगप्रातिभमहिम्ना यद्दर्शनाद् भवति, सा भगवत्प्रतिमा परमोपकारिणी. तदगणवर्णने योगीन्द्रा अपि न क्षमाः / इत्यावेदितं भवति / - प्रतिमाशतकवृत्तिः गा. 99 / / 3] - वृ. - शास्त्रसन्दर्शितोपायः इति सामान्येन शास्त्राभिहितोपायः, सामान्येन शास्त्रे तदभिधानात् / तदतिक्रान्तगोचर इति शास्त्रातिक्रान्तविषयः / कुत इत्याह शक्तयुद्रेकात् इति शक्तिप्राबल्यात् / विशेषेण इति न सामान्येन शास्त्रातिक्रान्तगोचरः, सामान्येन फलपर्यवसानत्वाच्छास्त्रस्य / सामर्थ्याख्योऽयं इति सामर्थ्ययोगाभिधानोऽयं योग: उत्तमः सर्वप्रधानः, तद्धावभावित्वात. अक्षेपेण प्रधानफलकारणत्वादिति / / 5 / / एतत्समर्थनार्यवाह - सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा न तत्त्वतः / शास्त्रादेवावगम्यन्ते, सर्वथैवेह योगिभिः / / 6 / / वृ० - सिद्ध्याख्यपदसम्प्राप्तिहेतुभेदा मोक्षाभिधानपदसम्प्राप्तिकारणविशेषाः . सम्यग्दर्शनादयः / किमित्याह न तत्त्वतः न तत्त्वभावेन परमार्थतः, शास्त्रादेवावगम्यन्ते / न चैवमपि शास्त्रवैयर्थ्यमित्याह, सर्वथैवेह योगिभिः इति सर्वैरेव प्रकारैरिहलोके साधुभिः, अनन्तभेदत्वात्तेषामिति / / 6 / / - योगदृष्टिसमुच्चयः सवृत्तिः।। 4- वृ० य० - कः पुनर्निरालम्बनयोगः कियन्तं कालं भवतीत्याह -