SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 144 योगविंशिका गाथा-१९ NNNNNNNA MANANNNNN आलंबणं पि एयं, रूवमरूवी य इत्थ परमुत्ति / तग्गुणपरिणइरूवो, सुहुमो अणालंबणो नाम / / 19 / / (छाया : आलम्बनमपि एतत्' रूपी अरूपी च अत्र परमः' इति / तद्गुणपरिणतिरूपः सूक्ष्मः अनालम्बनः नाम" / / ) 'आलंबणं पि' त्ति / आलम्बनमपि एतत् प्राकरणिकबुद्धिसन्निहितं, अत्र योगविचारे, 'रूपि' समवसरणस्थजिनरूपतत्प्रतिमादिलक्षणम्, च पुनः, अरूपी परमः सिद्धात्मा, इत्येवं द्विविधम् / तत्र तस्य अरूपिपरमात्मलक्षणस्यालम्बनस्य ये गुणाः केवलज्ञानादयस्तेषां परिणतिः - समापत्तिलक्षणा तया रूप्यत इति तद्गुणपरिणतिरूप सूक्ष्मोऽतीन्द्रियविषयत्वादनालम्बनो नाम योगः, अरूप्यालम्बनस्येषदालम्बनत्वेन ‘अलवणा यवागूः' इत्यत्रेवात्र नञ्पदप्रवृत्तेरविरोधात् / 'सुहुमो आलंबणो नाम' त्ति क्वचित् पाठस्तत्रापि सूक्ष्मालम्बनो नामैष योगस्ततोऽनालम्बन एवेति भाव उन्नेयः, उक्तं चात्राधिकारे चतुर्दशषोडशके ग्रन्थकृतैव - __“सालम्बनो निरालम्बनश्च योगः परो द्विधा ज्ञेयः / जिनरूपध्यानं खल्वाधस्तत्तत्त्वगस्त्वपरः / / 1 / / " सहालम्बनेन-चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्तत इति सालम्बनः / आलम्बनात्-विषयभावा[1] - वृ० - य० आमूलमिदं योगमार्गस्येत्युक्तं, तत्र कतिविधो योग इत्याह - सह आलम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्त्तत इति सालम्बनों निरालम्बनश्चालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो निरालम्बनो यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते तद्विषयो निरालम्बन इति यावत् / योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयो द्विविधो वेदितव्यः / जिनरूपस्य समवसरणस्थितस्य ध्यानं चिन्तनं 'खलु' शब्दो वाक्यालङ्कारे आद्यः प्रथमः सालम्बनो योगः / तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्त्वगः तुरेवकारार्थोऽपरोऽनालम्बनः मुक्तपरमात्मस्वरूपध्यानमित्यर्थः / / 1 / / उ० - आमूलमिदं योगमार्गस्येत्युक्तम्, तत्र कतिविधो योग इत्याह - __सालम्बन इत्यादि / सहालम्बनेन चक्षुरादिज्ञानविषयेण प्रतिमादिना वर्त्तत इति सालम्बनो निरालम्बनश्चालम्बनाद्विषयभावापत्तिरूपान्निष्क्रान्तो यो हि छद्मस्थेन ध्यायते न च स्वरूपेण दृश्यते योगो ध्यानविशेषः परः प्रधानो द्विधा ज्ञेयः जिनरूपस्य समवसरणस्थस्य ध्यानं चिन्तनं 'खलु' शब्दो वाक्यालङ्कारे आद्यः प्रथमो योगः सालम्बनः तस्यैव जिनस्य तत्त्वं केवलजीवप्रदेशसङ्घातरूपं केवलज्ञानादिस्वभावं तस्मिन् गच्छतीति तत्तत्वगः तुरेवकारार्थेऽपरो द्वितीयः शुद्धपरमात्मगुणध्यानं निरालम्बनमित्यर्थः / / 1 / / - षोडशक-१४, वृत्तिः / / 2] - तुला - भगवद्बिम्बे हृदि धृते भगवद्रूपानुस्मरणं, तळ्याने च क्षीणकिल्बिषत्वान्नैश्चयिकद्रव्यगुणपर्याय
SR No.004345
Book TitleYogvinshika Prakaranam
Original Sutra AuthorHaribhadrasuri
AuthorYashovijay Gani, Kirtiyashsuri
PublisherSanmarg Prakashan
Publication Year2007
Total Pages214
LanguageSanskrit
ClassificationBook_Devnagari
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy