________________ योगविंशिका गाथा-१८-१९ 143 NNNNNNNNNNNNNNNNA NNNNNNNN wwwNNNNNNN खलु इति निश्चये / एतेष्वनुष्ठानभेदेषु एषः एतदः समीपतरवृत्तिवाचकत्वात् समीपाभिहिताऽसङ्गानुष्ठानात्मा चरमो योगोऽनालम्बनयोगो भवति, सङ्गत्यागस्यैवानालम्बनलक्षणत्वादिति भावः / / 18 / / आलम्बनविधयैवानालम्बनस्वरूपमुपदर्शयन्नाह - दण्डसंयोगाभावे केवलादेव संस्कारापरिक्षयात्सम्भवत्येवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्त्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः / / 8 / / - षोडशक-१०, वृत्तिः / / B - यद्येवं समभावलक्षणं सामायिकं कथं तद्वतः क्वचित् क्रिया ? इत्यत्राह - किरिया उ दंडजोगेण चक्कभमणं व होई एयस्स / आणाजोगा पुव्वाणुवेहओ चेव णवरं ति / / 19 / / वृ० - क्रिया पुनः क्वचिद् भिक्षाटनादौ प्रवृत्तिरूपा दण्डयोगेन चक्रभ्रमणवद् भवति ‘एतस्य' सामायिकवतः आज्ञायोगात्, यथेह चक्रमचेतनत्वाद् राग-द्वेषरहितं भ्रमणाऽभ्रमणयोस्तुल्यवृत्ति दण्डयोगाद् भ्रमति एवमयं सामायिकवांस्तथाक्लिष्टकर्मविगमाद् विशुद्धभावयोगेन भिक्षाटनाऽनटनयोः समवृत्तिरेवाऽऽज्ञायोगादटतीति हृदयम् / प्रवृत्तावाज्ञायोगेन तथाक्रियायामपि तद्योगे तु द्रव्यत्वप्रसङ्गात्, एकदोपयोगद्वयाभावात्, वीतरागस्य वा तद्योगात् क्षायिकज्ञानोपपत्तेः, आज्ञायोगस्य च क्षायोपशमिकत्वाद् न युक्तिमदटनादीति विभ्रमापोहायोपचयमाह - 'पूर्वानुवेधतश्चैव' - दण्डयोगाभावेऽपि तत्सामर्थ्यविशेषतश्चक्रभ्रमणवदेवाऽऽज्ञायोगाभावेऽपि तत्पूर्वानुवेधत एवाटनादि नवरमिति, एवं न कश्चिद् दोषः / इति गाथार्थः / / 19 / / - योगशतकम् सवृत्तिकम् / / 9-तुला - A - अन्नं च जिणमयम्मि चउब्विहं वन्नियं अणुट्ठाणं / पीइजुयं भत्तिजयं, वयणपहाणं असंगं च / / 887 / / जं कुणओ पीइरसो, वड्डइ जीवस्स उजुसहावस्स / बालाईण व रयणे, पीइअणुट्ठाणमेयं तु / / 888 / / बहुमाणविसेसाओ मंदविवेगस्स भव्वजीवस्स / पुब्विल्लसमं करणं, भत्तिअणुट्ठाणमाहंसु / / 889 / / तुलं पि पालणाई, जाया-जणणीण पीइ-भत्तिगयं / पीई-भत्तिसु(जु)याणं, भेओ नेओ तहेहं पि / / 890 / / जो पुण निणगुण (?गण) चेईसुत्तविहाणेण वंदणं कुणइ / वयणाणुट्ठाणमिणं, चरित्तिणो होइ नियमेण / / 891 / / जं पुण अब्भासरसा, सुयं विणा कुणइ फलनिरासंसो / तमसंगाणुट्ठाणं, विनेयं निउणदंसीहिं / / 892 / / कुंभारचक्कभमणं, पढमं दंडा तओ वि तयभावे / वयणा-ऽसंगाणुट्ठाणभेयकहणे इमं नायं / / 893 / / पढमं भावलवाओ पायं बालाइयाण संभवइ / तत्तो वि उत्तरुत्तरसंपत्ती नियमओ होइ / / 894 / / तम्हा चउब्विहं पि हु, नेयमिणं पढमरूवगसमाणं / जम्हा मुणीहिं सव्वं, परमपयनिबंधणं भणियं / / 895 / / बीयगरूवसमं पि हु, सम्माणुट्ठाणकारणत्तेण / एगंतेण नु दुटुं, पुव्वायरिया जओ बेंति / / 896 / / - चैत्यवन्दनमहाभाष्यम् / / B - सम्बोधप्रकरणग्रन्थमध्येऽपि देवस्वरूपाधिकारे गाथा-२३२ तः 240 अन्नं इत्यादि उर्ध्वदर्शितस्वरूपेण सन्ति / ता अपि द्रष्टव्याः / - सम्पा० / /