________________ 142 योगविंशिका गाथा-१८ विशेषः, आह च - 8"चक्रभ्रमणं दण्डात् तदभावे चैव यत्परं भवति / वचनासङ्गानुष्ठानयोस्तु तज्ज्ञापकं ज्ञेयम् / / " [षो० 10-8] इति / / ' ध्यानफलं समाधिरिति विदुः / / 27 / / निराचारपदो ह्यस्यामतः स्यानातिचारभाक् / चेष्टा चास्याखिला भुक्तभोजनभाववन्मता / / 28 / / वृ० - निराचारेति / अस्यां दृष्टौ योगी नातिचारभाक् स्यात् तन्निबन्धनाभावात् / अतो निराचारपदः प्रतिक्रमणाद्यभावात् चेष्टा चास्यैतदृष्टिमतोऽखिला भुक्तभोजनाभाववन्मता आचारजेयकर्माभावात् तस्य भुक्तप्रायत्वात्सिद्धत्वेन तदिच्छाविघटनात् / / 28 / / कथं तर्हि भिक्षाटनाद्याचारोऽत्रेत्यत आह - रत्नशिक्षादृगन्या हि तन्नियोजनदृग्यथा / फलभेदात्तथाचारक्रियाप्यस्य विभिद्यते / / 29 / / वृ० - रत्नेति / रत्नशिक्षादृशोऽन्या हि यथा शिक्षितस्य सतस्तन्नियोजनदृक्, तथाचारक्रियाप्यस्य भिक्षाटनादिलक्षणा फलभेदाद्विभिद्यते / पूर्वं हि साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिकर्मक्षय इति / / 29 / / कृतकृत्यो यथा रत्ननियोगाद्रत्नविद्भवेत् / तथायं धर्मसंन्यासविनियोगान्महामुनिः / / 30 / / वृ० - कृतकृत्य इति / यथा रत्नस्य नियोगाच्छुद्धदृष्ट्या यथेच्छव्यापाराद् रत्नविद् रत्नवाणिज्यकारी कृतकृत्यो भवेत् / तथायमधिकृतदृष्टिस्थो धर्मसंन्यासविनियोगात् द्वितीयापूर्वकरणे महामुनिः कृतकृत्यो भवति / / 30 / / केवलश्रियमासाद्य सर्वलब्धिफलान्विताम् / परम्परार्थं सम्पाद्य ततो योगान्तमश्रुते / / 31 / / वृ० - केवलेति / केवलश्रियं केवलज्ञानलक्ष्मीमासाद्य प्राप्य सर्वलब्धिफलान्वितां सर्वोत्सुक्यनिवृत्त्या परम्परार्थं यथाभव्यं सम्यक्त्वादिलक्षणं सम्पाद्य ततो योगान्तं योगपर्यन्तमश्रुते प्राप्नोति / / 31 / / तत्रायोगाद्योगमुख्याद्भवोपग्राहिकर्मणाम् / क्षयं कृत्वा प्रयात्युचैः परमानन्दमन्दिरम् / / 32 / / वृ० - तत्रेति / तत्र योगान्ते शैलेश्यवस्थायां / अयोगादव्यापारात् योगमुख्यात् भवोपग्राहिणां कर्मणां क्षयं कृत्वा / उचै र्लोकान्ते परमानन्दमन्दिरं प्रयाति / / 32 / / - द्वा. द्वा., 24 - सदृष्टिद्वात्रिंशिका सवृत्तिः / / |8|- A-वृ० - य० वचनासङ्गानुष्ठानयोर्विशेषमाह - चक्रभ्रमणं कुम्भकारचक्रपरावर्तनं दण्डाद्दण्डसंयोगात्तदभावे चैव यत्परमन्यद्भवति / वचनासङ्गानुष्ठानयोस्तु प्रस्तुतयोस्तु तदेव ज्ञापकमुदाहरणं ज्ञेयं यथा चक्रभ्रमणमेकं दण्डसंयोगाज्जायते प्रयत्नपूर्वकमेवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्त्तते यथा चान्यञ्चक्रभ्रमणं दण्डसंयोगाभाचे केवलादेव संस्काराऽपरिक्षयात् सम्भवत्येवमागमसंस्कारमात्रेण वस्तुतो वचननिरपेक्षमेव स्वाभाविकत्वेन यत्प्रवर्त्तते तदसङ्गानुष्ठानमितीयान् भेद इति भावः / / 8 / / उ० - वचनासङ्गानुष्ठानयोर्विशेषमाह - चक्रेत्यादि / चक्रभ्रमणं कुम्भकारचक्रपरावर्त्तनं दण्डाद्दण्डसंयोगात्तदभावे चैव यत्परमन्यद्भवति वचनासङ्गानुष्ठानयोः प्रस्तुतयोस्तु तदेव ज्ञापकमुदाहरणं ज्ञेयं / यथा चक्रभ्रमणमेकं दण्डसंयोगात्प्रयत्नपूर्वकाद्भवति एवं वचनानुष्ठानमप्यागमसंयोगात् प्रवर्त्तते यथा चान्यञ्चक्रभ्रमणं