________________ योगविंशिका गाथा-१८ 141 तथा भिक्षाटनादिविषयं वचनानुष्ठानं वचनव्यापाराद्, असङ्गानुष्ठानं च केवलतज्जनितसंस्कारादिति स्थैर्यमादाय निरोधपरिणामशब्दव्यवहारात् / तदुक्तं - "व्युत्थाननिरोधसंस्कारयोरभिभवप्रादुर्भावौ निरोधक्षणचित्तान्वयो निरोधपरिणामः" (3-9) इति / / 23 / / सर्वार्थतैकाग्रतयोः समाधिस्तु क्षयोदयौ / तुल्यावेकाग्रता शान्तोदितौ च प्रत्ययाविह / / 24 / / वृ० - सर्वार्थतेति / सर्वार्थता चलत्वान्नानाविधार्थग्रहणं / चित्तस्य विक्षेपो धर्म एकाग्रता एकस्मिन्नेवा-लम्बने सदृशपरिणामिता तयोः / क्षयोदयौ तु अत्यन्ताभिभवाभिव्यक्तिलक्षणौ समाधिरुद्रिक्तसत्त्वचित्तान्वयितयाऽवस्थितः समाधिपरिणामोऽभिधीयते / यदुक्तं - “सर्वार्थतैकाग्रतयोः क्षयोदयौ चित्तस्य समाधिपरिणामः” (3-11) इति / पूर्वत्र विक्षेपस्याभिभवमात्रं, इह त्वत्यन्ताभिभवोऽनुत्पत्तिरूपोऽतीताध्वप्रवेश इत्यनयोर्भेदः / इहाधिकृतदर्शने तुल्यावेकरूपालम्बनत्वेन सदृशौ / शान्तोदितौ अतीताध्वप्रविष्टवर्तमानाध्वस्फुरितलक्षणौ च प्रत्ययौ एकाग्रता उच्यते समाहितचित्तान्वयिनी / तदुक्तं - "शान्तोदितौ हि तु (तौ तु) ल्यप्रत्ययौ चित्तस्यैकाग्रतापरिणामः” (3-12) / न चैवमन्वयव्यतिरेकवद्वस्त्वसम्भवः, यतोऽन्यत्रापि धर्मलक्षणावस्थापरिणामा दृश्यन्ते, तत्र धर्मिणः पूर्वधर्मनिवृत्तावुत्तरधर्मापत्तिधर्मपरिणामः / यथा मृल्लक्षणस्य धर्मिणः पिण्डरूपधर्मपरित्यागेन घटरूपधर्मान्तरस्वीकारः / लक्षणपरिणामश्च यथा तस्यैव घटस्यानागताध्वपरित्यागेन वर्तमानाध्वस्वीकारः, तत्परित्यागेन वाऽतीताध्वपरिग्रहः / अवस्थापरिणामश्च यथा तस्य एव घटस्य प्रथमद्वितीययोः क्षणयोः सदृशयोरन्वयित्वेन चलगुणवृत्तीनां गुणपरिणमनं धर्मीव शान्तोदितेषु शक्तिरूपेण स्थितेषु सर्वत्र सर्वात्मकत्ववद् व्यपदेश्येषु धर्मेषु कथञ्चिद्भिन्नेष्वन्वयी दृश्यते / यथा पिण्डघटादिषु मृदेव प्रतिक्षणमन्यान्यत्वाद्विपरिणामान्यत्वं / तत्र केचित्परिणामाः प्रत्यक्षेणैवोपलक्ष्यन्ते यथा सुखादयः संस्थानादयो वा / केचिश्चानुमानगम्या यथा कर्मसंस्कारशक्तिप्रभृतयः / धर्मिणश्च भिन्नाभिन्नरूपतया सर्वत्रानुगम इति न काचिदनुपपत्तिः / तदिदमुक्तं - “एतेन भूतेन्द्रियेषु धर्मलक्षणावस्थापरिणामा व्याख्याताः” (3-13) शान्तोदिताव्यपदेशस्य - धर्मानुपाती धर्मी” (3-14) “क्रमान्यत्वं परिणामान्यत्वे हेतुरिति” (3-15) / / 24 / / अस्यां व्यवस्थितो योगी त्रयं निष्पादयत्यदः / ततश्चेयं विनिर्दिष्टा सत्प्रवृत्तिपदावहा / / 25 / / वृ० - अस्यामिति / अस्यां प्रभायां व्यवस्थितो योगी त्रयमदो निरोधसमाध्येकाग्रतालक्षणं निष्पादयति साधयति / ततश्चेयं प्रभा सत्प्रवृत्तिपदावहा विनिर्दिष्टा, सर्वैः प्रकारैः प्रशान्तवाहिताया एव सिद्धेः / / 25 / / समाधिनिष्ठा तु परा तदासङ्गविवर्जिता / सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च / / 26 / / वृ० - समाधीति / परा तु दृष्टिः समाधिनिष्ठा वक्ष्यमाणलक्षणसमाध्यासक्ता तदासङ्गेन समाध्यासङ्गेन विवर्जिता / सात्मीकृतप्रवृत्तिश्च सर्वाङ्गीणैकत्वपरिणतप्रवृत्तिश्च चन्दनगन्धन्यायेन / तदुत्तीर्णाशयेति च सर्वथा विशुद्ध्या प्रवृत्तिवासकचित्ताभावेन / / 26 / / स्वरूपमात्रनिर्भासं समाधिर्ध्यानमेव हि / विभागमनतिक्रम्य परे ध्यानफलं विदुः / / 27 / / वृ० - स्वरूपेति / स्वरूपमात्रस्य ध्येयस्वरूपमात्रस्य निर्भासो यत्र तत्तथा / अर्थाकारसमावेशेन भूतार्थरूपतया न्यग्भूतज्ञानस्वरूपतया च ज्ञानस्वरूपशून्यतापत्तेः ध्यानमेव हि समाधिः / तदुक्तं - "तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” (3-3) इति विभागमष्टाङ्गो योग इति प्रसिद्धमनतिक्रम्यानुल्लङ्घय परे