________________ 140 योगविंशिका गाथा-१८ , NNNNNNNNNA HAMNNNNNNNNNA तदावेधाद वचनसंस्कारात् यथाऽऽद्यं चक्रभ्रमणं दण्डव्यापारादुत्तरं च तज्जनितकेवलसंस्कारादेव तदुत्तीर्णाशयेति चाऽसञ्चित्ताऽभावेन / / 178 / / निराचारपदो ह्यस्यामतिचारविवर्जितः / आरूढारोहणाभावगतिवत्त्वस्य चेष्टितम् / / 179 / / वृ० - निराचारपदो हि एव अस्यां दृष्टौ योगी भवति, प्रतिक्रमणाद्यभावात्, अतिचारविवर्जितस्तन्निबन्धनाभावेन / आरूढारोहणाभावगतिवत्त्वस्य योगिनश्चेष्टितं भवति, आचारजेयकाभावात् निराचारपद इत्यर्थः / / 179 / / कथं भिक्षाटनाद्याचारोऽस्येत्याशङ्कापनोदायाह - रत्नादिशिक्षादृग्भ्योऽन्या यथा दृक् तन्नियोजने / तथाचारक्रियाप्यस्य सैवान्या फलभेदतः / / 180 / / वृ० - रत्नादिशिक्षादृग्भ्यः सकाशात् अन्या - भिन्नैव यथा दृक्-तन्नियोजने शिक्षितस्य सतः / तथाचार- ' क्रियाप्यस्य - योगिनः, सैव - भिक्षाटनादिलक्षणा अन्या भवति / कुत इत्याह - फलभेदतः, प्राक् साम्परायिककर्मक्षयः फलं, इदानीं तु भवोपग्राहिककर्मक्षय इति / / 180 / / तन्नियोगान्महात्मेह कृतकृत्यो यथा भवेत् / तथाऽयं धर्मसन्यासविनियोगान्महामुनिः / / 181 / / ... वृ० - तन्नियोगाद् रत्ननियोगात् महात्मेह - लोके कृतकृत्यो यथा भवेत् कश्चिद्रत्नवणिक् तथाऽयमधिकृतयोगो, धर्मसन्न्यासविनियोगात्सकाशात् महामुनिः कृतकृत्यो भवतीति / / 181 / / तत्र - द्वितीयाऽपूर्वकरणे मुख्योऽयमुपजायते / केवलश्रीस्ततश्चास्य निःसपत्ना सदोदया / / 182 / / वृ० - द्वितीयाऽपूर्वकरणे श्रेणिवर्तिनि मुख्योऽयं - धर्मसन्न्यासः उपजायते, उपचरितस्तु प्रमत्तसंयतादारभ्य, केवलश्रीस्ततश्च - धर्मसन्न्यासविनियोगात् अस्य योगिनो निःसपत्ना केवलश्रीः; सदोदया - प्रतिपाताभावेन / / 182 / / - योगदृष्टिसमुश्चयः सवृत्तिः / / ___C - सत्प्रवृत्तिपदं चेहासङ्गानुष्ठानसंज्ञितम् / संस्कारतः स्वरसतः प्रवृत्त्या मोक्षकारणम् / / 21 / / वृ० - सदिति / सत्प्रवृत्तिपदं चेह प्रभायामसङ्गानुष्ठानसंज्ञितं भवति / संस्कारतः प्राच्यप्रयत्नजात् स्वरसत इच्छानैरपेक्ष्येण प्रवृत्त्या प्रकृष्टवृत्त्या मोक्षकारणं / यथा दृढदण्डनोदनानन्तरमुत्तरश्चक्रभ्रमिसन्तानस्तत्संस्कारा-नुवेधादेव भवति, तथा प्रथमाभ्यासाद्ध्यानानन्तरं तत्संस्कारानुवेधादेव तत्सदृशपरिणामप्रवाहोऽसङ्गानुष्ठान-सञ्ज्ञां लभत इति भावार्थः / / 21 / / प्रशान्तवाहितासज्ञं विसभागपरिक्षयः / शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः / / 22 / / वृ० - प्रशान्तेति / प्रशान्तवाहितासझं सांख्यानां / विसभागपरिक्षयो बौद्धानां / शिववर्त्म शैवानां / ध्रुवाध्या महाव्रतिकानां / इत्येवं हि योगिभिरदोऽसङ्गानुष्ठानं गीयते / / 22 / / प्रशान्तवाहिता वृत्तेः संस्कारात् स्यानिरोधजात् / प्रादुर्भाव-तिरोभावौ तव्युत्थानजयोरयम् / / 23 / / वृ० - प्रशान्तेति / प्रशान्तवाहिता परिहृतविक्षेपतया सदृशप्रवाहपरिणामिता / वृत्तेवृत्तिमयस्य चित्तस्य निरोधजात् संस्कारात् स्यात् / तदाह - “तस्य प्रशान्तवाहिता संस्कारात्” (3-10) कोऽयं निरोध एवेत्यत आह - तद्व्युत्थानजयोनिरोधजव्युत्थानजयोः संस्कारयोः प्रादुर्भावतिरोभावौ वर्तमानाध्याभिव्यक्तिकार्यकरणासामर्थ्यावस्थानलक्षणौ अयं निरोधः / चलत्वेऽपि गुणवृत्तस्योक्तोभयक्षणवृत्तित्वान्वयेन चित्तस्य तथाविध