________________ योगविंशिका गाथा-१८ JNNNNNNNA 'व्यवहारंकाले वचनप्रतिसन्धाननिरपेक्षं दृढतरसंस्काराञ्चन्दनगन्धन्यायेनाऽऽत्मसाद्भूतं जिनकल्पिकादीनां क्रियासेवनमसङ्गानुष्ठानम्-४ / आह च - 7“यत्त्वभ्यासातिशयात सात्मीभूतमिव चेष्ट्यते सद्भिः / तदसङ्गानुष्ठानं, भवति त्वेतत् तदावेधात् / / " [षो० 10-7] ___उ० तृतीयमाह - वचनेत्यादि / वचनात्मिकाऽऽगमार्थस्मरणाविनाभाविनी प्रवृत्तिः क्रियारूपा सर्वत्र सर्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्ययोगतो देशकालपुरुषव्यवहाराद्यानुकूल्येन या तु भवति इदमेवं प्रवृत्तिरूपं वचनानुष्ठानं चारित्रवतः साधोर्नियोगेन नियमेन भवति तस्यैव भवदुर्गलङ्घनं षष्ठगुणस्थानावाप्तेस्तत्र च लोकसञ्ज्ञाभावान्नान्यस्य विपर्ययानिश्चयनयमतमेतद्व्यवहारतस्त्वन्यस्यापि मार्गानुसारिणो वचने प्रवर्त्तमानस्य देशत इदं भवत्येवेति द्रष्टव्यम् / / 6 / / - षोडशक-१०, वृत्तिः / / 7- A -वृ० - य० - तुर्यस्वरूपमाह - यत्पुनरभ्यासातिशयादभ्यासप्रकर्षाद्भूयो भूयस्तदासेवनेन सात्मीभूतमिवात्मसाद्भुतमिव चन्दनगन्धन्यायेन चेष्ट्यते क्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधाद्वचनावेधादागमसंस्कारात् / / 7 / / . उ० तुर्यस्वरूपमाह - यत्त्वित्यादि / यत्तु यत्पुनरभ्यासातिशयाद्भूयो भूयस्तदासेवनेन संस्कारविशेषात् सात्मीभूतमिव चन्दनगन्धन्यायेनात्मसाद्भूतमिव चेष्ट्यते क्रियते सद्भिः सत्पुरुषैर्जिनकल्पिकादिभिस्तदेवंविधमसङ्गानुष्ठानं भवति त्वेतज्जायते पुनरेतत्तदावेधात् प्राथमिकवचनसंस्कारात् / / 7 / / -- षोडशक-१०, वृत्तिः / / B - सत्प्रवृत्तिपदं चेहाऽसङ्गानुष्ठानसंज्ञितम् / महापथप्रयाणं यदनागामिपदावहम् / / 175 / / वृ० - सत्प्रवृत्तिपदं चेह / सत्त्वमार्गे किमित्याह - ‘असङ्गानुष्ठानसज्ञितं' वर्तते तथास्वरसप्रवृत्तेः / महापथ-प्रयाणं यदसङ्गानुष्ठानम्, अनागामिपदावहं - नित्यपदप्रापकमित्यर्थः / / 175 / / असङ्गानुष्ठाननामान्याह - प्रशान्तवाहितासझं विसभागपरिक्षयः / शिववर्त्म ध्रुवाध्वेति योगिभिर्गीयते ह्यदः / / 176 / / वृ० - प्रशान्तवाहितासझं सांख्यानां, विसभागपरिक्षयो - बौद्धानां, शिववर्त्म - शैवानां, ध्रुवाध्वा - महाव्रतिकानां, इत्येवं योगिभिर्गीयते ह्यदोऽसङ्गाऽनुष्ठानमिति / / 176 / / एतत्प्रसाधयत्याशु यद्योग्यस्यां व्यवस्थितः / एतत्पदावहैषैव तत्तत्रैतद्विदां मता / / 177 / / वृ० - एतदसङ्गनुष्ठानं, प्रसाधयत्याशु - शीघ्रं, यद्योगी अस्यां - दृष्टौ व्यवस्थितः सन्, एतत्पदावहैषैव दृष्टिः तत्तत्रैतद्विदा मतेष्टेति / / 177 / / उक्ता सप्तमी दृष्टिः / अधुनानन्तरोच्यते / तदाह - समाधिनिष्ठा तु परा तदासङ्गविवर्जिता / सात्मीकृतप्रवृत्तिश्च तदुत्तीर्णाशयेति च / / 178 / / वृ० - समाधिनिष्ठा तु पराऽष्टमी दृष्टिः, “समाधिस्तु ध्यानविशेषः", फलमित्यन्ये / यथोक्तं - “देशबन्धश्चित्तस्य धारणा” (3-1 पा०) “तत्र प्रत्ययैकतानता ध्यान” (3-2 पा०) “तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः” (3-3, पा०) इति / / तदासङ्गादिवर्जिता - समाध्यासङ्गविवर्जिता भूतप्रवृत्तिश्चैषा चन्दनगन्धन्यायेन