________________ 138 योगविंशिका गाथा-१८ NNNN NNNNNNNNNNNNNNNNNNNNNNNNNNNN "गौरवविशेषयोगाद्-बुद्धिमतो यद्विशुद्धतरयोगम् / क्रिययेतरतुल्यमपि, ज्ञेयं तद्भक्त्यनुष्ठानम् / / " [षो० 10-4] प्रीतित्वभक्तित्वे सन्तोष्यपूज्यकृत्यकर्तव्यताज्ञानजनितहर्षगतौ जातिविशेषौ, आह च - 5“अत्यन्तवल्लभा खलु, पत्नी तद्वद्धिता च जननीति / तुल्यमपि कृत्यमनयोतिं, स्यात् प्रीतिभक्तिगतम् / / " [षो० 10-5] तुल्यमपि कृत्यं भोजनाच्छादनादि, ज्ञातं उदाहरणं / शास्त्रार्थप्रतिसन्धानपूर्वा साधोः सर्वत्रोचितप्रवृत्तिर्वचनानुष्ठानम्-३ / आह च - “वचनात्मिका प्रवृत्तिः, सर्वत्रौचित्ययोगतो या तु / वचनानुष्ठानमिदं, चारित्रवतो नियोगेन / / " [षो० 10-6] 3] - वृ० - य० - द्वितीयस्वरूपमाह - गौरवविशेषयोगात् गौरवं गुरुत्त्वं पूजनीयत्वम् / तद्विशेषयोगात्तदधिकसम्बन्धात् / बुद्धिमतः पुंसो यदनुष्ठानं विशुद्धतरयोगं विशुद्धतरव्यापारं क्रियया कारणेन इतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तदेवंविधं भक्त्यनुष्ठानम् / / 4 / / . उ० द्वितीयमाह - गौरवेत्यादि / गौरवं गुरुत्वं पूज्यत्वं तस्य विशेषयोगोऽधिकसम्बन्धस्ततो बुद्धिमतो विशेषग्राहिधीशालिनः / यदनुष्ठानं विशुद्धतरव्यापारं क्रियया बाह्यकारणेनेतरतुल्यमपि प्रीत्यनुष्ठानतुल्यमपि ज्ञेयं तदेवंविधं भक्त्यनुष्ठानम् / / 4 / / . - षोडशक-१०, वृत्तिः / / 4- तुला - प्रीतित्वभक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः / / - षोडशक-१०, श्लोक-५, उपा० वृत्तिः / / 5- वृ० - य० - आह कः पुनः प्रीतिभक्त्योर्विशेष ? उच्यते - अत्यन्तवल्लभा खलु अत्यन्तवल्लभैव पत्नी भार्या तद्वत्पत्नीवदत्यन्तेष्टैव हिता च हितकारिणीतिकृत्वा जननी प्रसिद्धा / तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोर्जननीपत्न्योतिमुदाहरणं स्यात्प्रीतिभक्तिगतं प्रीतिभक्तिविषयमिदमुक्तं भवति प्रीत्या पत्न्याः क्रियते भक्त्या मातुरितीयान् प्रीतिभक्तयोज़िशेषः / / 5 / / उ० - कः पुनः प्रीतिभक्त्योर्विशेषः ? उच्यते - अत्यन्तेत्यादि / अत्यन्तवल्लभा खल्वत्यन्तप्रियैव पत्नी भार्या तद्वत्पत्नीवदत्यन्तेष्टैव हितकारिणीति कृत्वा जननी माता तुल्यमपि सदृशमपि कृत्यं भोजनाच्छादनाद्यनयोर्जननीपन्योतिमुदाहरणं स्यात् / प्रीतिभक्तिगतं प्रीतिभक्तिविषयं प्रीत्या पन्याः क्रियते भक्त्या मातुरिती-ान् विशेष इतिभावः / प्रीतित्वभक्तित्वे क्रियागुणमानोरथिकहर्षगतौ जातिविशेषाविति तर्कानुसारिणः / / 5 / / - षोडशक-१०, वृत्तिः / / 6] - वृ० - य० तृतीयस्वरूपमाह - वचनात्मिका आगमात्मिका प्रवृत्तिः क्रियारूपा सर्वत्र सर्व्वस्मिन् धर्मव्यापारे शान्तिप्रत्युपेक्षादौ औचित्ययोगतो या तु देशकालपुरुषव्यवहाराद्यौचित्येन वचनांनुष्ठानमिदमेवं प्रवृत्तिरूपं चारित्रवतः साधोर्नियोगेन नियमेन नान्यस्य भवति / / 6 / /