________________ योगविंशिका गाथा-१८ 137 NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN 1, भक्तत्यनुष्ठानं-२, वचनानुष्ठानं-३, चेति त्रिभेदं, तथाऽसङ्गतया युक्तं असङ्गानुष्ठानम्-४, इत्येवं चतुर्विधं ज्ञेयम् / एतेषां भेदानामिदं स्वरूपम् - यत्रानुष्ठाने प्रयत्नातिशयोऽस्ति परमा च प्रीतिरुत्पद्यते शेषत्यागेन च यत्क्रियते तत्प्रीत्यनुष्ठानम् / 1 / आह च - 2“यत्रादरोऽस्ति परमः, प्रीतिश्च हितोदया भवति कर्तुः / शेषत्यागेन करोति यञ्च तत्प्रीत्यनुष्ठानम् / / " [षो० 10-3] एतत्तुल्यमप्यालम्बनीयस्य पूज्यत्वविशेषबुद्ध्या विशुद्धतरव्यापारं भक्तत्यनुष्ठानम् 2 / आह च - वृ० - प्रीतीति / प्रीतिभक्तिवचोऽसङ्गैनिमित्तैश्चतुर्विधमनुष्ठानं / प्रीत्यनुष्ठानं, भक्त्यनुष्ठानं, वचनानुष्ठानं, असङ्गानुष्ठानं चेति / तत्र सुन्दरतामात्राहितरुचिपूर्वकानुष्ठानमाद्यं, गौरवाहितरुचिपूर्वकानुष्ठानं द्वितीयं, सर्वत्राप्तवचनपुरस्कारप्रवृत्तमनुष्ठानं तृतीयं, अभ्यासादात्मसाद्भूतं परद्रव्यानपेक्षमनुष्ठानं चतुर्थं / यदाहुः - (दशम षोडशके) “तत्प्रीति० / / 1 / / यत्रा० xxx ||2 || गौरव० xxx ||3 / / अत्यन्त० xxx ||4 / / वचना० xxx ||5 / / यत्त्वभ्यास. xxx / / 6 / / चक्र० xxx / 7 / / " आद्यद्वये प्रीतिभक्त्यनुष्ठानलक्षणे तिस्त्रः क्षमा भवन्ति उपकारापकारविपाकोत्तराः / अन्तिमद्वये च वचनासङ्गानुष्ठानलक्षणे द्वे क्षमे भवतो वचनधर्मोत्तरे / तदुक्तं -“आद्यद्वये त्रिभेदा चरमद्वितये द्विभेदेति” / / 8 / / - द्वा. द्वा., 28 - दीक्षाद्वात्रिंशिका सवृत्तिः / / B - तत्प्रीतिभक्तिवचनासङ्गोपपदं चतुर्विधं गीतम् / तत्त्वाभिज्ञैः परमपदसाधनं सर्वमेवैतत् / / 2 / / वृ. - य० - तत्सदनुष्ठानं प्रीतिश्च भक्तिश्च वचनं चासङ्गश्चैते शब्दा उपपदमुपोच्चारितपदं यस्य सदनुष्ठानस्य तत्तथा चतुर्विधं चतुर्भेदं गीतं शब्दितं प्रीत्यनुष्ठानं भक्त्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठानं तत्त्वाभिज्ञैः स्वरूपाभिज्ञैः परमपदसाधनं मोक्षसाधनं सर्वमेवैतञ्चतुर्विधम् / / 2 / / . उ० तदेव भेदत आह - तदित्यादि / तत्सदनुष्ठानं प्रीतिभक्तिवचनासङ्गा एते शब्दा उपपदानि पूर्वपदानि यस्य तत्तथा चतुर्विधं गीतं शब्दितं तत्त्वाभिज्ञैस्तत्त्वविद्भिः परमपदस्य मोक्षस्य साधनं सर्वमेवैतञ्चतुर्विधं प्रीत्यनुष्ठानं भक्तत्यनुष्ठानं वचनानुष्ठानमसङ्गानुष्ठानं च / / 2 / / - षोडशक-१०, सवृत्तिः / / | 2 | - वृ० - य० तत्राद्यरूपमाह - यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति परमप्रीतिश्चाभिरुचिरूपा हितोदया हित उदयो यस्याः सा तथा भवति कर्तुरनुष्ठातुः / शेषत्यागेन शेषप्रयोजनत्यागेन तत्काले करोति ययातीव धर्मादरात् / तदेवम्भूतं प्रीत्यनुष्ठानं विज्ञेयम् / / 3 / / उ० - तत्राद्यस्वरूपमाह - यत्रेत्यादि / यत्रानुष्ठाने आदरः प्रयत्नातिशयोऽस्ति प्रीतिश्चाभिरुचिरूपा हित उदयो यस्याः सा तथा भवति कर्तुरनुष्ठातुः शेषाणां प्रयोजनानां त्यागेन च तत्काले यच करोति तदेकमात्रनिष्ठतया तत्प्रीत्यनुष्ठानं ज्ञेयम् / / 3 / / - षोडशक-१०, वृत्तिः / /