________________ योगविंशिका गाथा-१९ 149 10"सुदढप्पयत्तवावारणं णिरोहो व विजमाणाण / झाणं करणाण मयं, ण उ चित्तणिरोहमित्तागं / / " [विशेषावश्यक भाष्य-३०७१] (छाया : सुदृढप्रयन्नव्यापारणं निरोधो विद्यमानानाम् / ध्यानं करणानां मतं न तु चित्तनिरोध-मात्रम्) इति / [10] -अत्र प्रेर्यमाशय परिहरन्नाह - झाणं मणोविसेसो तदभावे तस्स संभवो कत्तो / भण्णइ भणियं झाणं समए तिविहेवि करणंमि // 3070 / / वृ० - ननु / 'ध्यै चिन्तायाम्' इति वचनाद् मनोविशेषो मनसः कापि निश्चला चिन्तावस्थैव (प्र० ... चित्तावस्थैव) ध्यानमुच्यते / मनश्च “अमनस्काः केवलिनः” इति वचनात् तस्य नास्ति / ततस्तदभावे मनसोऽसत्त्वे तस्य ध्यानस्य केवलिनः कतः सम्भवः ? / अतः 'तनरोहारंभाओ' (गा. 3069) इत्याद्यघटमानमेवेति / सूरिराह-भण्यतेऽत्रोत्तरम् - ‘भङ्गियसुयं गुणंतो वट्टइ तिविहं वि झाणम्मि' इत्यादिवचनात् त्रिविधेऽपि मनोवाक्-कायलक्षणे करणे समये सिद्धान्ते ध्यानं भणितमेव / ततो मनोविशेष एव ध्यानमित्यनैकान्तिकम्, वाक्काय-व्यापारेऽपि ध्यानस्योक्तत्वादिति भावः / / 3070 / / यतः परिभाषा - सुदढप्पयत्तवावारणं निरोहो व विजमाणाणं / झाणं करणाण मयं न उचित्तनिरोहमित्तागं / / 3071 / / वृ० - यतश्च मनो-वाक्-कायलक्षणानां करणानां सुदृढप्रयत्नेन व्यापारणम् विद्यमानानां पूर्वोक्तक्रमण निरोधो वा ध्यानं भगवतां मतम्, न पुनश्चित्तनिरोधमात्रकम्, ध्यैधातोरनेकार्थत्वात्, करणनिरोधार्थेऽपि वर्तनादिति / / 3071 / / ततश्च - . . होज न मणोमयं वाइयं च झाणं जिणस्स तदभावे / कायनिरोहपयत्तस्सभावमिह को निवारेइ ? / / 3072 / / वृ० - तदभावे मनसोऽभावे 'जिनस्य' केवलिनो मनोमयं मनोविशेषरूपम्, तथा, मनःपूर्वकत्वाद् विशिष्टवचसो वाचिकं च ध्यानं न भवेत्, तद् मा भूत्, यत् पुनः कायनिरोधप्रयत्नस्वभावं ध्यानमिह, तत् तस्य को निवारयति ? न कोऽपीति / / 3072 / / . अपि च - जइ छउमत्थस्स मणोनिरोहमेत्तप्पयत्तयं झाणं / कह कायजोगरोहप्पयत्तयं होइ न जिणस्स ? / / 3073 / / वृ० - प्रकटार्था / / 3073 / / पुनरपि परः प्राह: - आहाभावे मणसो छउमत्थस्सेव तं न झाणं से / अह तदभावे वि मयं झाणं तं किं न सुत्तस्स ? / / 3074 / / वृ० - आह परः - मनसोऽभावे से तस्य केवलिनश्छद्मस्थस्यैकेन्द्रियादेरिव तत् सूक्ष्मक्रियानिवृत्त्यादिकं