________________ 134 योगविंशिका गाथा-१६ __ न चैवं तादृशषष्ठसप्तमगुणस्थानपरिणतिप्रयोज्यविधिव्यवहाराभावादस्मदादीनामिदानीन्तनमावश्यकाद्याचरणमकर्तव्यमेव प्रसक्तमिति शङ्कनीयम्, विकलानुष्ठानानामपि “जा जा हविज जयणा, सा सा से णिज्जरा होइ / " (छाया : या या भवेद्यतना सा सा तस्य निर्जरा भवति) इत्यादिवचनप्रामाण्यात् यत्किञ्चिद्विध्यनुष्ठानस्येच्छायोगसम्पादकतदितरस्यापि बालाद्यनुग्रहसम्पादकत्वेनाकर्तव्यत्वासिद्धेः, इच्छायोगवद्भिर्विकलानुष्ठायिभिर्गीतार्थैः सिद्धान्तविधिप्ररूपणे तु निर्भरो विधेयस्तस्यैव तेषां सकलकल्याण-सम्पादकत्वात्, उक्तं च गच्छाचारप्रकीर्णके - तथाचाह - खद्योतकस्य यत्तेजः तदल्पं च विनाशि च / विपरीतमिदं भानोरिति भाव्यमिदं बुधैः / / 224 / / वृ० - खद्योतकस्य सत्वविशेषस्य, यत्तेजः प्रकाशात्मकम् तत्किमित्याह अल्पं च विनाशि च स्वरूपेण विपरितमिदं भानोर्बह्वविनाशि चाऽऽदित्यस्येति इत्येवम्भावं, भाव्यमिदमधिकृतपक्षपातादेतत्क्रियादिकं, बुधैस्तत्त्वनीत्येति / / 224 / / - योगदृष्टिसमुश्ययः सवृत्तिः / / | 12/- नावश्यकादिवैयर्थ्यं तेषां शक्यं प्रकुर्वताम् / अनुमत्यादिसाम्राज्याद्भावावेशाञ्च चेतसः / / 24 / / वृ० - नेति / आवश्यकादिवैयर्थ्यं च तेषां स्ववीर्यानुसारेण शक्यं स्वाचारं प्रकुर्वतां न भवति / तत्करण एवाचारप्रीत्येच्छायोगनिर्वाहात् / तथाऽनुमत्यादीनामनुमोदनादीनां साम्राज्यात् सर्वथाऽभङ्गात् / चेतसश्चितस्य भावावेशादर्थाधुपयोगाञ्च श्रद्धामेधाद्युपपत्तेः / / 24 / / द्रव्यत्वेऽपि प्रधानत्वात्तथाकल्पात्तदक्षतम् / यतो मार्गप्रवेशाय मतं मिथ्यादृशामपि / / 25 / / वृ० - द्रव्यत्वेऽपीति / तदावश्यकस्य भावसाध्वपेक्षया द्रव्यत्वेऽपि प्रधानत्वादिच्छाद्यतिशयेन भावकारणत्वाद् द्रव्यपदस्य क्वचिदप्रधानार्थकत्वेन कचिच्च कारणार्थकत्वेनानुयोगद्वारवृत्ती व्यवस्थापनात् / तथाकल्पात् तथाचारात् / तदावश्यकं तेषामक्षतं / यतो मार्गप्रवेशाय मिथ्यादृशामपि तदावश्यकं मंतं गीतार्थैरङ्गीकृतं, अभ्यासरूपत्वात्, अस्खलितत्वादिगुणगर्भतया द्रव्यत्वोपवर्णनस्यैतदर्थद्योतकत्वाच्च / / 25 / / -- द्वा. द्वा., 3 - मार्गद्वात्रिंशिका सवृत्तिः / / 13- हीणस्सऽवि सुद्धपरुवगस्स संविग्गपक्खवायस्स / जा जा हविज जयणा, सा सा से निज्जरा होइ / / 526 / / वृ० - आस्तां तावन्निष्कलङ्कचारित्रिणः, हीनस्यापि उत्तरगुणाद्यपेक्षया न्यूनस्यापि शुद्धप्ररूपकस्य यथावस्थितसर्वज्ञागमप्रकाशकस्य, संविग्नेषु पक्षपातोऽस्यास्तीति संविग्नपक्षपाती, तस्य या या काचिद्भ'वेज्जायेत' यतना मनाक्परिणतिः, परिमितोदकादिग्रहणरूपा सा सा से तस्य संविग्नपक्षपातिनो निर्जरा भवति कर्मविलयहेतुत्वात्, तस्य कायेनान्यत्र प्रवृत्तस्यापि सदनुष्ठाने एव गाढं चित्तप्रतिवन्धत्वात्, तथा चोक्तं - “संविग्गपक्खिओ पुण अन्नत्थपयट्टिओवि काएणं / “धम्मे चिय तल्लिच्छो, दढरत्तित्थिव्व पुरिसंमि / / 1 / / " यस्तु गीतार्थो बहुस्तोकगुणदोषपरिकलनया भगवदुपदेशात्किञ्चिदासेवते, स महतो निर्जेरालाभण्य भाजनमिति / / 526 / / - उपदेशमाला, हेयोपादेयावृत्तिः / /