________________ योगविंशिका गाथा-१६ NNNNNN H“जइ वि ण सक्कं काउं, सम्मं जिणभासियं अणुट्ठाणं / ___ तो सम्म भासिज्जा, जह भणियं खीणरागेहिं / / 33 / / 15 ओसनो वि विहारे, कम्मं सोहेइ सुलभबोही य / चरणकरणं विसुद्धं, उवबूहंतो परूवितो / / 34 / / " (छाया : यद्यपि न शक्यं कर्तुं सम्यग्जिनभाषितमनुष्ठानं / तथापि सम्यग्भाषेत यथा भणितं क्षीणरागैः / / अवसन्नोपि विहारे कर्म शोधयति सुलभबोधिश्च / चरणकरणं विशुद्धमुपबृहयन्प्ररूपयन् / / ) इति / "ये तु गीतार्थाज्ञानिरपेक्षा विध्यभिमानिन इदानीन्तनव्यवहारमुत्सृजन्ति अन्यं च विशुद्धं व्यवहारं सम्पादयितुं न शक्नुवन्ति ते बीजमात्रमप्युच्छिन्दन्तो महादोषभाजो भवन्ति / "विधिसम्पादकानां विधिव्यवस्थापकानां च दर्शनमपि प्रत्यूहव्यूहविनाशनमिति वयं वदामः / / 16 / / 14- वृ० जइ इत्यादि / यद्यपि शक्यं न भवति तेन 'सक्कइ'त्ति पाठे तु न शक्यते कर्तुं विधानं कथं ? - सम्यक् त्रिकरणशुद्ध्या जिनभाषितं केवल्युक्तं अनुष्ठानं आजन्म क्रियाकलापरूपं, ततः सम्यक् आत्मसामhण भाषेत् यादृशं स्यात्तादृशं यथा क्षीणरागैः जिनैः भणितं कथितं तथा निरूपयेदिति / / 33 / / / ___- गच्छाचारपयन्ना लघुवृत्तिः / / [15]- वृ० - अथ प्रमादिनामपि शुद्धप्ररूपणया को गुणः ? इत्याह - ओसन्नो त्ति / अवसन्नोऽपि शिथिलोऽपि, क्व ? - विहारे मुनिचर्यायां कर्म दुष्टज्ञानावरणादिकं शोधयति, कर्मणां शिथिलत्वं प्रापयतीत्यर्थः, सुलभा-सुखेन लभ्येत्यर्थः बोधि-जन्मान्तरे जिनधर्मप्राप्तिरूपा यस्यासौ सुलभबोधिः, चकारात्सुदेवत्वप्राप्तिस्तदनन्तरं च सुकुलोत्पत्तिर्भवति, किं कुर्वन् ? - चरणकरणं विशुद्धं निर्दोषं उपबृंहयन् निर्मायभावेन प्रशंसां कुर्वन् प्ररूपयन च वाञ्छाविरहितो यथास्थितं भव्यानां कथयन्निति / - गच्छाचारपयन्ना लघुवृत्तिः / / [16]- तुला -A- मार्गभेदस्तु यः कश्चिन्निजमत्या विकल्प्यते / स तु सुन्दरबुद्ध्यापि क्रियमाणो न सुन्दरः / / 26 / / वृ० - मार्गेति / व्यक्तः / / 26 / / - द्वा. द्वा., 3 - मार्गद्वात्रिंशिका सवृत्तिः / / B - यस्त्वनुभवाविनिश्चित-मार्गाश्चारित्रपरिणतिभ्रष्टाः / बाह्यक्रियया चरणाभिमानिनो ज्ञानिनोऽपि न ते / / 35 / / - अध्यात्मसार, 20 - आत्मानुभवाधिकारः / / [17] - तुला - विधिकथनं विधिरागो विधिमार्गस्थापनं विधीच्छूनाम् / * अविधिनिषेधश्चेति, प्रवचनभक्तिः प्रसिद्धा नः / / 32 / / द्वयमिह शुभानुबन्धं, शक्यारम्भश्च शुद्धपक्षश्च / अहितो विपर्ययः पुनरित्यनुभवसङ्गतः पन्थाः / / 34 / / - अध्यात्मसार, 20 - आत्मानुभवाधिकारः / /