________________ योगविंशिका गाथा-१६ 133 NNNNNNNN ननु यद्येवं सर्वादरेण विधिपक्षपातः क्रियते तदा - “अविहिकया वरमकयं, असूयवयणं भणंति सव्वन्नू / पायच्छित्तं जम्हा, अकए गुरुयं कए लहुआं / / 1 / / " [जीवा- 61] (छाया-अविधिकृताद्वरमकृतं ? असूयावचनं भणन्ति सर्वज्ञाः / ___प्रायश्चित्तं यस्मादकृते गुरुकं कृते लघुकं / / ) इत्यादि वचनानां का गतिः ? इति चेत्, नैतानि वचनानि मूलत एवाविधिप्रवृत्तिविधायकानि, किन्तु विधिप्रवृत्तावप्यनाभोगादिनाऽविधिदोषश्छद्मस्थस्य भवतीति तद्भिया न क्रियात्यागो विधेयः प्रथमाभ्यासे तथाविधज्ञानाभावादन्यदापि वा प्रज्ञापनीयस्याविधिदोषो निरनुबन्ध इति तस्य तादृशानुष्ठानमपि न दोषाय, विधिबहुमानाद् गुर्वाज्ञायोगाञ्च तस्य फलतो विधिरूपत्वादित्येतावन्मात्रप्रतिपादनपराणीति न कश्चिद्दोषः / / अवोचाम चाध्यात्मसारप्रकरणे - 10“अशुद्धापि हि शुद्धायाः, क्रियाहेतुः सदाशयात् / तानं रसानुवेधेन, स्वर्णत्वमुपगच्छति / / 1 / / " [2-16] यस्तु विध्यबहुमानादविधिक्रियामासेवते तत्कर्तुरपेक्षया विधिव्यवस्थापनरसिकस्तदकर्ताऽपि भव्य एव, तदुक्तं योगदृष्टिसमुचये ग्रन्थकृतैव - . “तात्त्विकः पक्षपातश्च, भावशून्या च या क्रिया / अनयोरन्तरं ज्ञेयं, भानुखद्योतयोरिव / / 223 / / " इत्यादि / [10]- ननु सा क्रियाऽशुद्धाऽसर्वज्ञोपदिष्टत्वात् व्यभिचारिणी, अतो धर्मविघ्नक्षयाय कथं भवेदित्याशंक्याह - अशुद्धापि हि शुद्धायाः क्रियाहेतुः सदाशयात् / तानं रसानुवेधेन स्वर्णत्वमधिगच्छति / / 40 / / वृ० - अशुद्धेति / हि यस्मात् यद्यपि अशुद्धाऽसर्वज्ञोक्ता सावद्या सदोषा तथापि साऽपुनरानुबन्धकस्वीकृता क्रिया सदाशयात् सन् समीचीनो मोक्षाभिलाषात्मको य आशयोऽध्यवसायः कर्तुः सुपरिणामः तस्मात् शुद्धायाः सर्वज्ञप्रणीतक्रियाया हेतुः प्राप्तिकरणं भवति / अत्र दृष्टान्तमाह-तानं धातुविशेषः अशुद्धमपि रसानुवेधेन रसेन सिद्धपारदादिनाऽनुवेधोऽन्तर्भेदनं तेन ताम्रानुगतजलस्य शोषणेनेत्यर्थः स्वर्णत्वं काञ्चनभावं अधिगच्छति प्राप्नोति / तद्वत् सदाशयरसासिक्ताऽशुद्धापि क्रियां शुद्धक्रियाया हेतुः स्यादित्यर्थः / / 40 / / - अध्यात्मसार, २-अध्यात्मस्वरूपाधिकार, पं. श्रीगम्भीरविजय-सत्कावृत्तिः / / 11- वृ० - तात्त्विकः पक्षपातश्च पारमार्थिक इत्यर्थः भावशून्या प्रति (च या) क्रिया इति, ‘अनयोरन्तरं ज्ञेयं' कयोरिवेत्याह भानुखद्योतयोरिव महदन्तरमित्यर्थः / / 223 / /