________________ 132 योगविंशिका गाथा-१६ 2"लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन / / 1 / / " [ज्ञानसार, 23-4] "स्तोका आर्या अनार्येभ्यः, स्तोका जैनाश्च तेष्वपि / सुश्राद्धास्तेष्वपि स्तोकाः, स्तोकास्तेष्वपि सत्क्रियाः / / 2 / / 4“श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न / स्तोका हि रत्नवणिजः, स्तोकाश्चस्वात्मशोधकाः / / 3 / / " [ज्ञानसार-२३-५] 5"एकोऽपि शास्त्रनीत्या यो, वर्तते स महाजनः / किमज्ञसाथैः ? शतम-प्यन्धानां नैव पश्यति / / 4 / / " 6"यत्संविग्नजनाचीर्णं, श्रुतवाक्यैरबाधितम् / तज्जीतं व्यवहाराख्यं, पारम्पर्यविशुद्धिमत् / / 5 / / " 7"यदाचीर्णमसंविग्नैः, श्रुतार्थानवलम्बिभिः / न जीतं व्यवहारस्त-दन्धसन्ततिसम्भवम् / / 6 / / " 8"आकल्पव्यवहारार्थं, श्रुतं न व्यवहारकम् / इति वक्तुमहत्तन्त्रे, प्रायश्चित्तं प्रदर्शितम् / / 7 / / " "तस्माच्छ्रुतानुसारेण, विध्येकरसिकैर्जनैः / संविग्नजीतमालम्ब्य-मित्याज्ञा पारमेश्वरी / / 8 / / " 2- वृ० - लोकमिति / चेत् यदि यत् बहुभि कृतं तत् कर्त्तव्यं लोकं आलम्ब्य एव क्रियते तदा मिथ्यादृशां धर्मः कदाचन कदापि न त्याज्यः स्यात्, तञ्च बहुभिः क्रियमाणत्वात् स्वेच्छाचरणो लोको बहुतरः, यतो अनार्येभ्यो आर्याः स्तोकाः, आर्येभ्यो जैनाचाराः स्तोका जैनाचारवर्त्तिषु जैनपरिणतिपरिणताः स्तोकाः, अतो बहुलोकानुयायिना भवनीयमिति / / 4 / / - ज्ञानसार-२३, लोकसञ्ज्ञात्यागाष्टक उ. देवचन्द्रीयावृत्तिः / / B - धर्मोद्यतेन कर्त्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात्कदाचन / / 14 / / ___- अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / [3]- अस्य श्लोकस्य मूलस्थानं नोपलब्धम् - सम्पा० / / 4- वृ० - श्रेयोऽर्थिनो हि भूयांस इति / लोके बाह्यप्रवाहे श्रेयोऽर्थिनः धनस्वजनभुवनवनतनुकल्पार्थिनः भूयांसः प्रचुराः सन्ति, च पुनः लोकोत्तरे अमूर्तात्मस्वभावाविर्भावलक्षणे प्रवर्त्तमानाः न च नैवेति हीति निश्चितं रत्नवणिजः स्तोकाः तथा च पुनः स्वात्मसाधकाः स्व आत्मा तस्य साधकाः निरावरणत्वनिष्पादकाः स्तोका इति / / 5 / / - ज्ञानसार, 23 - लोकसंज्ञात्यागाष्टक, उ. देवचन्द्रीयावृत्तिः / / 5- तः, 9, एतेषां श्लोकानां मूलस्थानानि नोपलब्धानि / - सम्पा० / /