________________ योगविंशिका गाथा-१६ 131 JINNNNNNNNNN वोड्ढ्वा च साधुसमयसद्भावं समीचीनसिद्धान्तरहस्यं, सम्यग् विधिनीत्या, प्रवर्तितव्यं चैत्यवन्दनादौ, बुधेन पण्डितेन, अतिनिपुणबुद्ध्या अतिशयितसूक्ष्मभावानुधाविन्या मत्या / साधुसमयसद्भावश्वायम् - __C- लोकाराधनहेतोर्या, मलिनेनान्तरात्मना / क्रियते सत्क्रिया साऽत्र, लोकपंक्तिरुदाहता / / 88 / / वृ० - लोकाराधनहेतोः लोकचित्तावर्जननिमित्तं या 'मलिनेन'-कीर्तिस्पृहादिमालिन्यवता अन्तरात्मनाचित्तरूपेण क्रियते-विधीयते सत्क्रिया-शिष्टसमाचाररूपा, सा अत्र-योगनिरूपणायाम् 'लोकपंक्तिः'-प्रागुद्दिष्टा'उदाहृता' योगशास्त्रज्ञैः / / 88 / / अर्थतां दूषयन्नाह - भवाभिनन्दिनो लोकपंक्तया धर्मक्रियामपि / महतो हीनदृष्ट्योच्चैर्दुरन्तां तद्विदो विदुः / / 89 / / वृ० - भवाभिनन्दिनो / जीवस्य, लोकपंक्तयोक्तरूपया 'धर्मक्रियामपि' किं पुनरितरक्रियामित्यपिशब्दार्थः, किमित्याह महतः-अधरीकृतकल्पद्रुमचिन्तामणिकामधेनोर्धर्मस्य, हीनदृष्ट्या-बुद्धिमतामत्यन्तमनादेयस्य कीर्त्यादिमात्रस्य हेतुभावेन नियोजनाद्धीनतयावलोकनेन ‘उचैः'-अत्यर्थं शेषानर्थहेतुभ्यः सकाशात्, दुरन्तांदारुणपरिणामां तद्विदः-लोकपंक्तिस्वरूपविदः विदुः-जानते, इति लोकपंक्तिस्त्याज्यैवेति / / 89 / / * अथैषापि विवेकिनः सुन्दरपरिणामा स्यादित्यभिधित्सुराह - तुला - धर्मार्थं लोकपंक्तिः स्यात् कल्याणाझं महामतेः / तदर्थं तु पुनर्धर्मः, पापायाल्पधियामलम् / / 10 / / वृ० . धर्मार्थं सम्यग्दर्शनादिमोक्षबीजाधाननिमित्तम्, लोकपंक्तिर्दानसम्मानोचितसम्भाषणादिभिश्चित्रैरुपायैः स्याद्-भवेत्, कल्याणाङ्गं श्रेयःकारणं, महामतेः-प्रशस्तबुद्धेः / अत एवोच्यते - “युक्तं जनप्रियत्वं, शुद्धं सद्धर्मसिद्धिफलदमलम् / धर्मप्रशंसनादेर्वीजाधानादिभावेन / / 1 / / " इति / - षोडशक-४-७ / / व्यतिरेकमाह-तदर्थं तु लोकपंक्तिनिमित्तमेव, पुनर्धर्मः सदाचाररूपः पापाय-पापकर्मनिमित्तं अल्पधियांतुच्छवुद्धीनां पुसां, अलं-अत्यर्थमिति / / 10 / / अत्रैव किञ्चिद्विशेषमाह - लोकपंक्तिमतः प्राहुरनाभोगवतो वरम् / धर्मक्रियां न महतो, हीनताऽत्र यतस्तथा / / 91 / / वृ० - लोकपंक्तिमतो लोकचित्ताराधनप्रधानस्य प्राहुः-ब्रुवते कीदृशस्येत्याह अनाभोगवतः-सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः वरं-पूर्वोक्ताल्पबुद्धिधर्मक्रियायाः सकाशात् प्रधानं यथा भवति धर्मक्रियांसदाचाररूपाम् / कुंत इत्याह न-नैव महतो-धर्मस्य हीनता-हीनभावः अत्र-अनाभोगवतो धर्मक्रियायां यतः यस्मात् कारणात् तथा-तेन प्रकारेण, यथा मलिनात्मारब्धधर्मक्रियायाम् / इदमुक्तं भवति-अनाभोगवतो लोकाराधनप्रधानस्य कीर्त्यादिस्पृहामलिनात्मधर्मक्रियायाः सकाशात् मनाक् सुन्दरैव धर्मक्रिया महतो धर्मस्य तत्र हीनतयानवलोकनादिति / / 91 / / -- योगबिन्दुःसवृत्तिः / /