________________ 130 योगविंशिका गाथा-१५-१६ . NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN wwwMAIN मण्डल्युपवेशनं-सिद्धान्तदानेऽर्थमण्डल्युपवेशनम् / तदधिकदोषः अयोग्यश्रोतुरधिकदोषः, पापकर्तुरपेक्षया तत्कारयितुर्महादोषत्वात् / तस्माद्विधिश्रवणरसिकं श्रोतारमुद्दिश्य विधिप्ररूपणेनैव गुरुस्तीर्थव्यवस्थापको भवति, विधिप्रवृत्त्यैव च तीर्थमव्यवच्छिन्नं भवतीति सिद्धम् / / 15 / / ननु किमेतावद्गूढार्थगवेषणया ? यद्बहुभिर्जनैः क्रियते तदेव कर्तव्यं ‘महाजनो येन गतः स पन्थाः' इति वचनात्, जीतव्यवहारस्यैवेदानीं बाहुल्येन प्रवृत्तेस्तस्यैवाऽऽतीर्थकालभावित्वेन तीर्थव्यवस्थापकत्वादित्याशङ्कायामाह - मुत्तूण लोगसन्नं, उड्ण य साहुसमयसब्भावं / सम्मं पयट्टियव्वं, बुहेणमइनिउणबुद्धिए / / 16 / / (छाया : मुक्त्वा' लोकसज्ज्ञा' वोढ़वा' च साधुसमयसद्भाव / सम्यग् प्रवर्तितव्यं बुधेन' अतिनिपुणबुद्ध्या / / ) मुत्तूण त्ति / मुक्त्वा' लोकसञ्ज्ञां 'लोक एव प्रमाणं' इत्येवंरूपां शास्त्रनिरपेक्षां मतिं, उड्डण य त्ति - सम्पा० / / उ० नेत्यादि / एवंविधस्योक्तरूपायोग्यस्य मण्डल्यामर्थमण्डल्यां यदुपवेशनं श्रवणार्थं तत्प्रदानमपि न शस्तं नानुज्ञातं किं पुनर्दानादीत्यपिशब्दार्थः / एतत्तस्य मण्डल्युपवेशनप्रदानं कुर्वन् गुरुरप्याभिधातापि तस्मादयोग्यपुरुषादधिकदोषोऽवगन्तव्यः सिद्धान्तावज्ञापादकत्वात् / / 15 / / - षोडशक-१०, वृत्तिः / / [6] - विधिप्रापणेनैव / हारिभद्रीययोगभारतीमध्ये / - सम्पा० / / |1] - मुद्रितपुस्तकमध्ये असौ पाठः ( ) मध्येऽस्ति / तुला - A - xxx लोकसञ्ज्ञा च निर्दोषसूत्रमार्गानुपेक्षिणी / / 9 / / शुद्धस्यान्वेषणे तीर्थोच्छेदः स्यादिति वादिनाम् / लोकाचारादरश्रद्धा, लोकसझेति गीयते / / 11 / / .- अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / B- प्राप्तः षष्ठं गुणस्थानं, भवदुर्गादिलङ्घनम् / लोकसज्ञारतो न स्यान्, मुनिर्लोकोत्तरस्थितिः / / 1 / / यथा चिन्तामणिं दत्ते, बठरो बदरीफलः / हहा ! जहाति सद्धर्म, तथैव जनरञ्जनैः / / 2 / / लोकसज्ञामहानद्या, - मनुस्रोतोऽनुगा न के ? / प्रतिस्रोतोऽनुगस्त्वेको, राजहंसो महामुनिः / / 3 / / लोकमालम्ब्य कर्तव्यं, कृतं बहुभिरेव चेत् / तदा मिथ्यादृशां धर्मो, न त्याज्यः स्यात् कदाचन / / 4 / / श्रेयोऽर्थिनो हि भूयांसो, लोके लोकोत्तरे च न / स्तोका हि रत्नवणिजः, स्तोकाश्च स्वात्मसाधकाः / / 5 / / लोकसञ्ज्ञाहता हन्त !, नीचैर्गमनदर्शनैः / शंसयन्ति स्वसत्याङ्ग, - मर्मघातमहाव्यथाम् / / 6 / / आत्मसाक्षिकसद्धर्म, - सिद्धौ किं लोकयात्रया / तत्र प्रसन्नचन्द्रश्च, भरतश्च निदर्शनम् / / 7 / / लोकसज्ञोज्झितः साधुः, परब्रह्मसमाधिमान् / सुखमास्ते गतद्रोह, - ममतामत्सरज्वरः / / 8 / / - ज्ञानसार, 23 / /