________________ योगविंशिका गाथा-१५ 129 MMMMNNNNNNNNNNNNNwwwwwwwwNA (छायाः यथा शरणमुपगतानां जीवानां शिरो निकृन्तति यस्तु / एवमाचार्योऽपि हु उत्सूत्रं प्रज्ञापयंश्च) न केवलमविधिप्ररूपणे दोषः, किन्तु विधिप्ररूपणाभोगेऽविधिनिषेधासम्भवात्तदाशंसनानुमोदनापत्तेः फलतस्तत्प्रवर्तकत्वाद्दोष एव / तस्मात् “स्वयमेतेऽविधिप्रवृत्ता नात्रास्माकं दोषो, वयं हि क्रियामेवोपदिशामो न त्वविधिम्” एतावन्मात्रमपुष्टालम्बनमवलम्ब्य नोदासितव्यं परहितनिरतेन धर्माचार्येण, किन्तु सर्वोद्यमेनाविधिनिषेधेन विधावेव श्रोतारः प्रवर्तनीयाः, एवं हि ते मार्गे प्रवेशिताः, अन्यथा तून्मार्गप्रवेशनेन नाशिताः / / एतदपि भावयितव्यमिह तीर्थोच्छेदभीरुभिः - विधिव्यवस्थापनेनैव ह्येकस्यापि जीवस्य सम्यग् बोधिलाभे चतुर्दशरज्ज्वात्मकलोकेऽमारिपटहवादनात्तीर्थोन्नतिः', अविधिस्थापने च विपर्ययात्तीर्थोच्छेद एवेति / यस्तु श्रोता विधिशास्त्रश्रवणकालेऽपि न संवेगभागी तस्य धर्मश्रावणेऽपि महादोष एव, तथा चोक्तं ग्रन्थकृतैव षोडशके - “यः शृण्वन सिद्धान्तं, विषयपिपासातिरेकतः पापः / प्राप्नोति न संवेगं, तदापि यः सोऽचिकित्स्य इति / / 10-14 / / नैवंविधस्य शस्तं, मण्डल्युपवेशनप्रदानमपि / कुर्वन्नेतद् गुरुरपि, तदधिकदोषोऽवगन्तव्यः / / 10-15 / / " 37 - तुला - सयलम्मि वि जीवलोए तेण इहं घोसिओ अमाधाओ / इक्कंपि जो दुहत्तं सम्मं बोहेइ जिणवयणे / / - उपदेशमाला / / 4 - वृ० य० - श्रुण्वन्नपि तीर्थकराभिहितमर्थतः सिद्धान्तं प्रतिष्ठितपक्षरूपं गणधराद्युपनिबद्धमागमं 'विषयपिपासातिरेकतो रूपरसगन्धस्पर्शशब्दाभिलाषातिरेकेण पापः संक्लिष्टाध्यवसायत्वान्न प्राप्नोति संवेगं मोक्षाभिलाषं तदापि सिद्धान्तश्रवणकालेऽप्यास्तां तावदन्यदा य एवंविधः सोऽचिकित्स्य इत्यचिकित्सनीयः स वर्त्तते शास्त्रविहितदोषचिकित्साया अनर्हत्वादिति / / 14 / / उ० यस्य तु दुरुपशमो विषयाभिलाषः स फलाभावादज्ञान्येवेति तदयोग्यत्वप्रतिपादनायाह श्रुण्वन्नित्यादि / श्रुण्वन्नपि सिद्धान्तमर्थतस्तीर्थकरोक्तं सूत्रतो गणधरग्रथितं विषयपिपासाया रूपरसगन्धस्पर्शशब्दाभिलाषस्यातिरेकत उद्रेकात्पापः संक्लिष्टाध्यवसायस्तदापि सिद्धान्तश्रवणकालेप्यास्तामन्यदा यः संवेगं मोक्षाभिलाषं न प्राप्नोति सोऽचिकित्स्य इति चिकित्साऽनर्हः निरुपक्रमदोषवत्त्वादितिभावः / / 14 / / . - षोडशक-१०, वृत्तिः / / 5] - वृ० य० न प्रतिषेधे एवंविधस्य पुरुषस्य शस्तं प्रशस्तमनुज्ञातमित्यर्थः / मण्डल्युपवेशनप्रदानमपि अर्थमण्डल्यां यदुपवेशनं श्रवणार्थं तत्प्रदानमपि कुर्वन् सम्पादयन्नेतत्पूर्वोक्तं गुरुरपि प्रस्तुतोऽर्थाभिधायी तदधिकदोषोऽयोग्यपुरुषाधिकदोषोऽवगन्तव्योऽवबोद्धव्यः सिद्धान्तावज्ञापादनादिति / / 15 / /