________________ 128 योगविंशिका गाथा-१५ Wwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwwww (छाया : स' एषः२ वक्र एव, न च स्वयंमृतमारितयोरविशेषः / एतद् अपि भावयितव्यम् इह तीर्थोच्छेदभीरूभिः / / ) सो एस त्ति / स एषः सूत्रक्रियाविनाशः, वक्र एव तीर्थोच्छेदपर्यवसायितया दुरन्तदुःखफल एव / ननु शुद्धक्रियाया एव पक्षपाते क्रियमाणे शुद्धायास्तस्या अलाभादशुद्धायाश्चानङ्गीकारादानुश्रोतसिक्या वृत्त्याऽक्रियापरिणामस्य स्वत उपनिपातात्तीर्थोच्छेदः स्यादेव, यथाकथञ्चिदनुष्ठानावलम्बने च जैनक्रियाविशिष्टजनसमुदायरूपं तीर्थं न व्यवच्छिद्यते, न च कर्तुरविधिक्रियया गुरोरुपदेशकस्य कश्चिद्दोषः, अक्रियाकर्तुरिवाविधिक्रियाकर्तुस्तस्य स्वपरिणामाधीनप्रवृत्तिकत्वात् केवलं क्रियाप्रवर्तनेन गुरोस्तीर्थव्यवहाररक्षणाद् गुण एवेत्याशङ्कायामाह - न च स्वयंमृतमारितयोरविशेषः, किन्तु विशेष एव, स्वयंमृते स्वदुष्टाशयस्यानिमित्तत्वात्, मारिते च मार्यमाणकर्मविपाकसमुपनिपातेऽपि स्वदुष्टाशयस्य निमित्तत्वात्, तद्वदिह स्वयमक्रियाप्रवृत्तं जीवमपेक्ष्य गुरोर्न दूषणम्, तदीयाविधिप्ररूपणमवलम्ब्य श्रोतुरविधिप्रवृत्तौ च तस्योन्मार्गप्रवर्तनपरिणामादवश्यं महादूषणमेव', तथा च श्रुतकेवलिनो वचनम् - ___2“जह सरणमुवगयाणं, जीवाण सिरो निकिंतए जो उ / एवं आयरिओ वि हु, उस्सुत्तं पण्णवेंतो य / / 1 / / " [उपदेशमाला-५१८] [1] - तुला - एवं सामान्येन उपदेशानुपदेशे प्रयोजनमभिधाय प्रत्यपायपरिजिहीर्षया विशेषतोऽभिधित्सुराह - गुरूणो अजोगिजोगो अनंतविवागदारूणो णेओ / जोगीगुणहीलणा णट्ठणासणा धम्मलाघवओ / / 37 / / वृ० गुरोः - आचार्यस्य योगिन इत्यर्थः, अयोगियोगः-अयोगिव्यापारो विपरीतोपदेशादिः अत्यन्तविपाकदारूणो ज्ञेयः अतिशयेन दारुण इत्यर्थः / कुतः इत्याह - योगिगुणहीलनात् कारणात् / एवं हि विडम्बकप्रतिपत्तिन्यायेन तद्गुणा हीलिता भवन्ति / "उत्तमपदस्थस्य तद्धर्मानुपालनमघोषणा विडम्बना” इति वृद्धाः / तथा नष्टनाशनात् - नष्टा एते प्राणिनोऽयोग्यतया विपरीतोपदेशेन नाशिता भवन्ति / तथा धर्मलाघवात् हेतो विपरीतोपदेशाद्धि तत्त्वाऽप्रतिपत्त्या वितथासेवनेन धर्मलाघवम् / इति गाथार्थः / / 37 / / - योगशतकं सवृत्तिकं / / |2| - A -वृ० - यथा शरणं भयार्त्तत्राणलक्षणमुपगतानामभ्युपगतानां जीवानां देहिनां निकृन्तति छिनत्ति शिरांसि मस्तकानि यस्तु, स तथा दुर्गतावात्मानं निक्षिपतीति वर्तते, एवमनेनैवोपमानेनाचार्योऽपि गुरुरपि, आस्तामपरः, हुरलङ्कारे, उत्सूत्रमागमादुत्तीर्णं प्रज्ञापयन् प्ररूपयन्, तुशब्दादाचरंश्च / / 518 / / - उपदेशमाला, हेयोपादेयावृत्तिः / / B-जह सीसाइ निकिंतइ कोइ सरणागयाण जीवाण | तह गच्छमसारंतो गुरु वि सुत्ते जओ भणिओ / / 96 / / उम्मग्गंमि पविट्ठो उम्मग्गपरूवओ सहायकरो / सुविहियजणपडिकूलो आयरिओ वि तहा जाण / / 97 / / - सम्बोधप्रकरणं - गुर्वधिकारः / /