________________ योगविंशिका गाथा-१४-१५ 127 विधिपराणां लाभात् क्रमेण तीर्थोच्छेदः स्यादिति तदनुच्छेदायाविध्यनुष्ठानमप्यादरणीयमित्याशङ्कायामाह - 'तित्थस्सुच्छेयाइ वि, नालंबणमित्थं जं स एमेव / सुत्तकिरियाइ नासो, एसो असमंजसविहाणा / / 14 / / (छाया : तीर्थोच्छेदाद्यपि' नालम्बनम् अत्र' यस्मात् सः एवमेव / सूत्रक्रियाया नाशः एषः असमञ्जसविधानात् / / ) तित्थस्स इत्यादि / अत्र अविध्यनुष्ठाने, तीर्थोच्छेदाद्यपि नालम्बनं, 'तीर्थानुच्छेदायाविध्यनुष्ठानमपि कर्तव्य'मिति नालम्बनीयम् / यद् यस्मात्, एवमेव अविध्यनुष्ठाने क्रियमाण एव, असमञ्जसविधानात् विहितान्यथाकरणादशुद्धपारम्पर्यप्रवृत्त्या सूत्रक्रियाया विनाशः, स एष तीर्थोच्छेदः / न हि तीर्थनाम्ना जनसमुदाय एव तीर्थम् आज्ञारहितस्य तस्यास्थिसङ्घातरूपत्वप्रतिपादनात्, किन्तु सूत्रविहितयथोचित-क्रियाविशिष्टसाधुसाध्वी-श्रावकश्राविकासमुदायः, तथा चाविधिकरणे सूत्रक्रियाविनाशात् ‘परमार्थतस्तीर्थविनाश एवेति तीर्थोच्छेदालम्बनेनाविधिस्थापने लाभमिच्छतो मूलक्षतिरायातेत्यर्थः / / 14 / / सूत्रक्रियाविनाशस्यैवाहितावहतां स्पष्टयन्नाह - सो एस वंकओ चिय, न य सयमयमारियाणमविसेसो / एयं पि भावियव्वं, इह तित्थुच्छेयभीरूहि / / 15 / / वबन्दनाधिकारितायामपुनर्बन्धकवदेतावानधिकृतौ सकृद्वन्धकादिवत् पृथकृतौ चेत्यस्माभिरपि व्यावर्त्तमानावेतौ विवक्षाविषयीकृत्य “गंठिगया” इत्यादिनाऽ-प्रधानावुक्ताविति यथाशास्त्रं परिभावनीयं सुधीभिः / / 64 / / - उपदेशरहस्यं सवृत्तिकं / / 1- तुला - तीर्थोच्छेदभिया हन्ता-विशुद्धस्यैव चादरे / सूत्रक्रियाविलोपः स्याद् गतानुगतिकत्वतः / / 13 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / [2]- तुला - एगो साहू एगा य साहूणी सावओ य सड्डी वा / आणाजुत्तो संघो सेसो पुण अट्ठिसंघाओ / / 288 / / निम्मलनाणपहाणो दंसणजुत्तो चरित्तगुणवंतो / तित्थयराण य पुज्जो वुझ्यइ एयारिसो संघो / / 289 / / सव्वो वि नाणदंसणचरणगुणविभूसियाण समणाणं / समुदाओ होइ संघो गुणसंघाउत्ति काऊणं / / 290 / / इक्को वि नीईवाई अवलंबतो विसुद्धववहारं / सो होइ भावसंघो जिणाण आणं अलंघतो / / 291 / / तित्थं चाउव्वण्णो संघो संघो वि इक्कगो पक्खो / चाउव्वण्णो वि संघो सायरिओ भण्णए तित्थं / / 292 / / - सम्बोधप्रकरणम् / /