________________ 126 योगविंशिका गाथा-१४ NNNNNNNNNNNNNNNNA नन्वविधिनाऽपि चैत्यवन्दनाद्यनुष्ठाने तीर्थप्रवृत्तिरव्यवच्छिन्ना स्यात्, विधेरेवान्वेषणे तु द्वित्राणामेव सदाज्ञाऽप्रदानरूपा / किं विशिष्टा ? इत्याह - एकान्त परिशुद्धा, तदपायपरिहारेण / अत एवेयमविराधनाफला, सम्यगालोचनेन / न पुनर्लानपथ्यप्रदानेन निबन्धनकरुणावत्तदाभासेति / इयं चैवभूतां त्रिलोकनाथबहुमानेन हेतुना निःश्रेयससाधिकेति / किमुक्तं भवति ? नानागमिकस्येयं भवति, किन्तु परिणतागमिकस्य / अस्य च भगवत्येवं बहुमानः / एवं चेयं मोक्षसाधिकैव सानुबन्धसुप्रवृत्तिभावेन / / xxx ||7|| - पञ्चसूत्रं, 5 - प्रव्रज्याफलसूत्रम् सवृत्तिकम् / / E- गठिगया सइबंधग मग्गाभिमुहा य मग्गपडिआ य / तह अभविआ य तेसिं पूआदथ्येण दव्वाणा / / 18 / / वृ० - ग्रन्थिगताश्चात्रेमेऽधिकृता, अपुनर्बन्धकस्य पृथगनिर्दिष्टत्वेन गोबलीवर्दन्यायेन तदतिरिक्तत्वलाभात् सकृद्वन्धका ये नाम यथाप्रवृत्तकरणेन ग्रन्थिप्रदेशमागता अप्यभिन्नग्रन्थयः सकृदेवोत्कृष्टां सागरोपमकोटाकोटीसप्ततिलक्षणां स्थिति बन्स्यति, मार्गाभिमुखाश्च क्षयोपशमविशेषमार्गरूपनगरनिकटस्थाः, मार्गपतिताश्चाव्यवधानतो बहिर्भूताः, तथेति समुच्चये, चः पुनरर्थे, अभव्याः कदापि मुक्तिगमनाऽयोग्याः, तेषां पूजाद्यर्थ तीर्थङ्करादिपूजादर्शनात्तत्प्राप्त्याद्यर्थम् द्रव्याज्ञा द्रव्यचारित्रग्रहणरूपा भवति / तथा चोक्तं परमपूज्यैः (वि. आ. भा. 1216) “तित्थंकराइपूअंदट्टणण्णेण वावि कज्जेण / सुअसामाइअलाभो होज अभव्वस्स गंठिम्मि 119 ।।त्ति” / / 18 / / औषधतुल्यत्वादेवाज्ञायोगस्य कालाकालौ विभावनीयावित्याह - एत्ततो अ एत्थ णेयं कालाकालेहि सहलविहलत्तं / घणमिच्छत्तमकालो कालोऽपुणबंधगाईओ / / 64 / / वृ० - इतश्चौषधतुल्यत्वात् अत्रा ऽऽज्ञायत्ने कालाकालाभ्यां सफलविफलत्वं ज्ञेयम् / यथा ह्यकालप्रयोगेऽभिनवज्चरादावौषधप्रदानं तद्व्याध्युपशमं प्रति अकिञ्चित्करत्वान्निष्फलं समधिकबाधाविधायितया विपरीतफलं वा भवति, कालप्रयोगे चानीदृशत्वात् सफलमेव, तथा संसाररोगग्रस्तेष्वप्याज्ञाप्रदानमकाले निष्फलं विपरीतफलं वा, काले तु फलवदेवेति / तत्र को नामाऽकाल; कश्च काल इत्याह घनं महामेघावलुप्तसकलनक्षत्रादिप्रभाप्रसर भाद्रपदाद्यमावास्यामध्यभागसमुद्भूतान्धकारवनिबिडं मिथ्यात्वं तत्त्वविपर्यास-लक्षणमुपचारात्तत्कालश्चरमपुद्गलपरावर्त्तव्यतिरिक्तशेषपुद्गलपरावर्त्तलक्षण अकालो भगवदाज्ञौषधप्रयोगे. चरमपदगलपरावर्त्तलक्षणस्त तथाभव्यत्वपरिपाकतो बीजाधानादिषु स्यादपि कालः, अत एव दीक्षाविधान-पञ्चाशके यथाप्रवृत्तकरणेनापचितदीर्घकर्मास्थितिकतया विशुद्ध्यमानस्यैव दीक्षाधिकारित्वमुक्तम् - (पञ्चाशक-२/३) ___ “चरमंमि चेव भणिया एसा खलु पोग्गलाण परिअट्टे / सुद्धसहावस्स तहा विसुज्झमाणस्स जीवस्स" / / अत एवाह - कालस्त्वपुनर्बन्धकादिकः अपुनर्बन्धकादिकाललक्षणः, तत्रापुनर्बन्धकः “पावं न तिव्वभावा कुणइ” (पञ्चाशक-३/४) / / इत्यादिलक्षणः, आदिशब्दात् मार्गाभिमुख-मार्गपतितौ गृह्येते, तत्र मार्गश्चेतसोऽवक्रगमनं भुजङ्गमनलिकायानतुल्यः स्वरसवाही क्षयोपशमविशेषो हेतुस्वरूपफलशुद्ध्याभिमुखस्तत्र- पतितः प्रविष्टो भव्यविशेषो मार्गपतित इत्युच्यते, तदादिभावापन्नश्च मार्गाभिमुख इति / एतौ च चरमयथाप्रवृत्तकरणभागभाजावेव / यद्यप्यत्र त्रयोऽप्येकरूपा एव लभ्यन्ते, तथापि चैत्यवन्दनपञ्चाशकवृत्तौ अभयदेवसूरिभिर्भा