________________ योगविंशिका गाथा-१३ 125 कुर्वन्ति ते सर्वथाऽयोग्या एवेति व्यवस्थितम् / / 13 / / ननूपचरितं वस्त्वेव न भवति, तत्कथमुपचारतः शेषस्य पूर्वसेवा स्यादित्याशंक्याह - कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः / नासन्नोऽप्यस्य बाहुल्यादन्यथैतत्प्रदर्शकः / / 180 / / वृ० - कृतश्च / कृतः पुनरिह अस्याः पूर्वसेवायाः उपन्यासः प्रज्ञापनारूपः शेषापेक्षोऽपि - अपुनर्बन्धकभावासन्नजीवानाश्रित्य कार्यतो - भाविनीं भावरूपां पूर्वसेवामपेक्ष्य ‘नड्वलोदकं पादरोग' इत्यादिदृष्टान्तात् यतः न - नैव आसन्नोऽपि - समीपवर्त्यपि जीवः, अस्याऽपुनर्बन्धकभावस्य किं पुनरयमेवेत्यपि शब्दार्थः बाहुल्यात्प्रायेण अन्यथा - पुनर्बन्धाचारविलक्षणो वर्तत इति एतस्यार्थस्य प्रदर्शको - ख्यापकः / न हि मत्पिण्डादि कारणं कार्याद्घटादेर्बाहुल्येन वैलक्षण्यमनुभवद् दृश्यते / (किन्तु) कथञ्चित्तुल्यरूपतामिति / / 180 / / - योगबिन्दुः सवृत्तिः / / D -xxx एसा आणा इह भगवओ समंतभद्दा तिकोडिपरिसुद्धीए अपुणबंधगाइगम्मा / / 6 / / वृ० - एषाऽऽज्ञेह भगवत उभयनयगर्भा / अथवा सर्वैव पञ्चसूत्रोक्ता / किंविशिष्टा ? इत्याह - समन्तभद्रा, सर्वतो निर्दोषा / कथम् ? इत्याह - त्रिकोटिपरिशुद्ध्या - कषच्छेदतापपरिशुद्ध्या / इयं च भागवती सदाज्ञा सर्वैव अपुनर्बन्धकादिगम्या / ‘अपुनर्बन्धकादयो' ये सत्त्वा उत्कृष्टां कर्मस्थिति, तथा अपुनर्बन्धकत्वेन ये क्षपयन्ति ते खल्वपुनर्बन्धकाः / आदिशब्दान्मार्गाभिमुखमार्गपतितादयः परिगृह्यन्ते दृढप्रतिज्ञालोचकादिलिङ्गाः, एतद्गम्येयं न संसाराभिनन्दिगम्या, तेषां ह्यतो विषयप्रतिभासमानं ज्ञानमुदेति / न तद्द्वेषत्वादिवेदकमिति / उक्तं च - “न यथाऽवस्थितं शास्त्रं, खल्वङ्को वेत्ति जातुचित् / ध्यामलादपि बिम्बात्तु, निर्मल: स्यात्स्वहेतुतः” / / 6 / / अपुनर्बन्धकत्वादिलिङ्गमाह - एअप्पिअत्तं खलु इत्थ लिंगं ओचित्तपवित्तिविन्ने संवेगसाहगं निअमा / न एसा अन्नेसिं देआ / लिंगविवज्जयाओ तप्परिण्णा / तयणुग्गहट्टयाए आमकुंभोदगनासनाएणं, एसा करुणत्ति वुझ्चइ, एगंतपरिसुद्धा अविराहणाफला तिलोगनाहबहुमाणेणं निस्सेअससाहिग त्ति / / 7 / / - वृ० - एतत्प्रियत्वं खल्वत्र लिङ्गम् आज्ञाप्रियत्वमपुनर्बन्धकादिलिङ्गम् / प्रियत्वमुपलक्षणं श्रवणाभ्यासादेः / एतदप्यौचित्यप्रवृत्तिविज्ञेयं, तदाराधनेन, तद्बहुमानात् / औचित्यबाधया तु प्रवृत्तौ न तत्प्रियत्वं, मोह एवासाविति / एतत्प्रियत्वमेव विशेष्यते - संवेगसाधकं नियमात् / यस्य भागवती सदाज्ञा प्रिया तस्य नियमतः संवेग इति / यत एवमतो नैषा अन्येभ्यो देया / नैषा भागवती सदाज्ञा अन्येभ्योऽपुनर्बन्धकादिव्यतिरिक्तेभ्यः संसाराभिनन्दिभ्यो देया / कथं ते ज्ञायन्ते ? इत्याह - लिङ्गविपर्ययात्तत्परिज्ञा / प्रक्रमादपुनर्बन्धकादिलिङ्गविपर्ययात् संज्ञा, न द्वेषादिलक्षणात्तत्परिज्ञा - संसाराभिनन्दिपरिज्ञा / उक्तं च - “क्षुद्रो लोभरतिर्दीनो, मत्सरी भयवान् शठः / अज्ञो भवाभिनन्दी स्यान्निष्फलारम्भसङ्गतः” / / किमिति न तेभ्यो देया ? इत्याह - तदनुग्रहार्थं संसाराभिनन्दिसत्त्वानुग्रहार्थम् / उक्तं च - “अप्रशान्तमतौ शास्त्रसद्भावप्रतिपादनम् / दोषायाभिनवोदीणे, शमनीयमिव ज्वरे" / / इहैव निदर्शनमाह - आमकुम्भोदकन्यासज्ञातेन / उक्तं च - “आमे घडे निहित्तं, जहा जलं तं घडं विणासेइ / इय सिद्धंतरहस्सं, अप्पाहारं विणासेइ" / / एषा करुणोच्यते, अयोग्येभ्यः