________________ 124 योगविंशिका गाथा-१३ ये त्वपुनर्बन्धकादिभावमप्यस्पृशन्तो विधिबहुमानादिरहिता गतानुगतिकतयैव चैत्यवन्दनाद्यनुष्ठानं B - अस्यैव पूर्वसेवोक्ता मुख्याऽन्यस्योपचारतः / अस्यावस्थान्तरं मार्गपतिताभिमुखौ पुनः / / 2 / / वृ० - अस्यैवेति / अस्यैव अपुनर्बन्धकस्यैव उक्ता गुर्वादिपूजालक्षणा पूर्वसेवा मुख्या कल्याणाशययोगेन निरुपचरिता / अन्यस्यापुनर्बन्धकातिरिक्तस्य सकृद्वन्धकादेः पुनः उपचारतः सा तथाविधभववैराग्याभावात् / मार्गपतित-मार्गाभिमुखौ पुनरस्याऽपुनर्बन्धकस्यावस्थान्तरं दशाविशेषरूपौ / मार्गो हि चेतसोऽवक्रगमनं भुजङ्गमनलिकायानतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाहीक्षयोपशमविशेषः, तत्र प्रविष्टो मार्गपतितः / मार्गप्रवेशयोग्यभावापन्नश्च मार्गाभिमुख इति / न ह्येतावपुनर्बन्धकावस्थायाः परतरावस्थाभाजी भगवदाज्ञावगम-योग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् / / 2 / / योग्यत्वेऽपि व्यवहितौ परे त्वेतौ पृथग् जगुः / अन्यत्राप्युपचारस्तु सामीप्ये बबभेदतः / / 3 / / वृ० - योग्यत्वेऽपीति / परे त्वेतौ मार्गपतित-मार्गाभिमुखौ / योग्यत्वेऽपि व्यवहितौ अपुनर्बन्धकापेक्षया दूरस्थाविति पृथगपुनर्बन्धकाद्भिन्नौ जगुः / अन्यत्रापि सकृद्धन्धकादावपि उपचारतस्तु पूर्वसेवायाः सामीप्येऽपुनर्बन्धकसन्निधानलक्षणे सति / बबभेदतोऽतिभेदाभावात् / / 3 / / परिणामिनि कार्याद्धि सर्वथा नास्ति भिन्नता / अनालोचनगर्भत्वात् मन्यत्रैनां परे जगुः / / 4 / / वृ० - परिणामिनीति / कार्यात् हि परिणामिनि सर्वथा भिन्नता नास्ति / यथा घटादेर्मुत्पिण्डादौ / एवमपुनर्बन्धकादेरपि सकृद्वन्धकादौ न सर्वथा भिन्नतेति भावनीयं / तदुक्तं “कृतश्चास्या उपन्यासः शेषापेक्षोऽपि कार्यतः / नासन्नोऽप्यस्य बाहुल्यादन्यथेति प्रदर्शकः / / 1 / / " (योगबिन्दु श्लो. 180) परे पुनरन्यत्र सकद्वन्धकादावनालोचनगर्भवाद्भवस्वरूपनिर्णायकोहापोहाद्यभावसङ्गतत्वादेनामपचरितां पूर्वसेवां जगः प्राहुः / प्राचि पक्षे कारणे कार्योपचारः, अत्र त्वनालोचनद्वाराऽमुख्यत्वरूप उपचार इति विशेषः / / 4 / / - द्वा. द्वा., 14 - अपुनर्बन्धकद्वात्रिंशिका सवृत्तिः।। C - अस्यैषा मुख्यरूपा स्यात् पूर्वसेवा यथोदिता / कल्याणाशययोगेन शेषस्याप्युपचारतः / / 179 / / वृ० - अस्या ऽपुनर्बन्धकस्य, एषा - प्रागुक्ता, मुख्यरूपा - निरूपचरिता स्यात् - भवेत् पूर्वसेवा देवादिपूजारूपा यथोदिता यत्प्रकारा निरूपिता प्राक् कल्याणाशययोगेन - मनाग्मुक्त्यनुकूलशुभभावसम्बन्धेन, शेषस्यापि - अपुनर्बन्धकापेक्षया विलक्षणस्य सकृद्वन्धकादेः उपचारतं - औपचारिकी पूर्वसेवा स्यात्, अद्यापि तथाविधभववैराग्याभावात्तस्य / __इह केचिन्मार्गपतितमार्गाभिमुखावपि शेषशब्देनाहुः / तञ्च न युज्यते, अपुनर्बन्धकावस्थाविशेषरूपत्वात्तयोरपुनर्बन्धकग्रहणेनैव गतत्वात्, यतो ललितविस्तरायां मार्गलक्षणमित्थमुक्तम् - ‘इह मार्गश्चेतसोऽवक्रगमनं भुजङ्गमनलिकायानतुल्यो विशिष्टगुणस्थानावाप्तिप्रगुणः स्वरसवाही क्षयोपशमविशेष इति / तत्र प्रविष्टो मार्गपतितः, मार्गप्रवेशयोग्यभावापन्नो मार्गाभिमुखः / ' एवं च नैतावपुनर्वन्धकावस्थायाः परपरतरावस्था-भाजौ वक्तुमुचितौ, भगवदाज्ञावगमयोग्यतया पञ्चसूत्रकवृत्तावनयोरुक्तत्वात् / यथोक्तं तत्र - “इयं च भागवती सदाज्ञा सर्वैवापुनर्बन्धकादिगम्या / अपुनर्बन्धकादयो ये सत्त्वा उत्कृष्टां कर्मस्थितिं तथाऽपुनर्बन्धकत्वेन क्षपयन्ति, ते खल्वपुनर्बन्धकाः / आदिशब्दान्मार्गपतित मार्गाभिमुखादयः परिगृह्यन्ते, दृढप्रतिज्ञालोचनादिगम्यलिङ्गाः / एतद्गम्येयं न संसाराभिनन्दिगम्येति / संसाराभिनन्दिश्चापुनर्बन्धकप्रागवस्थाभाजो जीवा इति” / / 179 / /