________________ योगविंशिका गाथा-१३ 123 wwwNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN त्यवधेयम् / वानां - धर्माचार्यपरमाराध्यानाम्, यथासमाधि - स्वसमाधानानतिक्रमेण, न पुनरसद्ग्रहणेन, वैयावृत्त्ये - व्यावृ(पृ)तभावे तत्कर्मणि वा, नियमो-नियोगोऽवश्यं मयैतद्गुरुकार्यं देवकार्य (वा) कर्तव्यमित्यभिनिवेशलक्षणो, गुणज्ञश्रद्धालु-मनुष्यचिन्तामणिवैयावृत्त्यनियमाधिकः, इह चशब्दो लुप्तो द्रष्टव्यः, किमित्याह - सम्यग्दृष्टेःअविरतसम्यग्दर्शनिनो जीवस्य लिङ्गानि लक्षणानि भवन्ति, ग्रन्थिभेदेन तत्त्वे तीव्रभावात्, इति गाथार्थः / / 5 / / मग्गणुसारी सड्डो पण्णवणिज्जो कियापरो चेव / गुणरागी सकारंभसंगओ तह य चारित्ती / / 6 / / वृ० - चारित्रिणः स्वरूपत आह - मग्गणुसारीत्यादि / मार्ग - तत्त्वपथमनुसरति - अनुयातीत्येवंशीलो मार्गानुसारी - निसर्गतस्तत्त्वानुकूलप्रवृत्तिश्चारित्रमोहनीयकर्मक्षयोपशमात्, एतञ्च तत्त्वावाप्तिं प्रत्यवन्ध्यकारणं, कान्तारगतविवक्षितपुरप्राप्तिसद्योग्यतायुक्ताव(कूपांथ)स्येव, तथा श्राद्धः - तत्त्वं प्रति श्रद्धावान् तत्प्रत्यनीकक्लेशह्रासातिशयादवाप्तव्यमहानिधानतद्ग्रहणविधानोपदेशश्रद्धालुनरवत्, विहितानुष्ठानरुचिर्वा तथा अत एव कारणद्वयात् प्रज्ञापनीयः -- कथञ्चिदनाभोगादन्यथाप्रवृत्तौ तथाविधगीतार्थेन सम्बोधयितुं शक्यस्तथाविधकर्मक्षयोपशमादविद्यमानासदभिनिवेशः प्राप्तव्यमहानिधि-तद्ग्रहणान्यथाप्रवृत्तसुकरसम्बोधनरवत्, तथा - अत एव कारणाक्रियापरः . चारित्रमोहनीयकर्मक्षयोपशमान्मुक्तिसाधनानुष्ठानकरणपरायणः, तथाविधनिधानग्राहकवत्, च शब्द: समुच्चये, एव शब्दोऽवधारणे, एवं चानयोः प्रयोगः-क्रियापर एव, नाक्रियापरोऽपि, सत्क्रियारूपत्वाच्चारित्रस्य, तथा गुणरागी - विशुद्धाध्यवसायतया स्वगतेषु परगतेषु वा गुणेषु - ज्ञानादिषु रागः - प्रमोदो यस्यास्त्यसौ गुणरागी, निर्मत्सर इत्यर्थः, तथा शक्यारम्भसङ्गतः-कर्तुं शकनीयानुष्ठानयुक्तो, न शक्ये प्रमाद्यति न चाशक्यमारभत इति भावः, तथाति समुञ्चयार्थः, ततश्च मार्गानुसारितादिगुणयुक्तः शक्यारम्भसङ्गतश्चेति स्यात्, चारित्री - सर्वतो देशतो वा चारित्रयुक्तो भवतीति गम्यम्, इति गाथार्थः / / 6 / / एते अहिगारिणो इह ण उ सेसा दव्वओवि जं एसा / इयरीए जोग्गयाए सेसाण उ अप्पाहाणत्ति / / 7 / / ...वृ० - अपुनर्बन्धकादीनां स्वरूपमभिहितम्, अथ तेषामेव भाववन्दनायामधिकारितां शेषाणां चानधिकारितां दर्शयन्निदमाह - एते इत्यादि / एतेऽनन्तरोक्तस्वरूपा अपुनर्बन्धकादयः, अधिकारिणः - तद्योग्यत्वेनाधिकारवन्तः, इह भाववन्दनायाम्, न तु शेषा - न पुनरपुनर्बन्धकादिभ्योऽपरे मार्गाभिमुख-मार्गपतित-सकृद् बन्धकतदन्यमिथ्यादृशोऽधिकारिण इति प्रकृतम्, कुत एतदेवमित्याह - द्रव्यतोऽपि - भाव-व्यतिरिकेणापि, आस्तां भावतः, यद् - यस्मात्कारणात्, एषा वन्दना, द्रव्यवन्दनाऽपीत्यर्थः, इतरस्या - भावतो वन्दनायाः, योग्यतायाम् - अर्हतायां सत्यां भवति, नान्यथा, अतः कथं भाववन्दनाधिकारिणो भवन्तीति, ननु भाववन्दनाया अयोग्यानामपि केषाञ्चिāव्यवन्दनेष्यतेऽतः कथमुक्तं भाववन्दनानर्हाणां द्रव्यवन्दनाऽपि न भवतीत्यत्राह - शेषाणां तु - शेषाणां पुनरपुनर्बन्ध-कादिभ्योऽन्येषां सकृद्वन्धकादीनाम्, अप्रधाना-अनुत्तमा द्रव्यवन्दना भवति, न तु प्रधाना, भाववन्दनाया अकारणत्वात्तस्याः, इदमुक्तं भवति-द्रव्यशब्दो योग्यतायामप्राधान्ये च वर्तते, तत्र शेषाणां भाववन्दनाऽयोग्यत्वेन या प्रधाना द्रव्यवन्दना सा न भवति, तदयोग्यतया त्वप्रधानद्रव्यवन्दना स्यादपि, इति शब्दो वाक्यार्थसमाप्तौ / इति गाथार्थः / / 7 / / - पञ्चाशकम्, 3 - चैत्यवन्दनपञ्चाशकम्, सवृत्तिकम् / /