________________ 122 योगविंशिका गाथा-१३ NNNNNNNNNNNNNNN वति, तदभावे कायव्युत्सर्गासम्भवात्, तस्य गुप्तिरूपविरतिभेदत्वात्, ततः सम्यक् चिन्तितव्यमेतत् यदुत कायं व्युत्सृजामि इति प्रतिज्ञान्यथानुपपत्त्या देशविरतिपरिणामयुक्ता एव चैत्यवन्दनानुष्ठानेऽधिकारिणः, तेषामेवागमपरतन्त्रतया विधियत्नसम्भवेनामृतानुष्ठानसिद्धेरिति / एतञ्च मध्यमाधिकारिग्रहणं तुलादण्डन्यायेनाद्यन्तग्रहणार्थम्, तेन परमामृतानुष्ठानपराः सर्वविरतास्तत्त्वत एव / तद्धत्वनुष्ठानपराः अपुनर्बन्धका अपि च व्यवहारादिहाधिकारिणो गृह्यन्ते, कुग्रहविरहसम्पादनेनापुनर्बन्धकानामपि चैत्यवन्दनानुष्ठानस्य फलसम्पादकतायाः 'पञ्चाशकादिप्रसिद्धत्वादि 1-A - अहवावि भावभेया ओघेण अपुणबंधगाईणं / सव्वावि तिहा णेया सेसाणमिमी ण जं समए / / 3 / / वृ० - अहेत्यादि / अथवाऽपीतिनिपातः पूर्वोक्तप्रकारापेक्षया प्रकारान्तरत्वद्योतनार्थः, भावभेदात् . परिणामविशेषाद् गुणस्थानकविशेषसम्भवात् प्रमोदमात्ररूपाद्वा वन्दनाधिकारिजीवगतात्त्रिधा विज्ञेयेति सम्बन्धः, ओघेन - सामान्येन-विवक्षितपाठक्रियाल्पत्वादितयेत्यर्थः, केषामित्याह-अपुनर्बन्धकादीनाम्-अपुनबन्धकप्रभृतिकानां वन्दनाधिकारिणां, तत्रापुनर्बन्धको व्याख्यातपूर्वः, आदिशब्दादविरतसम्यग्दृष्टिदेशसर्वविरतिग्रहः, सर्वाऽपि नमस्कारादिभेदेन जघन्यादिप्रकारा अपि, आस्तामेका काचिदिति, तत्रापुनर्बन्धकस्य जघन्या, तत्परिणामस्य विशुद्ध्यपेक्षया जघन्यत्वात्, अविरतसम्यग्दृष्टेमध्यमा, तत्परिणामस्य विशुद्धिमङ्गीकृत्य मध्यमत्वात्, सामान्यविरतस्य तूत्कृष्टा, तत्परिणामस्य तथाविधत्वादेवेति, अथवाऽपुनर्बन्धकस्यापि त्रिधा प्रमोदरूपभावत्रैविध्यादेव-मितरयोरपीति, अथापुनर्बन्धकादीनामिति कस्मादुक्तं ?. मार्गाभिमुखादेरपि भावभेद-सद्भावादित्यत्राह-शेषाणाम्-अपुनर्बन्धकादिव्यतिरिक्तानां सकृद्वन्धक-मार्गाभिमुख-मार्गपतित-तदितरमिथ्यादृशाम्, इमीति इयमधिकृता भावभेदेन भेदवती वन्दना, पाठादिभेदवती तु स्यादपि न-नैव, यद्यस्मात् समये-सिद्धान्ते, भणितेति शेषः, तेषां तद्योग्यताविकलत्वादिति गाथार्थः / / 3 / / पावं ण तिब्वभावा कुणइ ण बहुमण्णई भवं घोरं / उचियट्टिइं च सेवइ सव्वत्थवि अपुणबंधोत्ति / / 4 / / वृ० - ‘अपुनर्बन्धकादीनामियं भवती' त्युक्तमतस्ताँलक्षणतो निरूपयन्नपुनर्बन्धकं तावदाह पावेत्यादि पापम् - अशुद्धं कर्म, तत्कारणत्वाद्धिंसाद्यपि पापं तत्, न-नैव, तीव्रभावाद्-गाढसंक्लिष्टपरिणामात्, करोति-विधत्ते, अत्यन्तोत्कटमिथ्यात्वादिक्षयोपशमेन लब्धात्मनैर्मल्यविशेषत्वात्, तीव्रतिविशेषणादापन्नमतीव्रभावात् करोत्यपि तथाविधकर्मदोषात्, तथा न बहु मन्यते-न बहुमानविषयीकरोति, भवं-संसारम्, घोरं-रौद्रं, तस्य घोरत्वावगमात्, तथा उचितस्थितिम्-अनुरूपप्रतिपत्तिम्, च शब्दः समुञ्चये, सेवते-भजते कर्मलाघवात्, सर्वत्रापि, आस्तामेकत्र देशकालावस्थापेक्षया समस्तेष्वपि देवाऽतिथि-माता-पितृप्रभृतिषु मार्गानुसारिताभिमुखत्वेन, मयूरशिशुदृष्टान्ताद्, अपुनर्बन्धकः - उक्तनिर्वचनो जीवः, इत्येवंविधक्रियालिङ्गो भवति, इति गाथार्थः / / 4 / / सुस्सूस धम्मराओ गुरुदेवाणं जहासमाहीए / वेयावचे णियमो सम्मद्दिट्ठिस्स लिंगाई / / 5 / / वृ० - सम्यग्दृष्टि लिङ्गत आह - सुस्सूसेत्यादि / श्रोतुमिच्छा शुश्रूषा धर्मशास्त्रविषया गेयरागिनरकिन्नरगेयशुश्रूषाधिका जिज्ञासोत्तरकालभाविनी, इह च ह्रस्वता प्राकृतत्वात्, तथा धर्मरागः कुशलानुष्ठानानुरागः, सामग्रीवैकल्यात्तदकरणेऽपि चेतसोऽनुबन्धः कान्तारातीतदरिद्रब्राह्मणहविःपूर्णभोजनाभिलाषातिरिक्तः, तथा गुरुदे