________________ योगविंशिका गाथा-१२-१३ 121 जिनोदितमित्येव, भावसारं श्रद्धाप्रधानं, अदः अनुष्ठानं, संवेगगर्भं मोक्षाभिलाषसहितं अत्यन्तं अतीव अमरणहेतुत्वादमृतसञ्ज्ञमाहुः मुनिपुङ्गवाः गौतमादिमहामुनयः / एतेषु त्रयं योगाभासत्वादहितम्, द्वयं तु सद्योगत्वाद्धितमिति तत्त्वम् / यत एवं स्थानादियत्नाभाववतोऽनुष्ठाने महादोषः तत् तस्मात्, अनुरूपाणामेव योग्यानामेव, एतद्विन्यासः चैत्यवन्दनसूत्रप्रदानरूपः कर्तव्यः / / 12 / / के एतद्विन्यासानुरूपा इत्याकाङ्क्षायामाह - जे देसविरइजुत्ता, जम्हा इह वोसिरामि कायं ति / सुइ विरईए इमं, ता सम्मं चिंतियव्वमिणं / / 13 / / (छाया : ये देशविरतियुक्ताः यस्मात् इह 'व्युत्सृजामि कायम्" इति / ___ श्रुयते विरतौ इदं ततः सम्यक् चिंतितव्यं एतत् / / जे इत्यादि / ये देशविरतियुक्ताः पञ्चमगुणस्थानपरिणतिमन्तः ते इह अनुरूपा इति शेषः / कुतः ? इत्याह-यस्मात् इह चैत्यवन्दनसूत्रे, 'व्युत्सृजामि कायम्' श्रूयते, इदं च विरतौ सत्यां सम्भC - सहजो भावधर्मो हि, शुद्धश्चन्दनगन्धवत् / एतद्गर्भमनुष्ठान-ममृतं सम्प्रचक्षते / / 25 / / जैनीमाज्ञां पुरस्कृत्य, प्रवृत्तं चित्तशुद्धितः / संवेगगर्भमत्यन्त-ममृतं तद्विदो विदुः / / 26 / / शास्त्रार्थालोचनं सम्यक्, प्रणिधानं च कर्मणि / कालाद्यङ्गाविपर्यासो-ऽमृतानुष्ठानलक्षणम् / / 27 / / - अध्यात्मसार, १०-सदनुष्ठानाधिकारः / / [9]- तुला - A -द्वयं हि सदनुष्ठानं, त्रयमत्रासदेव च / तत्रापि चरमं श्रेष्ठं, मोहोगविषनाशनात् / / 28 / / - अध्यात्मसार, १०-सदनुष्ठानाधिकारः / / 'B - विधि-भक्ति-उपयोगादिसाचिव्ये देवपूजादिकममृतानुष्ठानमेव, अन्ततो विध्यद्वेषस्यापि सत्त्वे प्रथमयोगाङ्गसम्पत्त्याऽनुबन्धतो विधिरागसाम्राज्ये 'एतद्रागादिदं हेतुः श्रेष्ठो योगविदो विदुः' इति वचनात् तद्धत्वनुष्ठानरूपं, तद्द्वयमपि चादेयं भवति, विषगराननुष्ठानानामेव हेयत्वादित्यध्यात्मचिन्तात्मकाः / अत एवाभोगानाभोगाभ्यां द्रव्यस्तवस्य यद् द्वैविध्यमुक्तं ग्रान्थिकैस्तदुपपद्यते / तदाहुः - “देवगुणपरित्राणा तब्भावाणुगयमुत्तमं विहिणा / आचारसारं जिणपूअणेण आभोगदव्यथओ / / 1 / / एत्तो चरित्तलाभो होइ लहु सयलकम्मणिद्दलणो / ता एत्थ सम्ममेव हि पयट्टिअव्वं सुदिट्ठीहिं / / 2 / / पूआविहिविरहाओ अपरिन्नाणाउ जिणगयगुणाणं / सुहपरिणामकयत्ता एसोऽणाभोगदव्यथओ / / 3 / / गुणठाणठाणगत्ता एसो एवंपि गुणकरो चेव / सुहसुहयरभावविसुद्धिहेउओ बोहिलाभाओ / / 4 / / असुहक्खएण धणियं धन्नाणं आगमेसिभद्दाणं / अमुणिय गुणेवि नूणं विसए पीई समुच्छलइ" / / 5 / / - प्रतिमाशतक वृत्तिः गा. 71 / /