________________ 120 योगविंशिका गाथा-१२ VNNNNNNA NNNNNNN एतद्रागात् सदनुष्ठानबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं, सदनुष्ठानभावस्य तात्त्विकदेवपूजाद्याचारपरिणामस्य मुक्त्यद्वेषेण मनाग् मुक्त्यनुसारेण वा शुभभावलेशयोगात् श्रेष्ठो अवन्ध्यो, हेतुरिति योगविदो विदुः जानते / "जिनोदितमिति त्वाहु-र्भावसारमदः पुनः / संवेगगर्भमत्यन्त-ममृतं मुनिपुङ्गवाः / / 160 / / " स्वेष्टसांसारिकसुखविरोधित्वेनोत्कटोऽपि द्वेषस्तेषां मुक्तौ स्यादित्युत्तरार्धार्थः / / 19 / / समाधत्ते - सत्यं बीजं हि तद्वेतोरेतदन्यतरार्जितः / मुक्तयद्वेषो (क्रियारागो) न तेनातिप्रसङ्गः कोऽपि दृश्यते / / 20 / / वृ० - सत्यमिति / तद्धेतोरनुष्ठानस्य हि बीजं / एतयोर्मुक्तत्यद्वेषरागयोरन्यतरेणार्जितो जनितः क्रियारागः सदनुष्ठानरागः / तेनातिप्रसङ्गः कोऽपि न दृश्यते / अभव्यानामपि स्वर्गप्राप्तिहेतुमुक्तयद्वेषसत्त्वेऽपि तस्य सदनुष्ठानरागाप्रयोजकत्वाद् बाध्यफलापेक्षासहकृतस्य सदनुष्ठानरागानुबन्धित्वात् / / 20 / / अपि बाध्या फलापेक्षा सदनुष्ठानरागकृत् / सा च प्रज्ञापनाधीना मुक्तयद्वेषमपेक्षते / / 21 / / वृ० - अपीति / बाध्या बाधनीयस्वभावा / फलापेक्षाऽपि सौभाग्यादिफलवाञ्छापि / सदनुष्ठाने रागकृत् रागकारिणी सा च बाध्यफलापेक्षा च / प्रज्ञापनाधीना उपदेशायत्ता / मुक्तयद्वेषमपेक्षते कारणत्वेन / / 21 / / यतः - अबाध्या सा हि मोक्षार्थशास्त्रश्रवणघातिनी / मुक्तयद्वेषे तदन्यस्यां बुद्धिर्मार्गानुसारिणी / / 22 / / वृ० - अबाध्येति / अबाध्या हि सा फलापेक्षा / मोक्षार्थशास्त्रश्रवणघातिनी तत्र विरुद्धत्वबुद्ध्याधानाद् व्यापन्नदर्शनानां च तच्छ्रवणं न स्वारसिकमिति भावः / तत्तस्मान्मुक्तयद्वेषे सति अन्यस्यां वाध्यायां फलापे-क्षायां समुचितयोग्यतावशेन मोक्षार्थशास्त्रश्रवणस्वारस्योत्पन्नायां बुद्धिर्मार्गानुसारिणी मोक्षपथाभिमुखशालिनी भवतीति भवति तेषां तीव्रपापक्षयात् सदनुष्ठानरागः / / 22 || - द्वा. द्वा., 13 - मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / / D - चतुर्थं चरमावर्ते, तस्माद्धर्मानुरागतः / अनुष्ठानं विनिर्दिष्टं, बीजादिक्रमसङ्गतम् / / 20 / / बीजं चेह जनान् दृष्ट्वा, शुद्धानुष्ठानकारिणः / बहुमान-प्रशंसाभ्यां, चिकीर्षा शुद्धगोचरा / / 21 / / तस्या एवानुबन्धश्चा-कलङ्कः कीर्त्यतेऽङ्कुरः / तद्धत्वन्वेषणा चित्रा, स्कन्धकल्पा च वर्णिता / / 22 / / प्रवृत्तिस्तेषु चित्रा च, पत्रादिसदृशी मता / पुष्पं च गुरुयोगादि-हेतुसम्पत्तिलक्षणम् / / 23 / / भावधर्मस्य सम्पत्तिा च सद्देशनादिना / फलं तदत्र विज्ञेयं, नियमान्मोक्षसाधकम् / / 24 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / |8]- A - वृ० - जिनोदितं - जिननिरूपितं इति तु अनेनैवाभिप्रायेण विधीयमानं आहुर्बुवते भावसारं - शुद्धश्रद्धाप्रधानम् / अदोऽनुष्ठानं पुनः तथा संवेगगर्भमन्तःप्रवेशितनिर्वाणाभिलाषम् अत्यन्तमतीव अमृतममरणहेतुत्वादमृतसञ्ज्ञम्, 'मुनिपुङ्गवाः' - गौतमादिमहामुनय इति / / 160 / / - योगबिन्दुवृत्तिः / / तुला - xxx अमृतं तु स्याच्छ्रद्धया जैनवर्त्मनः / / 13 / / वृ० - xxx जैनवर्त्मनो जिनोदितमार्गस्य श्रद्धया इदमेव तत्त्वमित्यध्यवसायलक्षणया त्वनुष्ठानममृतं स्यात् अमरणहेतुत्वात् / तदुक्तं - “जिनोदितमिति त्वाहुर्भावसारमदः पुनः / संवेगगर्भमत्यन्तममृतं मुनिपुङ्गवाः / / 1 / / " / / 13 / / - द्वा. द्वा., 13 - मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / /