________________ योगविंशिका गाथा-१२ 119 अनाभोगवतः कुत्रापि फलादावप्रणिहितमनसः, एतद् अनुष्ठानं अननुष्ठानं अनुष्ठानमेव न भवतीत्यर्थः / सम् इति समन्ततः प्रकर्षेण मुग्धं सन्निपातोपहतस्येवानध्यवसायापन्नं, मनोऽस्य, इतिः पादसमाप्तौ / यत एवं ततो यथोदितं तथैव / 7"एतद्रागादिदं हेतुः, श्रेष्ठो योगविदो विदुः / सदनुष्ठानभावस्य, शुभभावांशयोगतः / / 159 / / " न लोकं नापि सूत्रं नो गुरुवाचमपेक्षते / अनध्यवसितं किञ्चित्-कुरुते चौघसंज्ञया / / 10 / / शुद्धस्यान्वेषणे तीर्थो-च्छेदः स्यादिति वादिनाम् / लोकाचारादरश्रद्धा, लोकसझेति गीयते / / 11 / / तस्माद्गतानुगत्या यत्-क्रियते सूत्रवर्जितम् / ओघतो लोकतो वा, तदननुष्ठानमेव हि / / 15 / / अकामनिर्जराङ्गत्वं, कायकलेशादिहोदितम् / सकामनिर्जरा तु स्यात्, सोपयोगप्रवृत्तितः / / 16 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / [7]- A - वृ० - एतद्रागात् सदनुष्ठानभावबहुमानात् इदं आदिधार्मिककालभावि देवपूजाद्यनुष्ठानं क्रियमाणम् हेतुः कारणम् श्रेष्ठो-ऽवन्ध्यो वर्तते एतद्योगविदो विदुःजानते, कस्य हेतुरित्याह ‘सदनुष्ठानभावस्य' - तात्त्विकदेवपूजाद्याचारपरिणामस्य ? कुत इत्याह शुभभावांशयोगतःमुक्त्यद्वेषेण मनाग्मुक्त्यनुरागेण वा शुभभावलेशसङ्गमात् / / 159 / / - योगबिन्दुवृत्तिः / / ___B - सदनुष्ठानरागेण, तद्धेतुर्मार्गगामिनाम् / एतच चरमावर्तेऽ-नाभोगादेविना भवेत् / / 17 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / C- xxx सदनुष्ठानरागतः / तद्धेतुः xxx / / 13 / / वृ० xxx सदनुष्ठानरागतः तात्त्विकदेवपूजाद्याचारभावबहुमानादादिधार्मिककालभाविदेवपूजाद्यनुष्ठानं तद्धेतरुच्यते / मक्तयद्वेषेण मनाग मक्तयनरागेण वा शभभावलेशसङ्गमादस्य सदनष्ठानहेतत्वात xxx ||13 / / . नन्वद्वेषोऽथवा रागो मोक्षे तद्धेतुतोचितः / आये तत्स्यादभव्यानामन्त्ये न स्यात्तदद्विषाम् / / 17 / / वृ० - नन्विति / मुक्तयद्वेषप्रयुक्तानुष्ठानस्य तद्धेतुत्वेऽभव्यानुष्ठानविशेषेऽतिव्याप्तिः, नवमग्रैवेयकप्राप्तेमुक्त्यद्वेषप्रयुक्तत्वप्रदर्शनात् / मुक्तिरागप्रयुक्तानुष्ठानस्य तत्त्वे तु मनाग् रागप्राक्कालीनमुक्त्यद्वेषप्रयुक्तानुष्ठानेऽव्याप्तिरित्यर्थः / / 17 / / न चाद्वेषे विशेषस्तु कोऽपीति प्राग निदर्शितम् / ईषद्रागाद्विशेषश्चेदद्वेषोपक्षयस्ततः / / 18 / / वृ० - न चेति / अद्वेषे विशेषस्तु न च कोऽप्यस्ति अभावत्वादिति प्राक् पूर्वद्वात्रिंशिकायां निदर्शितं / ईषद्रागाचेद्विशेषस्तर्हि तत एवाद्वेषस्योपक्षयः / विशेषणेनैव कार्यसिद्धौ विशेष्यवैयर्थ्यात् / इत्थं च 'मुक्तयद्वेषेण मनाग मुक्तयनुरागेण वा तद्धेतुत्वमिति' वचनव्याघात इति भावः / / 18 / / उत्कटानुत्कटत्वाभ्यां प्रतियोगिकृतोऽस्त्वयम् / नैवं सत्यामुपेक्षायां द्वेषमात्रवियोगतः / / 19 / / वृ० - उत्कटेति / अभव्यानां मुक्तौ उत्कटद्वेषाभावेऽप्यनुत्कटद्वेषो भविष्यति / अन्येषां तु द्वेषमात्राभावादेवानुष्ठानं तद्धेतुः स्यादिति पूर्वार्धार्थः / नैवं, उपेक्षायां सत्यां द्वेषमात्रस्य वियोगतः / अन्यथा