________________ 118 योगविंशिका गाथा-१२ केवलं कालान्तरे भवान्तररूपे, निपातनात् अनर्थसम्पादनात् / विषं सद्य एव विनाशहेतुः, गरश्च कालान्तरेणेत्येवमुपन्यासः / "अनाभोगवतश्चैत-दननुष्ठानमुच्यते / सम्प्रमुग्धं मनोऽस्येति, ततश्चैतद्यथोदितम् / / 158 / / " पातनात् कालान्तरे भवभवान्तररूपेऽनर्थसम्पादनाद् आत्मनः किल विषं सद्य एव विनाशहेतुः गरश्च कालान्तरेणेत्येवमुपन्यस्तमिति / / 157 / / - - योगबिन्दुवृत्तिः / / B - xxx दिव्यभोगाभिलाषेण गरः कालान्तरे क्षयात् / / 12 / / वृ० - दिव्यभोगस्याभिलाष / ऐहिकभोगनिरपेक्षस्य सतः स्वर्गसुखवाञ्छालक्षणस्तेन अनुष्ठानं गर उच्यते / कालान्तरे भवान्तरलक्षणे क्षयाभोगात्पुण्यनाशेनानर्थसम्पादनात् / गरो हि कुद्रव्यसंयोगजो विषविशेषः, तस्य च कालान्तरे विषविकारः प्रादुर्भवतीति / उभयापेक्षाजनितमतिरिच्यते ? नोभयांपेक्षायामप्यधिकस्य वलवत्त्वादिति सम्भावयामः / / 12 / / __- द्वा. द्वा., 13 - मुक्तयद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / / C - दिव्यभोगाभिलाषेण, कालान्तरपरिक्षयात् / स्वादृष्टफलसम्पूर्ते-गरानुष्ठानमुच्यते / / 5 / / यथा कुद्रव्यसंयोग-जनितं गरसज्ञितम् / विषं कालान्तरे हन्ति, तथेदमपि तत्त्वतः / / 6 / / निषेधायानयोरेव, विचित्रानर्थदायिनोः / सर्वत्रैवानिदानत्वं, जिनेन्द्रैः प्रतिपादितम् / / 7 / / - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / 6 -A - वृ० - अनाभोगवतश्च इहलोकपरलोकयोरपि सम्मूर्छनजतुल्यप्रवृत्तितया क्वचिंदप्रणिहितमनसः पुन पुंसः 'एतद्' गुरुदेवपूजाद्यनुष्ठानं तथाविधसमुदयादिवशाद्विधीयमानमपि अननुष्ठानमुच्यते-अनुष्ठानमेव = भवतीत्यर्थः / कुत एतदित्याह 'सम्प्रमुग्धं-सं इति सर्वतः प्रकर्षेण मुग्धं सन्निपातोपहतस्येव मोहमनध्यवसाय मात्ररूपमापन्नं मनः अन्तःकरणं अस्य-अनाभोगवतः इतिः पादपरिसमाप्तौ / यत एवं 'ततश्च' मनःसम्प्रमोहा देव हेतोः एतत् प्रागुक्तम् ‘यथोदितं' - यथा निरूपितं तथैवेति / / 158 / / - योगबिन्दुवृत्तिः / / B - सम्मोहादननुष्ठानम् xxx ||13 / / वृ० - सम्मोहादिति / सम्मोहात् सन्निपातोपहतस्येव सर्वतोऽनध्यवसायादननुष्टानमुच्यते, अनुष्ठानमेव = भवतीति कृत्वा xxx ||13 / / - द्वा. द्वा., 13 - मुक्तयद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / C - अनाभोगवतः सापि धर्माहानिकृतो वरम् / शुभा तत्त्वेन नैकापि प्रणिधानाधभावतः / / 9 / / वृ० - अनाभोगवत इति / अनाभोगवतः सम्मूर्छनजप्रायस्य स्वभावत एव वैनयिकप्रकृतेः सापि लोकपङ्क्त्या धर्मक्रियापि धर्माहानिकृतो धर्मे महत्त्वस्यैव यथास्थितस्याज्ञानाद्भवोत्कटेच्छाया अभावेन महत्यल्पत्वाप्रतिपत्तेर्धर्महान्यकारिणो वरमन्यापेक्षया मनाक् सुन्दरा / तत्त्वेन तत्त्वतः पुनःकापि प्रणिधानाद्यभावतो नैकापि वरं, प्रणिधानादीनां क्रियाशुद्धिहेतुत्वात् / / 9 / / - द्वा. द्वा., 10 - योगलक्षणद्वात्रिंशिका सवृत्तिः / / D - प्रणिधानाद्यभावेन, कानध्यवसायिनः / सम्मूर्छिमप्रवृत्त्याभ-मननुष्ठानमुच्यते / / 8 / / ओघसज्ञाऽत्र सामान्य-ज्ञानरूपा निबन्धनम् / लोकसञ्ज्ञा च निर्दोष-सूत्रमार्गानुपेक्षिणी / / 9 / /