________________ योगविंशिका गाथा-१२ 117 विषं स्थावरजङ्गमभेदभिन्नम्, ततो विषमिव विषम्, एवं गर इव गरः, परं गरः कुद्रव्यसंयोगजो विषविशेषः, अननुष्ठानं अनुष्ठानाभासं, तद्धेतुः अनुष्ठानहेतुः, अमृतमिवामृतं अमरणहेतुत्वात्, अपेक्षा-इहपरलोकस्पृहा, आदिशब्दादनाभोगादेश्च यद् विधानं विशेषस्तस्मात् / 4"विषं लब्ध्याद्यपेक्षातः, इदं सचित्तमारणात् / महतोऽल्पार्थनाज्ज्ञेयं, लघुत्वापादनात्तथा / / 156 / / " लब्ध्यादेः लब्धिकीर्त्यादेः, अपेक्षातः स्पृहातः, इदं अनुष्ठानं, विषं सश्चित्तमारणात् परिशुद्धान्तःकरणपरिणामविनाशनात् तथा महतोऽनुष्ठानस्य, अल्पार्थनात् तुच्छलब्ध्यादिप्रार्थनेन, लघुत्वस्यापादनादिदं विषं ज्ञेयम् / 5"दिव्यभोगाभिलाषेण, गरमाहुर्मनीषिणः / एतद्विहितनीत्यैव, कालान्तरनिपातनात् / / 157 / / " एतद् अनुष्ठानं ऐहिकभोगनिस्पृहस्य स्वर्गभोगस्पृहया गरमाहुः, विहितनीत्यैव विषोक्तनीत्यैव, B - विषं गरोऽननुष्ठानं तद्धेतुरमृतं परम् / गुर्वादिपूजानुष्ठानमिति पञ्चविधं जगुः / / 11 / / वृ० - विषमिति / पञ्चानामनुष्ठानानामयमुद्देशः / / 11 / / - द्वा. द्वा., 13 - मुक्त्यद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः।। C - विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् / गुरुसेवाद्यनुष्ठानमिति पञ्चविधं जगुः / / 2 / / . - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / 4]-A- वृ० - विषं लब्ध्याद्यपेक्षातो लब्धिकीर्त्यादिस्पृहालक्षणायाः सकाशात्, इदमनुष्ठानं वर्तते / कुत इत्याह सञ्चितमारणात् परिशुद्धान्तःकरणपरिणामविनाशनात् महतोऽनुष्ठानस्य अल्पार्थनाद् - अतितुच्छलब्ध्यादिस्पृहणात्सकाशात् लघुत्वापादनं - लघुभावाधानं तस्मात् / तथा इति हेत्वन्तरभावनार्थः / ज्ञेयमिदं विषमिति / / 156 / / -योगबिन्दुवृत्तिः सवृत्तिः।। B - विषं लब्ध्याद्यपेक्षातः क्षणात्सञ्चितमारणात् xxx / / 12 / / वृ० - विषमिति / लब्ध्याद्यपेक्षातो लब्धिकीर्त्यादिस्पृहातो यदनुष्ठानं तद्विषमुच्यते / क्षणात्तत्कालं चित्तस्य शुभान्तःकरणपरिणामस्य नाशनात् तदात्तभोगेनैव तदुपक्षयात् / अन्यदपि हि स्थावरजङ्गमभेदभिन्नं विषं तदानीमेव नाशयति xxx ||12 / / ___ - द्वा. द्वा., 13 - मुक्तयद्वेषप्राधान्यद्वात्रिंशिका सवृत्तिः / / C - आहारोपधिपूजर्द्धि-प्रभृत्या शंसया कृतम् / शीघ्रं सश्चित्तहन्तृत्वा-द्विषानुष्ठानमुच्यते / / 3 / / स्थावरं जङ्गमं चापि, तत्क्षणं भक्षितं विषम् / यथा हन्ति तथेदं स-चितमैहिकभोगतः / / 4 / / ___ - अध्यात्मसार, 10 - सदनुष्ठानाधिकारः / / 5- A - वृ० दिव्यभोगाभिलाषेण - ऐहिकभोगनिःस्पृहस्य स्वर्गस्थानभवभोगाभिष्वङ्गरूपेण गरमनुष्ठानम् आहुर्मनीषिणो मतिमन्तः एतद्देवादिपूजाद्यनुष्ठानम् विहितनीत्यैव सञ्चित्तमारणादिरूपयैव, परं कालान्तरनि