________________ योगविशिका गाथा-१२ (छाया : इतरथा' तु कायवासितप्रायं अथवा महामृषावादः / तस्मात् अनुरूपाणाम् एव कर्तव्यः एतद्विन्यासः / / ). इहरा उ त्ति / इतरथा तु अर्थालम्बनयोगाभाववतां स्थानादियत्नाभावे तु तत् चैत्यवन्दनानुष्ठानं, कायवासितप्रायं सम्मूर्च्छनजप्रवृत्तितुल्यकायचेष्टितप्रायं मानसोपयोगशून्यत्वात्, उपलक्षणाद्वाग्वासितप्रायमपि द्रष्टव्यं, तथा चाननुष्ठानरूपत्वान्निष्फलमेतदिति भावः / अथवा इति दोषान्तरे, तञ्चैत्यवन्दनानुष्ठानं महामृषावादः, “स्थानमौनध्यानैरात्मानं व्युत्सृजामि" (ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि) इति प्रतिज्ञया विहितस्य चैत्यवन्दनकायोत्सर्गादेः स्थानादिभङ्गे मृषावादस्य स्फुटत्वात्, स्वयं विधिविपर्ययप्रवृत्तौ परेषामेतदनुष्ठाने मिथ्यात्वबुद्धिजननद्वारा' तस्य लौकिकमृषावादादतिगुरुत्वाञ्च, तथा च विपरीतफलं तेषामेतदनुष्ठानं सम्पन्नम् / येऽपि स्थानादिशुद्धमप्यैहिककीर्त्यादीच्छयाऽऽमुष्मिकस्वर्लोकादिविभूतीच्छया वैतदनुष्ठान कुर्वन्ति तेषामपि मोक्षार्थकप्रतिज्ञया विहितमेतत्तद्विपरीतार्थतया क्रियमाणं विषगरानुष्ठानान्तर्भूतत्वेन महामृषावादानुबन्धित्वाद्विपरीतफलमेवेति / विषाद्यनुष्ठानस्वरूपं चेत्थमुपदर्शितं 'पतञ्जल्याद्युक्तभेदान् स्वतन्त्रेण संवादयता ग्रन्थकृतैव योगबिन्दौ - “विषं गरोऽननुष्ठानं, तद्धेतुरमृतं परम् / गुर्वादिपूजानुष्ठान-मपेक्षादिविधानतः / / 155 / / " 1- तुला - जो जहवायं न कुणइ मिच्छट्ठिी तओ हु को अण्णो / वढेइ य मिच्छत्तं परस्स संकं जणेमाणो / / ___- उपदेशमाला / / | 2 - एतदेव दृढयन्नाह - इत्थं चैतद्यतः प्रोक्तं सामान्येनेव पञ्चधा / विषादिकमनुष्ठानं विचारेऽत्रैव योगिभिः / / 154 / / वृ० - इत्थमिदम्प्रकारम् / चकारः पूर्वोक्तभावनार्थः एतदनुष्ठानभेदलक्षणं वस्तु यतो यस्मात् प्रोक्तम् सामान्यैनैव न तु चरमाऽचरमावर्तभेदमपेक्ष्य पञ्चधा - पञ्चभिः प्रकारैः, विषादिकं - विषगरादिभेदमनुष्ठानं प्रस्तुतमेव विचारे - पर्यालोचने अत्रैवा-ऽस्मिन्नेव योगमते पतञ्जलिप्रभृतिभिः योगिभिः / / 154 / / - योगबिन्दु सवृत्तिकः / / 3] -A - वृ० - विषं - स्थावरजङ्गमभेदभिन्नम् ततो विषमिव विषम्, एवं गरोऽपि योजनीयः परं गरः - कुद्रव्यसंयोगजो विषविशेषः, अननुष्ठान-अनुष्ठानाभासम्, तथा तद्धेतुरनुष्ठानहेतुः, अमृतमिवामृतममरणहेतुत्वात् / परं-प्रकृष्टं, गुर्वादिपूजानुष्ठानम् प्रकृतमेव वर्तते / कुत इत्याह - अपेक्षादिविधानतः अपेक्षाया इहलोकपरलोकफलस्पृहानुरूपाया आदिशब्दादनाभोगादेश्च यद्विधानं विशेषस्तस्मात् / / 155 / / - योगबिन्दुवृत्तिः / /