________________ योगविंशिका गाथा-११-१२ 115 वतः कदाचित् फलविलम्बसम्भवेऽपि निरपायतद्वतोऽविलम्बन फलोत्पत्तौ न व्यभिचार इति प्रायो ग्रहणार्थः / इतरेषां अर्थालम्बनयोगाभाववताम् एतचैत्यवन्दनसूत्रपदपरिज्ञानं, स्थानादिषु यत्नवतां गुरूपदेशानुसारेण विशुद्धस्थानवर्णोद्यमपरायणानामालम्बनयोगयोश्च तीव्रस्पृहावतां, परं केवलं श्रेयः, अर्थालम्बनयोगाभावे वाचनायां पृच्छनायां परावर्तनायां वा तत्पदपरिज्ञानस्यानुप्रेक्षाऽसंवलितत्वेन 'अनुपयोगो द्रव्यम्' इतिकृत्वा द्रव्यचैत्यवन्दनरूपत्वेऽपि स्थानोर्णयोगयत्नातिशयादालम्बनस्पृहयालुतया च तद्धत्वनुष्ठानरूपतया भावचैत्यवन्दनद्वारा परम्परया स्वफलसाधकत्वादिति भावः / / 11 / / स्थानादियत्नाभावे च तञ्चैत्यवन्दनानुष्ठानमप्राधान्यरूपद्रव्यतामास्कन्दन्निष्फलं विपरीतफलं वा स्यादिति लेशतोऽपि स्थानादियोगाभाववन्तो नैतत्प्रदानयोग्या इत्युपदिशन्नाह - इहरा उ कार्यवासिय-पायं अहवा महामुसावाओ / ता अणुरूवाणं चिय, कायव्यो एयविन्नासो / / 12 / / नुच्छेद्यमनाश्यस्वविपाकसामर्थ्य वा कर्मैव चारित्रमोहनीयाख्यमपायः / / 17 / / बहुजन्मान्तरकरः सापायस्यैव साश्रवः / अनाश्रवस्त्वेकजन्मा तत्त्वाङ्गव्यवहारतः / / 18 / / वृ०- बह्वति / बहुजन्मान्तरकरो देवमनुष्याद्यनेकजन्मविशेषहेतुर्निरुपक्रमकर्मणोऽवश्यवेदनीयत्वात् / सापायस्यैवापायवत एव साश्रवो योगः / एकमेव वर्तमानं जन्म यत्र स त्वनाश्रवः / ननु कथमेतदयोगिकेवलि-गुणस्थानादर्वाक् सर्वसंवराभावेनानाश्रवत्वासम्भवादित्यत आह - तत्त्वाङ्ग निश्चयप्रापको यो व्यवहारस्ततः / तेन साम्परायिककर्मबन्धलक्षणस्यैवाश्रवस्याभ्युपगमात्तदभावे इत्वराश्रवभावेऽपि नानाश्रवयोगक्षतिरिति भावः xxx ||18 / / ___ - द्वा. द्वा., 19 - योगविवेकद्वात्रिंशिका सवृत्तिः / / किमेतदेवमित्याह - अपायशक्तिमालिन्यं, सूक्ष्मबोधवि(नि)बन्धकृत् / नैतद्वतोऽयं तत्तत्त्वे, कदाचिदुपजायते / / 68 / / वृ० - अपायशक्तिमालिन्यं / नरकाद्यपायशक्तिमलिनत्वम् किमित्याह सूक्ष्मबोधवि-(नि)बन्धकृत् - अपायहेत्वासेवनक्लिष्टबीजभावेन नैतद्वतोऽपायशक्तिमालिन्यवता अयं सूक्ष्मो बोधः तत्तस्मात् तत्त्वे इति तत्त्वविषये कदाचिदुपजायते, अवन्ध्यस्थूरबोधवीजभावादित्यर्थः / / 68 / / यस्मादेवम् - अपायदर्शनं तस्माच्छ्रुतदीपान्न तात्त्विकम् / तदाभालम्बनं त्वस्य, तथा पापे प्रवृत्तितः / / 69 / / वृ० - अपायदर्शनं-दोषदर्शनं तस्माच्छ्रतदीपादागमात्, न तात्त्विकं - न पारमार्थिकमस्येति योगः / तदाभालम्बनं तु - परमार्थाभाविषयं पुनर्भवति भ्रान्त्या, कुत इत्याह - तथा पापे प्रवृत्तितः - तथा चित्रानाभोगप्रकारेण पापे प्रवृत्तेरिति / / 69 / / - योगदृष्टिसमुञ्चयः सवृत्तिः / /