________________ 114 योगविंशिका गाथा-११ NNNNNA HANNNNNNNNNNNNNNNNNNA 'द्विविधो हि योगः-सापायो निरपायश्च, तत्र निरुपक्रममोक्षपथप्रतिकूलचित्तवृत्तिकारणं प्राक्कालार्जितं कर्म अपायस्तत्सहितो योगः सापायः, तद्रहितस्तु निरपाय इति / तथा च सापायार्थालम्बनयोग महावाक्यार्थमेव गाथापूर्वार्द्धनोपसंहरन्नैदम्पर्यमाह - एवं एसा अणुबंधभावओ तत्तओ कया होइ / अइदंपजं एयं आणा धम्मम्मि सारोत्ति / / 868 / / वृ० - एवं विधिना यत्ने क्रियमाणे एषा हिंसाऽनुबन्धभावत उत्तरोत्तरानुबन्धभावाद् मोक्षप्राप्तिपर्यवसानानुगमात् तत्त्वतः परमार्थतः कृता भवति, मोक्षसम्पाद्यजिनाज्ञाया उपरमाभावादिति / ऐदम्पर्यमेतदत्र यदुताज्ञा धर्म सारः / इतिः परिसमाप्तौ / / 868 / / - उपदेशपद // * विशेषार्थिना उपदेशपद भाग-२, गाथा 869 तः 885 तथा उपदेशरहस्य गाथा - 157 तः 171 परिशिष्ट-१ मध्ये दृष्टव्याः / - - सम्पा०॥ अथ सानुबन्धेतराभिव्यक्त्यर्थमाह - 12-तुला - A - अस्यैव त्वनपायस्य,सानुबन्धस्तथा स्मृतः / यथोदितक्रमेणैव, सापायस्य तथापरः / / 372 / / वृ० - अस्यैव तु पूर्वोक्तयोगभाजो जीवस्य पुनः / अनपायस्य योगबाधकक्लिष्टकर्मरहितस्य सानुबन्धस्तथा तत्प्रकारः सन्, स्मृतः शास्त्रकारैः / यथोदितक्रमेणैवाध्यात्मदिरूपेणैव सापायस्यानपायविलक्षणस्य / तथा इति समुञ्चये अपरोऽसानुबन्ध इति / / 372 / / अथापायमेव व्याचष्टे - अपायमाहुः कर्मव, निरपायाः पुरातनम् / पापाशयकरं चित्रं, निरुपक्रमसज्ञकम् / / 373 / / / वृ० - अपायमाहुः / कर्मैव नापरं किञ्चित् / निरपाया उपरतसकलक्लिष्टादृष्टाः तीर्थकरादयः / पुरातनं प्राक्कालोपार्जितम् / पापाशयकरं मोक्षपथप्रतिकूलचित्तवृत्तिहेतुः / चित्रं नानारूपम् / निरुपक्रमसज्ञकं उपक्रम-णमुपक्रमः सर्वत उच्छेदः, ततो वास्तवविपाकसामर्थ्यहरणं, ततो विशिष्टानुष्ठानमिष्टयोगमपि, निर्गतमुपक्रमान्निरुपक्रम, तत्सञ्ज्ञा नाम यस्य तत्तथा / / 373 / / अपायमेवाधिकृत्य परमतसंवादमाह - कण्टकज्वरमोहैस्तु, समो विघ्नः प्रकीर्तितः / मोक्षमार्गप्रवृत्ताना-मत एवापरैरपि / / 374 / / वृ० - कण्टकज्वरमोहैस्तु / कण्टकेन ज्वरेण मोहेन च पुनः समस्तुल्यः विघ्नः प्रत्यूहो जघन्यमध्यमोत्कृष्टभेदभिन्नः प्रकीर्तितो निरुपितः मोक्षमार्गप्रवृत्तानां सम्यग्दर्शनाद्याराधनावहितात्मनाम् / अत एव योगनिरनुबन्धत्वादेव हेतोः अपरैरपि योगिभिर्न केवलमस्माभिरित्यपिशब्दार्थः / यथा हि केषाञ्चित्पथिकानां क्वचित्पाटलिपुत्रादौ गन्तुं प्रवृत्तानां कण्टकज्वरदिग्मोहैरभिभूतानां यथाक्रमं स्तोकबहुबहुतरकालं गमनभङ्गहेतुर्विघ्नः सम्पद्यते, एवं योगिनामपि सिद्धिपथप्रस्थितानां तथाविधकर्मोदयात् त्रिप्रकारोऽन्तरायः समुपजायत इति / / 374 / / - योगबिन्दुः सवृत्तिः।। B - अपायाभावभावाभ्यां सानुबन्धोऽपरश्च सः / निरुपक्रमकमवापायो योगस्य बाधकम् / / 17 / / वृ० - अपायेति / अपायस्याभावभावाभ्यां असद्भावसद्भावाभ्यां सानुबन्धोऽपरो निरनुबन्धश्च स योगः / अपायरहितः सानुबन्धः, तत्सहितश्च निरनुबन्ध इति / योगस्य बाधकं निरुपक्रमं विशिष्टानुष्ठानचेष्टयाप्य