________________ योगविंशिका गाथा-११ 113 NANNNNNNNNNNA NNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNNN अर्थालम्बनयोगयोर्ज्ञानयोगतयोपयोगरूपत्वात् तत्सहितस्य चैत्यवन्दनस्य भावचैत्यवन्दनत्वसिद्धेः, भावचैत्यवन्दनस्य चामृतानुष्ठानरूपत्वेनावश्यं निर्वाणफलत्वादिति भावः / प्रायोग्रहणं सापाययोगवव्यावृत्त्यर्थम् / तथाविधवेषप्रतिपत्तेः सम्भाव्यमानत्वात् / तर्हि किं कर्तव्यमित्याशझ्याह बालादिकेभ्यो वालवृद्धमध्यमवयः- स्थेभ्यः स्त्रीपशुपालभामहादिरूपेभ्य एकान्तत एव सत्यवादितया सम्भाव्यमानेभ्यस्तं पुरुषं मार्गपृच्छायोग्यं ज्ञात्वा ततस्तदनन्तरं युज्यते गमनम् / किमर्थमित्याह - इष्टफलार्थं इहेष्टं फलं निरुपद्रवमार्गपरिज्ञानं निमित्तेन मनःपवनशकुनादिनाऽनुकूलेनेति / / 863 / / इत्थं प्रतिवस्तूपमारूपं दृष्टान्तमभिधाय दार्टान्तिके योजयति - एवं तु पयत्थाई जोएज्जा एत्थ तंतणीईए / अइदंपजं एवं अहिगारी पुच्छियव्वोत्ति / / 864 / / वृ० - एवं / त्वनन्तरोक्तनीत्यैव पदार्थादीन् पदवाक्यमहावाक्यार्थान् योजयेद् दार्टान्तिकतया घटयेत् अत्र प्रस्तुते व्याख्यानविधौ / कथमित्याह - तन्त्रनीत्या श्रृतानुसारेण / तथा ह्यत्र दर्शनतुल्यः पदार्थो न तस्मादिष्टानिष्टयोः प्राप्तिपरिहारौ स्यातां, शत्रोरपि तत्रानिवृत्तेः, शत्रुवेषभेददर्शनतुल्यो वाक्यार्थो, न तस्मादपीष्टसिद्ध्यादिभावः, पूर्वोक्तादेव हेतोः, बालाबलादिभ्यस्तदवगमतुल्यस्तु महावाक्यार्थः, सिद्ध्यति चास्माजिज्ञासितोर्थः / एदम्पर्यं तु साक्षादाह-एदम्पर्यमेतद् यथा एवं शुद्धोऽधिकारी पन्थानं प्रष्टव्यो नान्यः / इतिः प्राग्वत् / / 864 / / : अथ साक्षादेव कतिचित्सूत्राण्याश्रित्य पदार्थादीनि व्याख्याङ्गानि दर्शयन्नाह - हिंसिज्ज ण भूयाइं इत्थ पयत्थो पसिद्धगो चेव / मणमाइएहिं पीडं सब्वेसिं चेव ण करिज्जा / / 865 / / - वृ० - हिंस्याद् व्यापादयेद् न नैव भूतानि पृथिव्यादीन् प्राणिनः / अत्र सूत्रे पदार्थः प्रसिद्धकश्चैव प्रख्यातरूप एव / तमेव दर्शयति - मनआदिभिर्मनोवाक्कायैः पीडां बाधां सर्वेषां चैव समस्तानामपि जीवानां न कुर्याद् न विदध्यादिति / / 865 / / तथा - आरंभिपमत्ताणं इत्तो चेइहरलोचकरणाई / तकरणमेव अणुबंधओ तहा एस वक्कत्थो / / 866 / / * वृ० - आ - आरम्भः पृथिव्याधुपमईः स विद्यते येषां ते आरम्भिणो गृहस्थाः, प्रमाद्यन्ति निद्राविकथादिभिः प्रमादैः सर्वसावद्ययोगविरतावपि सत्यां ते प्रमत्ता यतिविशेषाः, आरम्भिणश्च प्रमत्ताश्च आरम्भिप्रमत्तास्तेषाम्, इतः पदार्थाञ्चैत्यगृहलोचकरणादि, चैत्यगृहमर्हतो भगवतो बिम्बाश्रयः, लोचकरणं च केशोत्पाटनरूपम्, आदिशब्दात् तत्तदपवादाश्रयणेन तथाप्रवचनदुष्टनिग्रहादिपरपीडाग्रहः / तेषां करणं तत्करणमेव प्राग्निषिद्धहिंसाकरणमेव प्राप्तम् / कुत इत्याशङ्क्याह-अनुबन्धतोऽनुगमात् तथा तत्प्रकारायाः परपीडाया इत्येष चालनारूपो वाक्यार्थ इत्यर्थः / / 866 / / अविहिकरणम्मि आणाविराहणा दुट्ठमेव एएसि / ता विहिणा जइयव्वंति महावक्कत्थरूवं तु / / 867 / / वृ० - अविधिकरणेऽनीतिविधाने चैत्यगृहलोचादेरर्थस्याज्ञाविराधनाद् भगवद्वचनविलोपनाद् दुष्टमेवैतेषां चैत्यगृहादीनां करणम् / तत्र चेयमाज्ञा - “जिनभवनकरणविधिः शुद्धा भूमिर्दलं च काष्ठादि / भृतकानतिसन्धानं स्वाशयवृद्धिः समासेन / / 1 / / " लोचकर्मविधिस्तु - “धुवलोओ य जिणाणं वासावासासु होइ थेराणं / तरुणाणं चउमासे वुड्ढाणं होइ छम्मासे / / 1 / / " इत्यादि / तत् तस्माद् विधिना जिनोपदेशेन यतितव्यम् / इत्येवं महावाक्यार्थस्य प्राक्चालितप्रत्यवस्थानरूपस्य रूपं तु स्वभावः पुनः / / 867 / /