________________ 112 योगविंशिका गाथा-११ wwwwwwwwwwwwwwwww दण्डकेऽधिकृततीर्थकृद्, द्वितीये सर्वे तीर्थकृतः, तृतीये प्रवचनम् चतुर्थे सम्यग्दृष्टिः शासनाधिष्ठायक इत्यादि, तद्योगवतः तत्प्रणिधानवतः, प्रायः बाहुल्येन अविपरीतं तु अभिप्सितपरमफलसम्पादकमेव, अथेदमेव व्याचष्टे - पयवक्कमहावकत्थमेदंपज्जं च एत्थ चत्तारि / सुयभावावगमम्मि हंदि पगारा विणिद्दिट्टा / / 859 / / वृ० - पदं च वाक्यं च महावाक्यं च पदवाक्यमहावाक्यानि तेषामर्थः प्रादुष्कर्त्तव्यः प्रथमतः शिष्यस्य / मकारोऽलाक्षणिकः / ऐदम्पर्यं च पश्चात् प्रकाशयेत् / एवमत्र व्याख्यानविधिनिरूपणायां चत्वारः श्रुतभावावगमे, हंदीत्युपप्रदर्शने, प्रकारा भेदा विनिर्दिष्टा इति / तत्र द्विविधं पदं सुबन्तं तिङन्तं च / पुनरपि सुबन्तं त्रिधा, नामोपसर्गनिपातभेदात् / तत्र नाम घट इत्यादि, उपसर्गः प्रपरेत्यादि, निपातश्च वा हीत्यादि / तिङन्तं च भवति पचतीत्यादि / एकार्थप्रतिपादकानि पदानि, वाक्यं पदार्थचालनारूपं, वाक्यान्येव विशिष्टतः रैकार्थचालितार्थप्रत्यवस्थानरूपं महावाक्यम् / इदं परं प्रधानं यत्र भणने तत् तथा, तद्भाव ऐदम्पर्य सूत्रार्थभावार्थ इत्यर्थः / / 859 / / अथ कस्मादेषां पदार्थादीनां व्याख्याभेदानामङ्गीकार इत्याशझ्याह - संपुण्णेहिं जायइ सुयभावावगमो इहरहा उ / होई विवज्जासोवि हु अणिट्ठफलओ य सो णियमा / / 860 / / वृ० - सम्पूर्णैः पदार्थादिभिर्दर्शितैर्जायते श्रुतभावस्य शास्त्रपरमार्थलक्षणस्यावगमोऽववोधः श्रोतुः / विपर्यये बाधकमाह इतरथा त्वन्यथा पुनर्भवति विपर्यासो विपरीतशास्त्रार्थप्रतिपत्तिरूपोऽपि, हु शब्दात् संशयानध्यवसायौ गृह्यते / यदि नामैवं ततः किमित्याह-अनिष्टफलप्रदश्च नरकादिदुर्गतिपातहेतुः पुनः स विपर्यासो नियमादवश्यम्भावेन / / 860 / / अथैतानेव पदार्थादीन् परमतोपन्यस्तदृष्टान्तद्वारेण साधयितुमिच्छुराह - एएसिं च सरूवं अण्णेहि वि वण्णियं इहं णवरं / सत्तुग्गहणट्ठद्धाणभट्ठतण्णाणणाएण / / 861 / / वृ० - एतेषां च पदार्थादीनां स्वरूपमन्यैरपि तीर्थान्तरीयैर्वर्णितम्, इह व्याख्यानावसरे नवरं केवलं व्याख्येयसूत्रपदानुपन्यासेनेत्यर्थः / कथमित्याह-शत्रुग्रहनष्टाध्वभ्रष्टतज्ज्ञानन्यायेन. कस्यचित् क्वचित् पाटलि पुत्रादौ गन्तुं प्रवृत्तस्य काञ्चिद् विषमां भुवं प्राप्तस्य शत्रुग्रहे प्रवृत्ते नष्टस्य ततोऽध्वभ्रष्टस्य मार्गच्युतस्य यस्तज्ज्ञाने मार्गावबोधे न्यायस्तेनेति / / 861 / / अथैनमेव न्यायं दर्शयति - दगुण पुरिसमेत्तं दूरे णो तस्सं पंथपुच्छत्थं / जुजइ सहसा गमणं कयाइ सत्तू तओ होजा / / 862 / / वृ० - दृष्ट्वा समवलोक्य पुरुषमात्रमज्ञातविशेषं पुरुषमेव केवलं दूरे महतान्तरेण व्यवधाने नो नैव तस्य विमर्शकारिणः पथिकस्य शत्रुभयाद् मार्गाद् भ्रष्टस्य पथिपृच्छार्थं मार्गजिज्ञासानिमित्तं युज्यते घटते सहसाऽपर्यालोच्येत्यर्थः गमनं तत्समीपे / कुतो ? यतः कदाचिच्छत्रुर्द्विषन्नपि यद्भयान्नष्टस्तकः पुरुषो भवति / / 862 / / वेसविवज्जासम्मिवि एवं बालाइएहिं तं गाउं / तत्तो जुजइ गमणं इट्ठफलत्थं णिमित्तेण / / 863 / / / वृ० - वेषविपर्यासेऽपि-शत्रुविशेषस्य यो विपर्यासो वैलक्षण्यं परिव्राजकादिलिङ्गधारणरूपं तत्रापि, किं पुनः शत्रुविशेषे सतीत्यपिशब्दार्थः, एवं तत्समीपे पथिपृच्छार्थं गमनं न युज्यते, शत्रोरपि पथिकविश्वासनार्थं