________________ 239 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / - नाम्, अवगाहनात्-तावदाकाशप्रदेशमात्रावगाहनायाः समयान्तरेऽभावादित्यर्थः / / 72 // स्वस्मिन् स्ववसतिं प्राहुस्त्रयः शब्दनयाः पुनः। एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना // 73 // नयामृत-स्वस्मिन्निति / त्रयः शब्दानया शब्द-समभिरूढेवम्भूताख्या नयाः, पुनः, स्वस्मिन् स्ववसतिं प्राहुः, स्वप्रदेशष्वेव स्वस्य मुख्याया वसतेः सम्भवात् , आकाशप्रदेशानामपि परद्रव्यत्वेन तत्र स्वसम्बन्धस्य विचार्यमाणस्याघटनाद्, अत एव दानं हरणादिकं तत्फलमपि चैते नयाः स्वात्मनिष्ठमेव स्वीकुर्वन्तीति दिक् / एषाऽनुयोगद्वारेषु दृष्टान्तनययोजना शब्दतोऽर्थतश्च दर्शितेत्यागममूलत्वादस्यां दृढविश्वासो विधेय इत्यैदंपर्यम् // 73 // एतैदृष्टान्तरयमस्मान्नयाच्छुद्ध इति कथं ज्ञेयमित्याह शुद्धा ह्येतेषु सूक्ष्मार्था अशुद्धाः स्थूलगोचराः। फलतः शुद्धतां त्वाहुर्व्यवहारे न निश्चये // 74 // नयामृत-शुद्धा हीति / एतेषु नयेषूक्तदृष्टान्तरीत्या ये यतः सूक्ष्मास्ते ततः शुद्धाः, ये च यतः स्थूलगोचरास्ते ततोऽशुद्धाः, सूक्ष्मत्वं स्थूलत्वं चार्थानां तादृशतादृशबुद्धिविषयत्वेनानुगमनीयम् , न तु बह्वल्पविषयभावेन, तथा सत्युत्तरोत्तरेभ्यः पूर्वपूर्वेषां सूक्ष्मार्थत्वप्राप्तेः, यत उक्तम्-" पूर्वः पूर्वो नयः प्रचुरगोचरः परः परस्तु परिमितविषयः 1 सन्मात्रगोचरात् सङ्ग्रहानैगमो भावाभावभूमिकत्वात् भूमविषयः 2 सद्विशेषप्रकाशकाद् व्यवहारतः सङ्ग्रहः समस्तसत्समूहोपदर्शकत्वाद् बहुविषयः 3 सद्व्यः, वीर्यप्रधानः सयोगो वीर्यसयोगः, स चासौ सद्व्यश्चेति विग्रहः, तद्भावस्तत्ता तया / प्रतिसमयमिति पूरणम् / अन्यान्यक्षेत्रस्य इत्यस्य स्पष्टीकरणम्-अपरापराकाशप्रदेशानामिति / फलितमाह- तावदाकाशेति // 72 // साम्प्रत-समभिरूढैवम्भूताख्यानां त्रयाणां शब्दनयानां वसतिनिदर्शने एकस्यैवाभ्युपगमप्रकारस्योपदर्शकं त्रिसप्ततितमपद्यं विवृणोति-स्वस्मिन्नितीति / कथं स्वस्मिन्नेव स्ववसतिमभ्युपगच्छतीत्याकाङ्क्षायामाह- स्वप्रदेशेष्वेवेति। तत्र आकाशप्रदेशेषु / अत एव स्वभिन्ने स्वसम्बन्धस्य विचार्यमाणस्याघटनादेव / “दानं हरणादिकं" इत्यस्य स्थाने "दान-हरणादिकं” इति पाठः सम्यग् / तत्फलमपि दान-हरणादिजन्यफलमपि / एते नयाः शब्द समभिरूलैवम्भूताख्याः शब्दनयाः / उत्तरार्द्धमुल्लिख्य योजयति-एषेति / अन्यत् स्पष्टम् // 73 // .. चतुःसप्ततितमं पद्यमवतारयति- एतैरिति-अनन्तरमभिहितः, प्रदेश-प्रस्थक-वसत्यभिरूयैरित्यर्थः / इत्याह इत्या. काक्षायामाह / विवृणोति- शुद्धा हीतीति / तादृशतादृशबुद्धिविषयत्वेनानुगमनीयमिति-- अयमस्मात् सूक्ष्मोऽर्थ इत्याकारकबुद्धिविषयत्वेन सूक्ष्मत्वम् , अयमस्मात् स्थूलोऽर्थ इत्याकारकबुद्धिविषयत्वेन स्थूलत्वं चानुगमनीयमित्यर्थः / न त्वितिबहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवं सूक्ष्मार्थत्व स्थूलार्थत्वयोरनुगमनं न सम्भवतीत्यर्थः / निषेधे हेतुमाहतथा सतीति- बहुविषयकत्वं सूक्ष्मार्थत्वमल्पविषयकत्वं स्थूलार्थत्वमित्येवमनुगमने सतीत्यर्थः / उत्तरोत्तरेभ्य इतिसङ्कहनयागमस्य व्यवहारनयात् सङ्गहस्य ऋजुसूत्रनयाद् व्यवहारस्य शब्दनयाद् ऋजुसूत्रस्य सूक्ष्मार्थत्वप्रसङ्गादित्यर्थः / उत्तरोत्तरनयापेक्षया पूर्वपूर्वनयस्य बहुविषयत्वं पूर्वपूर्वनयापेक्षयोत्तरोत्तरनयस्याल्पविषयत्वमित्यत्र प्राचीनोक्किसंवादमाहयंत उक्तमिति / सामान्यतः पूर्वपूर्वनयस्य बहुविषयत्वमुत्तरोत्तरनयस्याल्पविषयत्वमुपदर्शितं तदेव विशेषतो नामग्राई दर्शयति- सन्मात्रगोचरादिति-सन्मात्रेत्यत्र मात्रपदेनासतो व्यवच्छेदः / भावाभावभूमिकत्वात् सदसद्विषयकत्वात् / भूमविषयः बहुविषयः / अनल्पार्थः बहुविषयः / कालादीत्यादिपदेन लिङ्गसंख्यादेर्ग्रहणम् / भिन्नार्थोपदर्शिनः