________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलतो नयोपदेशः / वर्तमानविषयाद् ऋजुसूत्राद व्यवहार स्त्रिकालविषयालम्बित्वादनल्पार्थः 4 कालादिभेदेन भिन्नार्थोपदशिनः शब्दाद् ऋजुसूत्रस्तद्विपरीतवेदकत्वान्महार्थः 5 प्रतिपर्यायशब्दमर्थभेदमभीप्सितः समभिरूढाच्छ. ब्दस्तद्विपर्ययानुयायित्वात् प्रभूतविषयः 6 प्रतिक्रियं विभिन्नमर्थे प्रति जानानादेवम्भूतात् समभिरूढस्तदन्यथार्थस्थापकत्वान्महागोचरः” [ ] इति, एवं सति ऋजुसूत्रादेव्यवहारस्य बह्वर्थत्वेन सूक्ष्मार्थत्वं स्यात् ? इति बहुविचारसहत्वं सूक्ष्मार्थत्वम् , अल्पविचारसहत्वं च स्थूलार्थत्वमित्यादिकं वा यथासमयं परिभाषणीयम् , इत्थं च, निश्चयनया एवैतेषु शुद्धा व्यवहारनयाश्वाशुद्धा इति फलितम् , निश्चयत्वं च व्यवहार-तदुपजीविनयान्यनयत्वं व्यवहार तदुपजीविनयान्यतरत्वमिति विवेकः, "अहवा सबणयमयं विणिच्छओ इगमयं च ववहारो" [ विशेषावश्यकभाष्ये-गा०] इति भाष्योक्तं पक्षान्तरं च निश्चयस्य सप्तभङ्गयादिविशेषिततयोपपादनीयम् , अयं च निश्चय-व्यवहारयोः शुद्धाऽशुद्धत्वोपन्यासः स्वरूपतः, फलतः शुद्धतां त्वमियुक्ता व्यवहारनये, न तु निश्चये // 74 / / तथाहि क्रियाऽक्रियाफलौचित्यं, गुरु-शिष्यादिसङ्गतिः।। यत्र सम्यक्त्वहेतुः सा, व्यवहारस्य देशना // 75 // नयामृत०-क्रियेति / यत्र-बाह्यत्वानुगतात्मद्रव्यवादिनि नये, क्रियाऽक्रियाफलयोरौचित्यं, धर्मानुशासकतयोद्देश्यधर्मानुशासनफलयोगित्वादिना च गुरु-शिष्यादिसङ्गतिः, सा व्यवहारस्य देशना भिन्नार्थविषयकात् / तद्विपरीतवेदकत्वात् कालादिभेदेऽप्यभिन्नार्थोपदर्शकत्वात् / महार्थः बहुविषयः। प्रतिपर्याय शब्द पर्यायशब्दमभिव्याप्य, एकप्रवृत्तिनिमित्तकत्वेन पराभिमता यावन्तः शब्दास्तेषां भेदेनेति यावत् / अर्थभेदमभीप्सतः अर्थभेदं स्वीकुर्वतः / “अभीप्सितः" इत्यस्य स्थाने “अभीप्सतः" इति पाठो युक्तः / तद्विपर्ययानुयायित्वात् पर्यायभेदेऽप्यर्थभेदाभ्युपगन्तृत्वात् / प्रभूतविषयः बहुविषयः। प्रतिक्रियमिति- व्युत्पत्तिनिमित्तक्रिया भेदेन विभिन्नमर्थमुररीकुर्वाणादेवम्भूतनयात् समभिरूढनयो व्युत्पत्तिनिमित्तक्रियाशून्यकालेऽपि व्युत्पत्तिनिमित्तकियोपलक्षितत्वेन तस्यैवार्थस्य व्यवस्थापकत्वाद् बहुविषय इत्यर्थः। तथा च बह्वर्थत्वमेव यदि सूक्ष्मार्थत्वं तदा व्यवहारनयस्य ऋजुसूत्रादिनयतो बह्वर्थत्वेन सूक्ष्मार्थत्वं प्रसज्यत इत्युपसंहरति- एवं सतीति- एवं चायमस्मात् सूक्ष्मार्थ इति बुद्धिविशेषविषयत्वं सूक्ष्मार्थत्वम् , अयमस्मात् स्थूलार्थ इति बुद्धिविशेषविषयत्वं स्थूलार्थत्वमित्येवं युक्तम् / प्रकारान्तरमपि तत्रोपदर्शयति-बविचारसहत्वमिति / एवं सति यत् फलितं तदाह- इत्थं चेति / एतेषु नैगमादिसप्तनयेषु / एते निश्चयनयाः, इमे व्यवहारनया इति निश्चयत्व-व्यवहारत्वयोनिर्वचनं विना न ज्ञातुं शक्या इति तयोविवेकमुपदर्शयति-निश्चयत्वं चेति। तदुपजीवीति- व्यवहारोपजीवीत्यर्थः। “व्यवहार-तदुपजीविनयान्यतरत्वमिति" अस्य स्थाने "व्यवहारत्वं व्यवहार-तदुपजीविनयाऽन्यतरत्वमिति" इति पाठो युक्तः, अर्थस्तु व्यक्त एव / सर्वनयमयो निश्चयनयः, एकनयमयो व्यवहारनय इति भाष्योक्तविवेकस्य का गतिरित्याकाडायामाह- अहवेति- " अथवा सर्वनयमतं विनिश्चयः, एकनयमतं च व्यवहारः” इति संस्कृतम् / अयं चेति- "शुद्धा ह्येतेषु सूक्ष्मार्थाः" इत्यादिनोपदर्शितश्च / यदि खरूपतः शुद्धत्वाऽशुद्धत्वयोरुपन्यासोऽयं तर्हि फलतः शुद्धता व्यवहारनिश्चययोर्मध्ये कस्येत्याकाङ्कानिवृत्तये उत्तरार्द्ध सामयति-फलत इति / “त्वभियुक्ता" इत्यस्य स्थाने “त्वाहुरभियुक्ता" इति पाठो युक्तः, अत्र अभियुक्ता इति पूरणम् , स्पष्टत्वान्न व्याख्यानमादृतम् // 74 // पञ्चसप्ततितमपद्यमवतारयति-तथाहीति- व्यवहारस्य फलतः शुद्धतामुपदर्शयतीत्यर्थः। विवृणोति-क्रियेतीति / "बाह्यत्वानुगत" इत्यस्य स्थाने " बाह्यतत्त्वानुगत" इति पाठो युक्तः। यत्रेति मूलस्य विवरणं-बाह्यतत्त्वाऽनुगतात्मद्रव्यवादिनि नये इति- बाह्यतत्त्वमनुगतात्मद्रव्यं च वदितुम्- अस्तीत्येवं गदितुं शीलं यस्य स बह्यतत्त्वा. नुगतात्मद्रव्यवादी तस्मिन्नये, यो नयो बाह्यशरीरादितत्त्वं पूर्वापरभवानुयाय्येकात्मद्रव्यं चाभ्युपगच्छति तस्मिन् नये इति