________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 130 एवोभयत्र वासप्रयुक्तवृत्तिमत्यर्धवासित्वमपि व्यवह्रियते, बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्व एव वत्र वसधातोर्लक्षणा, ततोऽपचत्यपि पाचक इति (वत्) प्रायेण तत्रावसत्यपि तद्वासीति प्रयोगसम्भवेऽपि[ अपचतीतिवदवसति वसतीत्यप्य ]नानुपपत्तिः, नन्वित्वरकालीनवासप्रयुक्तवृत्तिभागित्वेनापि वसतीति प्रयोगप्रसङ्गः, इत्यपि युक्तमाभाति // 70 // सङ्ग्रहो वसतिं ब्रूते, जन्तोः संस्तारकोपरि। ... ऋजुसूत्रः प्रदेशेषु, स्वावगाहनकृत्सु खे // 71 // नयामृत-सङ्ग्रह इति / सङ्ग्रहः-सङ्ग्रहनयो जन्तोः संस्तारकोपरि वसतिं ब्रूते-संस्तारका. रूढ एव वसतीत्यभ्युपैति, अन्यत्र हि वासार्थस्यैवाघटमानत्वात् , अत एव मूले वृक्षः कपिसंयोगीत्य. त्राप्येतन्मते मूलाभिन्नो वृक्षः कपिसंयोगीत्येवार्थः, अत एव च-मूलं कपिसंयोगि न वृक्ष इति प्रतीतिसाम्मुख्यम् , अत एव चोक्तप्रतीत्या संयोगस्य व्याप्यवृत्तित्वं न तु कर्मणस्तस्य देशवृत्तित्वस्वीकारात्' इति च बसति तस्मिन् पाटलीपुर तदन्यग्रामोभयवासप्रयुक्तवृत्तिमति पुरुषे, अर्धवासित्वमपि व्यवह्रियते अयं पुरुषः पाटलीपुरे अर्धवासीत्येवं व्यवह्रियते, अपिशब्दात् पाटलीपुरे वसतीति व्यवहियते इत्यस्य सङ्ग्रहः / अन्यत्र गते पाटलीपुरवासित्वव्यवहारस्योपपादकं प्रकारान्तरमुपदर्शयति - बहुकालेति-बहुकालप्रतिबद्धो बहुकालव्याप्तसम्बन्धो यस्तद्गतःपाटलीपुत्रमतो गृहकुटुम्बादिस्तत्स्वामित्वे एव / तत्र अयं पाटलीपुरवासीति प्रयोगे, वसधातोर्लक्षणेत्यर्थः / ततः बहुकालप्रतिबद्धतद्गतगृहकुटुम्बादिस्वामित्वे वसधातोर्लक्षणातः / अपचत्यपीति- यो बहुकालं पचति तस्मिन् कदाचिदपचत्यपि यथाऽयं पाचक इति प्रयोगस्तथा बहुकालं यो यत्र वसति, गृहकुटुम्बादिरपि यस्य तत्र वर्तते तस्मिन् कदाचित् तत्रावसत्यपि तद्वास्ययमिति प्रयोगसम्भवेऽपि, अपचति कदाचिदपचति पचतीतिप्रयोगवत् कदाचिदवसति वसतीति प्रयोगस्य नानुपपत्तिरित्यर्थः, "पाचक इति वत्] प्रायेण" इत्यस्य स्थाने "पाचक इति प्रयोगवत्" इति पाठो युक्तः, "अपचतीतिवदवसति वसतीत्यप्य]" इत्यस्य स्थाने " अपचति पचतीतिवदवसति वसतीत्यस्य" इति पाठो युक्तः / “नन्वित्वरकालीन" इत्यस्य स्थाने "न त्वित्वरकालीन" इति पाठः सम्यग्, 'न तु' इत्यस्य 'प्रयोगप्रसङ्गः' इत्यनेनान्वयः। “भागित्वेनापि” इत्यस्य स्थाने “भागित्वेनावसत्यपि" इति पाठः समीचीनः / इत्वरकालीनेति-स्वल्पकालीनेत्यर्थः, यः खलु स्वल्पकालमेव पाटलीपुरे निवासमेत्य कस्यचिद् गृहादेस्स्वामित्वमासादितवान् बहुकालं त्वन्यत्रैव निवसति तस्मिन्नन्यत्र गते पाटलीपुरेऽवसति सति स्वल्पकालीनपाटलीपुरवासप्रयुक्तवृत्तिभागित्वेन पाटलीपुरे वसतीति प्रयोगप्रसङ्गो न त्वित्यर्थः / इत्यपि अनन्तरोपदिष्टं पद्यानुपदिष्टप्रकारान्तरमपि / युक्तमाभाति युक्त- मेवास्माकं मनसि भासते // 70 // वसतिनिदर्शने सङ्घहर्जुसूत्रनययोरभिमतभेदोपदर्शकमेकसप्ततितमपद्यं विवृणोति-सङ्गह इतीति। फलितार्थमाह -संस्तारकारुढ एवेति / अन्यत्र संस्तारकमिन्ने। हि यतः / अत एव सङ्ग्रहनयमते यस्य यद्देशावच्छेदेन संयोगस्तस्य तद्देश एव वृत्तित्वमित्यभ्युपगमादेव / एतन्मते सङ्ग्रहनयमते / अर्थः मूले वृक्षः कपिसंयोगीत्यस्यार्थः। अत एव यद्देशावच्छेदेन संयोग प्रतीतिः सा तद्देशाभिन्न एव संयोगप्रतीतिस्वरूपैवेत्यभ्युपगमादेव, एवमप्रेऽपि / प्रतीतिसाम्मुख्यं प्रतीत्या सहाविरोधः / अत पवेत्यस्य निरस्तमित्यनेनान्वयः / उकप्रतीत्या मूले वृक्षः कपिसंयोगीति प्रतीत्या। "संयोगस्य व्याप्यवृत्तित्वं" इत्यस्य स्थाने "संयोगस्याव्याप्यवृत्तित्वं" इति पाठो युक्तः, उकप्रतीतिर्मूलावच्छेदेन वृक्षे कपिसंयोगावगाहिनी न तु मुळामिषवृक्षे कपिसंयोगावगाहिनी, अवयवावयविनोभेंदादिति मूलस्य वृक्षवृत्तिकपिसंयोगावच्छेदकत्वं तदैव भवितुमर्हति, यदि वृक्ष कपिसंयोप-तदभावौ वर्तेते, विरोधिनोवियोरेकत्र वृत्त्यर्थमवच्छेदकभेदाश्रयणादिति भवत्युक्तप्रतीतिबलात् संयोगस्याव्याप्यवृत्तित्वमित्यर्थः / न तु कर्मण इति - कर्मणोऽव्याप्यवृत्तित्वं नाभ्युपगम्यते इत्यर्थः, यावदवयवेषु कर्मणो भाव एवावयविनि कर्मोपेयते, तथा च मूलादावेकैकस्मिन्नवयवे कर्मभावेऽपि वृक्षो निष्कम्प एव, न हि भवति मूले वृक्षः कम्पते इति . प्रतीतिः किन्तु वृक्षस्य मूलं कम्पते न तु वृक्ष इत्येव प्रतीतिरुपजायते इत्याशयः / सस्य कर्मणः, देशवृत्तित्व