________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। तदर्थस्तत्र तत्कालावच्छिन्ना तस्य वृत्तिता / वसत्यद्य न सोऽत्रेति, व्यवहारौचिती ततः // 69 // नयामृत०-तदर्थ:-वसन् वसतीत्यस्यार्थः, तत्र-पाटलीपुरे, तस्य-देवदत्तस्य, तत्कालावच्छिन्ना-वर्तमानकालावच्छिन्ना, वृत्तिता-स्वत्वप्रयुक्तयथेष्टविनियोगरूपा, तथा च वसन् वसतीत्यस्य वर्तमानकालावच्छिन्नवृत्तितावान् वसतीतिक्रियारूपप्रतिपाद्य इति लक्षणयार्थः कर्तव्य इत्यर्थः / ततः-तदर्थकरणादेव, पाटलीपुरादेकस्मिन् दिनेऽन्यत्र गते देवदत्ते 'अद्य सोऽत्र न वसति' इति व्यवहारस्यौचित्यम्, अन्यथा पाटलीपुरपदे तद्गृहपदेऽपि(च) तद्वासितां देवदत्तस्य(च) रूप [लक्षण]. लक्षणां कालघटितामादाय स व्यवहारो न स्यादित्यर्थः // 69 // नन्धेवमन्यत्र गतेऽप्ययं पाटलीपुरवासीति कथं व्यवहार इत्यत्राह यत् त्वन्यत्र गतस्यापि, तद्वासित्वं निगद्यते / तद्वासवृत्तिभागित्वे, ज्ञेयं तत् त्वौपचारिकम् // 70 // नयामृत०-यविति / यत्त्वन्यत्र गतस्यापि, तद्वासित्वं-पाटलीपुरवासित्वम् , निगद्यते तन्निगदं तु, तद्वासवृत्तिभागित्वे-पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे, औपचारिकं लाक्षणिकं ज्ञेयम् , अत एकोनसप्ततितमपद्यमवतारयति-नन्वित्यादिना। तत्र वसन् वसतीति वाक्यप्रयोगकर्तरि / विवृणोति- तदर्थ इतिअत्र तच्छब्देन वसन् वसतीति वाक्यस्य परामर्श इत्यभिप्रायेण तद्विवरणं-वसन् वसतीत्यस्यार्थ इति / तति मूलस्य विवरण-पाटलीपुरे इति। तस्येत्यस्य विवरणं-देवदत्तस्येति / तत्कालावच्छिन्नेत्यस्य विवरण- वर्तमानकालावच्छिन्नेति / वृत्तितेत्यस्य विवरणं-स्वत्वप्रयुक्तयथेष्टविनियोगरूपेति-अतिथिरप्यन्यस्य गृहं गत्वा तत्र कश्चित् कालं तिष्ठति, एवमहमप्यत्र वसामीति न ब्रूते, यत्काले स तत्र तिष्ठति तत्कालात्मकवर्तमानकालावच्छिन्ना आधेयतारूपा तद्गृहनिरूपिता वृत्तिता तु तस्य समस्त्यतो वृत्तिताया उक्तस्वरूपतया निर्वचनम् / एवं चान्यखामिकगृहग्रामादावन्यस्यातिथ्यादेः खत्वाभावात् तत्प्रयुक्तो यथेष्टविनियोगो न सम्भवति, यस्य तु देवदत्तादेस्तत्र स्वत्वं तस्य स्वत्वप्रयुक्तो यथेष्टविनियोग सम्भवतीति तद्रूपा तस्य तत्र वृत्तिता घटनामाप्नोतीत्याशयः / तथा च उक्तदिशा प्रत्येकशब्दनिर्वचने च / वर्तमानकालावच्छिन्नवृत्तितावान् वसन्' इत्यस्यार्थः, वसतीत्यस्य वसतीत्येवं यत् . क्रियारूपं तत्प्रतिपाद्य इत्यर्थः / उक्तार्थः शब्दशक्तिमहिना न सम्भवतीत्युक्तं- लक्षणयेति / इत्यर्थः एवंस्वरूपः पूर्वार्द्धस्यार्थः / / ___ उत्तरार्द्ध विवृणोति-तत इति- अस्य तदर्थकरणादेवेति विवरणम् / अद्येत्यादिमूलसङ्गमनाय 'पाटलीपुरादे कस्मिन् दिनेऽन्यत्र गते देवदत्ते' इति पूरणम् , निरुक्तव्यवहारस्य पाटलीपुरे तत्कालावच्छिन्नवृत्तित्वस्य देवदत्तेऽभावादौचित्यं निर्वहतीति / अन्यथा वर्तमानकालावच्छिन्नस्वत्वप्रयुक्तयथेष्टविनियोगरूपवृत्तित्वस्य वसंत्यर्थतयाऽनाश्रयणे / पाटलीपुरपदे पाटलीपुरात्मकस्थाने / तद्गृहपदेऽपि च पाटलीपुरान्तर्गतदेवदत्तनिवासगृहात्मकस्थानेऽपि च / तद्वासितां पाटलीपुरवासितां पाटलीपुरान्तर्गतगृहवासितां वा। "देवदत्तस्य [च रूपलक्षण] लक्षणां" इत्यस्य स्थाने "देवदत्तस्य स्वत्वलक्षणां" इति पाठो युक्तः। कालघटिताम् एतद्दिवसघटिताम् / व्यवहारः अब सोऽत्र न वसतीति व्यवहारः / न स्यात् ग्रामान्तरगतस्यापि देवदत्तस्य ग्रामान्तरावस्थानदिवसेऽपि स्वपुरस्वगृहादौ स्वत्वमस्त्येवेति सनिषेधव्यवहारो न भवेत् / इत्यर्थः एवंस्वरूप उत्तरार्द्धार्थः // 69 // . सप्ततितमपद्यमवतारयति-नन्वमिति / विवृणोति-यस्वितीति / तत् स्वित्यस्य विवरणं - तन्निमदं स्वितिपाटलीपुरवासित्ववचनं पुनरित्यर्थः / पाटलीति-पाटलीपुरवासनिबन्धना या वृत्तिः- स्वधनपुत्रादिस्वामित्वलक्षणा, तद्भागित्वे- तदाश्रयत्वे इत्यर्थः / औपचारिकमिति मूलस्य विवरणं- लाक्षणिकम् / अत एव पाटलीपुरवासित्ववचनस्य पाटलीपुरवासप्रयुक्तवृत्तिभागित्वे लाक्षणिकत्वादेव / उभयत्र पाटलीपुरे प्रामान्तरे च, यः पुरुषः पाटलीपुरे प्रामान्तरे