________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः / 235 भेदादेवोभयोपपत्तिरिति चेत् ? तर्हि तादृशतात्पर्यभेद एवोपचाराऽनुपचारप्रयोजक आस्थीयताम् ; कार्यविनिर्मोकेणान्वयोपपत्तौ किं शुद्धद्वारेणेति चेत् ? देशाग्रहे तद्विनिर्मोक एव कथम् ? पदशक्त्यनुपग्रहादिति चेत् ? न-स्कन्धपरस्य वृक्षपदस्यैकत्वपरिणतिरूपस्कन्धपदार्थेनैवोपग्रहात्; भेदविनिर्लुण्ठित एव वृक्षपदार्थ आश्रीयत इति चेत् ? न-अनुभवबाधेन तथाश्रयणायोगादिति दिक् / प्रयोगे केत्याद्या काङ्घाबाहुल्याऽबाहुल्यकृतं विशुद्ध्य शुद्धिवैचित्र्थमित्यन्ये / अतिशुद्धौ तु तौ नैगम-व्ययहारनयो वसन् वसतीत्याहतुः स्म, व्युपरताकाङ्काप्रयोगकर्तृत्वादनयोरतिविशुद्धत्वम् // 68 // ननु वसन् वसतीति वाक्यं गच्छन् गच्छतीति(वाक्य )वनिराकासतयाऽप्रमाणमिति कथं तत्रातिविशुद्धत्वमित्याशङ्कायामाहतात्पर्य यच्च व्यापक्त्वविशिष्टसम्बन्धेन संसर्गबोधेऽन्वयबोधे तात्पर्य तयोर्मेंदादेव, उभयोपपत्तिः-वृक्षे कपिसंयोग इति वृक्षे न कपिसंयोग इति प्रयोगद्वयोपपत्तिरित्यर्थः, यत एव कृत्स्नवृक्षे कपिसंयोगस्य समवायो न विद्यते किन्तु तदेकदेश एव तत एव वृक्षपदेन वृक्षदेश एवोपचारादाश्रित इति तत्र कपिसंयोगस्य समवायो वृक्षे देशाभेदारोपत उपचारादिति तत्र तात्पर्यम् , निषेधे तु व्यापकत्वविशिष्टसमवायस्याभावादेवोपचारमन्तरेण तत्र तात्पर्यमित्येवं तात्पर्यभेद उपचारानुपचारयोरेव प्रयोजकः स्वीक्रियतामिति समाधत्ते-तहीति / ननु वृक्षे कपिसंयोग इत्यत्र वृक्षे कृत्स्नत्वं परित्यज्यैव कपिसंयोगस्यान्वयबोध इत्येतावतैवोपपत्तौ निरुक्ततात्पर्यभेदोऽपि नाश्रित इति कुत उपचारप्रवेश इत्याशङ्कते-कात्य विनिमोकेणेति-कात्य॑परित्यागेनेत्यर्थः। अन्वयोपपत्तौ। वृक्षे कपिसंयोगस्यान्वयोपपत्तौ / किं शुद्धद्वारेण? शुद्धसम्ब. न्धेनान्वयबोधे तात्पर्यतोऽन्वयोपपादनेन / वृक्षे कपिसंयोग इत्यत्र वृक्षपदं न सम्पूर्णवृक्षपरं किन्तु वृक्षकदेशपरमित्येवं प्रहे सत्येव कात्यविनिर्मोको नान्यथेति देशग्रह आवश्यकः, स च नोपचारमन्तरेणेत्युपचरित एव वृक्षे कपिसंयोग इति समाधत्ते-देशाग्रहे इति / कथमित्यत्र च्छेदः / देशाग्रहेऽपि वृक्षपदस्य सामान्यतः कात्स्यादिविशेषणविनिर्मुक्ते. वृक्ष शक्तिरिति शक्त्यैव कात्य॑विनिर्मुक्तवृक्षोपस्थितिसम्भवान्न देशग्रहस्यावश्यकतेति शङ्कते-पदशक्त्येति- “पदशक्त्यनुपग्रहाद्" इत्यस्य स्थाने "पदशक्त्युपग्रहाद्" इति “पदशक्त्यनुग्रहाद्" इति वा पाठोऽत्र समुचितः, कायंविनिर्मुक्तवृक्षे वृक्षपदस्य शक्तिबलादेव कात्यविनिर्मोक इति न तत्र देशग्रहापेक्षेति तदर्थः। प्रकारान्तराभावेन वृक्षपदेन * वृक्षैकदेशाग्रहणे सर्वेषां मूल-शाखा-प्रशाखानामेकस्कन्धरूपतया या परिणतिः सैव वृक्षपदार्थस्तत्रैव वृक्षपदस्य शक्तिरिति तदुपस्थापिते तत्र कपिसंयोगस्यान्वयासम्भवादनुपचरितो वृक्षे कपिसंयोग इति प्रयोगो न सम्भवत्येवेति देशग्रहार्थमुपचार आवश्यक इति समाधत्ते-नेति। स्कन्धपरस्य स्कन्धशक्तस्य / एकत्वपरिणतिरूपति- वृक्षावयवानां मूलादीनामेकतया या परिणतिस्तदात्मकेत्यर्थः / ननु वृक्षपदार्थेनोपग्रहो ममापि सम्मतः किन्तु वृक्षपदार्थो न वृक्षकदेशरूपो नवा कृत्ववृक्षरूपोऽपि तु तद्विनिमुक्तो वृक्ष एव केवल इत्यादशङ्कते-भेदविनिलठित एवेति- कृत्स्नैकदेशलक्षणभेदरहित एवेत्यर्थः / प्रत्यक्षादिप्रमाणेन कृत्स्नवृक्षोऽनुभूयते तदैकदेशो वाऽनुभूयते, न तु भेदविनिलुठितवृक्षमात्रमित्यसतस्तदाश्रयणासम्भवादिति समाधत्ते-नेति / तथाश्रयणेति-भेदविनि ठितवृक्षपदार्थाश्रयणेत्यर्थः। लोके वसामीत्युक्त क्वेत्याकाङ्क्षाबाहुल्यम् , तदपेक्षया किञ्चिन्न्यूनमाकाङ्क्षाबाहुल्यं तिर्यग्लोके वसामीत्यत्र, तदपेक्षया न्यूनाकासासमुदयो जम्बूद्वीपे वसामीत्यत्र, तदपेक्षयाऽपि न्यून:- क्वेत्याकाङ्क्षासमुदयो भारते वसामीत्यत्र, एवमुत्तरोत्तरं न्यूनः क्वेत्याकाङ्क्षासमुदय इत्येवं क्वेत्याद्याकाङ्क्षाबाहुल्याबाहुल्यकृतं तथाऽभ्युपगन्तृनैगम व्यवहारभेदानां विशुद्धपशुद्धिवैचित्र्यमित्यभ्युपगच्छता मतमुपदर्शयति-प्रयोग इति। - उत्तरार्द्ध विवृणोति. अतिशुद्धी स्विति / ताविति मूलस्य व्याख्यानं- नैगम-व्यवहारनयाविति / कथं वसन् वसतीति प्रयोगको गम-व्यवहारनययोरतिशुद्धत्वमित्याकालायामाह-व्युपरतेति-व्युपरता निवृत्ताऽऽकाङ्क्षा यत्र स व्युपरताकाह एवम्भूतो यः प्रयोगो निवसन् वसतीत्येवंरूपस्तत्कर्तृत्वात् , अनयोः नैगम-व्यवहारनययोः, अतिविशुद्धत्वं लोके वसामीति प्रयोगकर्तृनैगमाद्यपेक्षया शुद्धत्वं तिर्यग्लोके वसामीति प्रयोगकोंः , तदपेक्षया शुद्धत्वं जम्बूद्वीपे वसामीति * प्रयोगकोंः , एवमुत्तरोत्तरक्रमेण सर्वापेक्षया विशुद्धत्वं वसन् वसतीति प्रयोगको गमव्यवहारयोरित्यर्थः // 6 // ...