________________ 225 गयामृततरङ्गिणी-तरङ्गिणीतरविभ्यां समलतो नयोपदेशः / वेदानां प्रामाण्यम् , न तु प्रामाणान्तराविषयेऽपि, लक्षणार्यविधयैवानादिमीमांसासंप्रतिपसेस्त्युिच्यते तर्थसति विशेषतो वायके कर्मधारयविधयैव वेदानां प्रामाण्यम् , न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया, तथैवानादिमीमांसासंप्रतिपत्तरित्येव कल्पयित्वा किमिति न स्वचेतः सन्तोषयसि ? बहुव्रीहितस्तत्पुरुषस्य बलत्वे त्वयाप्यस्या एव रीतेरनुसतव्यत्वात् , न च बहुव्रीहे: सर्वपदार्थानां लाक्षणिकत्वादेव दौर्बल्यम् , एकपदलक्षणयापि बहुव्रीहेस्तत्र तत्रापादितत्वादिति पक्षपातमात्रमेवेति दिक् / ' एवंम्भूतस्य नयस्य मते देश-प्रदेशनिर्मुक्त- देश-प्रदेशकल्पनारहितमखण्डमेव वस्तु सत्, देशप्रदेशकल्पना तु भ्रममात्रमिति तन्मते नास्त्येव प्रदेश इत्यर्थः। न च विन्ध्यहिमवदादिभावाभावावच्छेदकतया आकाशादिदेशसिद्धिः, परेण समं सम्बन्धस्यैव तेनानभ्युपगमात् / व्यवहारस्तु कल्पितेनापि वस्तुना निर्वहतीति न ततः परमार्थसिद्धिरिति भावः // 61 // अत्र सममिरूढनयाकूतमुत्प्रेक्ष्य शब्दनयानुसारिणो दूषयन्ति- अथेति / न तु प्रमाणान्तराविषयेऽपीति-प्रमाणान्तर.. ' विषय शब्दानामनुवादकत्वादेव न प्रामाण्यमित्यतः प्रमाणान्तराविषयेऽपीत्युक्तम् , एवमग्रेऽपि / 'लक्षणार्थविधयवा' इत्यस्य स्थाने 'लक्ष्यार्थविधया, तथैवा' इति पाठो युक्तः, तथा च प्रमाणान्तराविषयेऽथें स्वशक्यार्थप्रतिपादकत्वेनैव वेदानां प्रामाण्यम् , प्रमाणान्तराविषयेऽप्यर्थे लक्ष्यार्थप्रतिपादकत्वेन वेदानां न तु प्रामाण्यमित्यर्थः / कथं न तथा प्रामाण्यमित्यपेक्षायामाह-तथैवेति- उक्तप्रकारेणेवैत्यर्थः / अनादिमीमांसासंप्रतिपत्तेः अनादिवृद्धाप्तपरम्परोपनीतप्रमाणपरिशोधितयुक्तिसिद्धाभ्युपगमात् / कर्मधारयविधयव कर्मधारयसमासरूपत्वेनैव / वेदानां समासस्वरूपवेदवाक्यानाम् , तेन समासानात्मकवेदवाक्यानां कर्मधारयानात्मकत्वेनान्यथैव प्रामाण्येऽपि न क्षतिः / न तु प्रमाणान्तराविषयेऽपि तत्पुरुषादिविधया' इत्येकं वाक्यम् , तथा च समासात्मकवेदवाक्यानां प्रमाणान्तराविषयेऽप्यय कर्मधारयातिरिक्ततत्पुरुषादिसमासात्मकत्वन न तु प्रामाण्यमित्यर्थः / इयं रीतिस्त्वयाऽप्याश्रयणीयैव, कथमन्यथा तत्पुरुष-बहुव्रीहिसमासयोलौक्षणिकपदघटितत्वाविशेषेऽप्यसति बाधक तयोरुभयोरपि सम्भवे तत्पुरुषसमासात्मकत्वेन वाक्यस्य प्रामाण्यं न तु बहुव्रीहिसमासात्मकत्वेनेत्यभ्युपगमस्तवापि स्यादित्याह- बहुव्रीहित इति / 'बलत्वे' इति स्थाने 'बलवत्त्वे' इति पाठी युक्तः। ननु बहुव्रीही सर्वपदानां लक्षणा, तत्पुरुषे त्वेकस्यैव पूर्वपदस्य लक्षणेति तत्पुरुषापेक्षया बहुव्रीहेंदौर्बल्यमित्याशहां प्रतिक्षिपति-न चेति / निषेधे हेतुमाह- एकपदलक्षणयाऽपीति / प्रस्तुतविषयें एवम्भूतनयाभिमतप्रतिपादकमुत्तरार्द्ध विवृणोति- एवम्भूतस्येति / 'नयस्य महें' इति पूरणम् / देश-प्रदेशनिर्मुक्तमिति मूलस्य विवरणम्-देश-प्रदेशकल्पनारहितमिति, अस्य फलितकथनम्- अखण्डमेवेति / यद्यखण्डमेव वस्तु सत् तर्हि तत्र देश-प्रदेशप्रतीतेरनुभूयमानाया अपलाप: स्यादित्यत आह-देश-प्रदेशकल्पना विति- तथा च तत्र देश-प्रदेशप्रतीतिरनुभूयमाना न नाम नास्ति, किन्तु सा भ्रमरूपत्वान्न देश-प्रदेशसाधिकेति / सम्मते एक्म्भूतमयमते / ननु यद्याकाशादेर्वस्तुनो देश-प्रदेशौ न तस्तहि कथमेकस्मिन्नेवाकाशे विरुद्धयोहिमयतू-तदभाक्योविन्ध्य तदमावयोः सत्त्वम् , देशसद्भावे त्वेकदेशावच्छेदेन विन्ध्यसद्भावो हिमाचलाभावश्च तदन्यदेशावच्छेदम हिमाचलसद्भायो विन्ध्याचलामावश्चेत्येकत्राप्याकाशे देशरूपावच्छेदकभेदेन विन्ध्य-तदभावयोहिम-तदभावयोः सत्त्वोपपत्ति रित्यवच्छेदकतयाऽऽकाशादिदेशकल्पनमावश्यकमित्याशङ्का प्रतिक्षिपति-न चेति / निषेधे हेतुमाह-परणेति- सर्व वस्तु खस्मिमेव प्रतिष्ठितं न त्वस्मिनन्यस्य सत्त्वम् . आधाराधेयभावश्च सम्बन्धे सति भवति, अन्यस्य त्वन्येन सर्म सम्बन्ध एव नास्ति, तथा च गगनेन समं विन्ध्यादेः सम्बन्धाभावाद् गगनादौ विन्ध्य-तदभावौ वर्तेते इत्येव मेष्यते, कुतस्तदवच्छेदकतया देशसिद्धिरिति भावः / तेन एवम्भूतनयेन। ननु यद्याकाशादावन्यस्मिन्न विन्ध्यादिः समस्ति तर्हि 'दक्षिणा दिश्याकाशे विन्ध्याद्रिवर्तते, उत्तरस्यां दिशि गगने हिमाचलो वर्तते' इत्येवं विमिमदेशावच्छेदन विष्यादिमस्वव्यवहारो न निर्वहदित्यत आह-व्यवहारस्त्विति / वस्तुना देश-प्रदेशादिमदाकाशादिवस्तुना 1. ततः. व्यवहारतः // 6 //