________________ नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यो समलतो नयोपदेशः। 223 - इति शनीयम् , निषादस्य वेदान्तराध्ययनप्रसङ्गात् / यदि च तत्पुरुषवत् कर्मधारयेऽपि स्यात् तदा षष्ठीसमास एव युज्येत, त्रैवर्णिकस्यैव निषादस्थपतितया बोधनेनाप्राप्तविद्याप्रयुक्तरकल्पनानिषेधविधौ सक्कोचाभावादिति / अत्र शब्दनयानुसारिणो नव्या:-तत्पुरुषे लक्षणापक्षेऽपि किमिति कर्मधारय एवाद्रियते, न तत्पुरुषः, शक्ति-लक्षणयोरुभयोरपि शाब्दबोधप्रयोजकतायाः क्लप्तत्वेन गौरवानवकाशात् , अथ शक्यसम्बन्धरूपलक्षणाक्षाने विशेषणज्ञानविधया हेतोः शक्तिज्ञानादेव शाब्दबोधोपपत्तेन लक्षणाज्ञानहेतुः करुप्यते, गौरवादिति चेत् ? भवेदेवं यदि षष्ठीसमासेनापि कस्यचिद् बोधो न स्यात्, न चैवम् , तादृशबोधसहस्रस्याप्यनुभवसिद्धत्वादिति, यदि च साक्षात्परम्परासाधारणसम्बन्धेन शक्तिज्ञानमेव शाब्दबोधसामान्ये हेतुरिति सूक्ष्ममीक्ष्यते, तदा न शक्तिविषयकत्वापेक्षया लक्षणाविषयकत्वे गौरव. मुद्भावयितुमपि शक्यम्, सम्बन्धगौरवस्यादोषत्वात् / अथासति विशेषतो बाधके स्वशक्यार्थविधयैव इत्याशयेनाह- यदि चेति / 'कर्मधारयेऽपि स्यात् ' इत्यस्य स्थाने 'कर्मधारयेऽपि लक्षणा स्यात् ' इति पाठो युक्तः। षष्ठीसमास एवं निषादानां स्थपतिर्निषादस्थपतिरिति षष्ठीतत्पुरुषसमास एव / तस्य युक्तत्वे हेतुमाहत्रैवर्णिकस्यैवेति- ब्राह्मण-क्षत्रिय-वैश्यजातीयान्यतमस्र्यवेत्यर्थः। अप्राप्तविद्याप्रयुक्तः सङ्करजातीयत्वेन शूद्रे निषादे तत्कर्तृकयागोपयोगिमन्त्राध्ययनलक्षणविद्याया वेदवचनादिप्रमाणान्तराप्राप्तस्य सम्बन्धस्य / अकल्पनात् निषादकर्तृकयागान्यथानुपपत्त्या यत् कल्पनं तस्याभावात् / तथा च निषेधविधी स्त्रीशद्रौ नाधीयेतामित्यत्र / सङ्कोचाभावात् अध्ययनपदस्य निषादकर्तृकयागोपयुक्तमन्त्राध्ययनातिरिकाध्ययनपरत्वाभावात् / / अस्मिन् विचारे महोपाध्यायो ग्रन्थकारः समभिरूढनयवादिनं प्रति प्रतिमलतयोपस्थितानां नव्यानां साम्प्रतनयानुसारिणामाकूतमुद्राटयति- अत्रेति / 'तत्पुरुषे लक्षणापक्षेऽपि' इत्यारभ्य 'पक्षपातमात्रमेवेति दिक्' इत्यन्तं तदाशयप्रकटनम् / विशेषणक्षानविधयेति- विशिष्टबुद्धि प्रति विशेषणज्ञानस्य कारणत्वमिति शक्यसम्बन्धरूपलक्षणाज्ञानं शक्तिविषयसम्बन्धज्ञानम्, तत्र विषये शकेविशेषणत्वेन शक्तिविशिष्टबुद्धिरूपं तत् अतस्तत्र विशेषणोभूतायाः शक्तानस्य हेतुत्वमिति लक्षणाज्ञानस्य शान्दबोधहेतुत्वेऽपि तद्द्वारा शक्तिज्ञानस्य हेतुत्वमावश्यकमेव, तथा च निषादश्वासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिविषयकशाब्दबोधस्य लक्षणाज्ञानमन्तरेणैवोपपत्तिरिति लाघवम् , निषादानां स्थपतिरिति षष्ठीतत्पुरुषाश्रयणे तु निषादपदस्य निषादसम्बन्धिस्थपतिबोधार्थ निषादसम्बन्धिनि लक्ष गाऽऽवश्यकीति तज्ज्ञानं शक्तिज्ञानं चोक्तशाब्दबोधहेतुतया कल्पनीयमिति कर्मधारयपक्षो लाघवादाश्रयणीय इति शङ्कार्थः, 'लक्षणाशानहेतुः' इत्यस्य स्थाने 'लक्षणाज्ञानं शाब्दबोधे हेतुः' इति पाठो युक्तः / यस्य प्रमातुर्निषादानां स्थपतिरिति षष्ठीतत्पुरुषसमासरूपतयैव तच्छन्दा. अधारणं तस्य प्रमातृसहस्रस्य निषादसम्बन्धिस्थपतिबोधस्याप्यनुभवसिद्धस्यापलपितुमशक्यतया तदर्थ लक्षणाज्ञानस्यापि तत्र * शाब्दबोधहेतुत्वकल्पनमावश्यकमेवेति समाधत्ते-भवेदेवमिति- लक्षणाज्ञाने विशेषणज्ञानविधया कारणतया क्लुप्तस्य शक्ति ज्ञानस्यैव शाब्दबोधहेतुत्वं न तु लक्षणाज्ञानस्येति तदा स्यादित्यर्थः / न चैवमिति-षष्ठीसमासेन कस्यचित् प्रमातुर्बोधो न भवत्येवेति न घेत्यर्थः / तादृशबोधसहस्रस्यापि षष्ठीतत्पुरुषसमासतयाऽवधारितवाक्यप्रभवशाब्दबोधसहस्रस्यापि लाक्षणिकार्थविषयकस्य / तत्पुरुषे पूर्वपदस्य शक्यसम्बन्धरूपलक्षणाज्ञानस्य लक्ष्यार्थोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्व-, कल्पने यद् गौरवं तदपि नास्तीत्याह - यदि चेति-शक्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र साक्षाद्विषयता.. सम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वम् , यत्र च लक्ष्यार्थोपस्थितिद्वारा शक्तिज्ञानस्य यत्र कारणत्वं तत्र खविषयसम्बन्धित्वलक्षणपरम्परासम्बन्धेन शक्तिप्रकारकज्ञानस्य कारणत्वमित्येवं पृथक् कार्यकारणभावो नाजीक्रियते, किन्तु साक्षात्परम्परा'साधारणसम्बन्धसामान्येन शक्तिप्रकारकज्ञानत्वेन शक्तिज्ञानस्योपस्थितिसामान्यद्वारकविधमेव शाब्दबोधं प्रति कारणत्वं स्वीक्रियते, एवं च प्रकारविधया शक्तिविषयकत्वमेव कारणतावच्छेदकं न तु लक्षणाविषयत्वमपि, शक्तिलक्षणोभयसाधारणान्यतरत्वादिना ___सम्बन्धविषयकत्वस्य तत्र कारणतावच्छेदकत्वेऽपि तत्कृतगौरवस्य न दोषावहत्वमिति तत्पुरुषसमासोऽप्याश्रयितुं शक्य इत्यर्थः /