________________ 222 नयामृततरङ्गिणी-तरङ्गिणीतरणिभ्यां समलङ्कतो नयोपदेशः। एतन्मूलकमेव निषादस्थपत्यधिकरणं मीमांसायां प्रवृत्तेः( त्तम् ), तथाहि-" निषादस्थपति याजयेत्” इत्यत्र निषादानां स्थपतिरिति न षष्ठीसमासः, किन्तु निषादश्चासौ स्थपतिरिति कर्मधारयो लाघवात् , न चाध्ययनाभावादनधिकारो निषादस्य, एतद्विधिबलादेवैतदिष्टौ यावदपेक्षितपठनानुज्ञानात् , यथा-' वर्षासु रथकारोऽनीनादधीत' इत्यत्र चापशूद्राधिकरणविरोधः, तस्यैतदतिरिक्तविषयत्वात् ; न चैवं " स्त्री-शूद्रौ नाधीयेताम्" इत्यत्र निषादीयतत्तदध्ययनविध्यर्थनिषेधबाधादध्ययनपदे निषादीयतत्तद. . ध्ययनपरतया सङ्कोचः कल्प्यत इति शूद्रपदे एव निषादेतरशूद्रपरतया सङ्कोचः किमिति न कल्प्यत नैवान्वय इति नियमात् कर्मधारयेऽपि नाभेदप्रकारको बोधः किन्त्वभेदसंसर्गक एव, सप्तमीतत्पुरुषेऽपि अभेदसंसर्गक एव बोधः, किन्तु कर्मधारये न लक्षणा तत्पुरुषे तु पूर्वपदे लक्षणेति लाघवात् कर्मधारयसमासाश्रयणमित्याशयः / एतन्मूलकमेव तत्पुरुषे पूर्वपदलक्षणासत्त्वात् तदपेक्षया लक्षणाऽभावतो लाघवात् कर्मधारयाश्रयणमिति समभिरूढनयमूलकमेव / पूर्वमीमांसागतं निषादस्थपत्यधिकरणविचारमुपदर्शयति-तथाहीति / षष्ठीसमासः षष्ठीतत्पुरुषसमासः / लाघवात् षष्ठीतत्पुरुष पूर्वपदे लक्षणा कर्मधारये न सेत्येवं लाघवात् / ननु "न श्रीशद्रो वेदमधीयाताम्" इति. श्रुत्या सहरजातिविशेषस्य निषादस्य शूद्रजात्यन्त्यन्तर्गतस्य वेदाध्ययननिषेधाद् यागोपयुक्तमन्त्रपठनानधिकारित्वेन न यागाधिकार इति निषादाभिन्नस्थपर्याजनान्वयासम्भवान्न कर्मधारयस्तत्राश्रयणीयः, किन्तु निषादस्वामिनः क्षत्रियस्य याजनान्वयसम्भवेन षष्ठीतत्पुरुष एव समाश्रयणीय इत्याशय प्रतिक्षिपति- न चेति / अध्ययनाभावात् वेदाध्ययना सम्भवात् / अनधिकारः यागकरणेऽयोग्यता / निषादस्य निषादाभिन्नस्थपतेः / निषेधे हेतुमाह-एतद्विधिवला. देवेति-'निषादस्थपति याजयेत्' इति बलादेवेत्यर्थः / एतदिष्टौ यावदपेक्षितपठनानुज्ञानात निषादस्थपति यागे यद् यन्मन्त्रपठनं तद् यागकर्तुनिषादस्यावश्यकं तन्मन्त्रपठनस्य निषादकर्तृकस्यानुमतत्वात् / यश्च शुदविशेषकर्तृको यागस्तत्र तदुपयुक्तमन्त्राध्ययनस्य तत्कर्तृशूदकर्तृकस्यानुमतत्वे दृष्टान्तमाह-यथेति- तथा च वर्षासमये शूदविशेषरथ.. कारकर्तृकाग्न्याधानकर्माङ्गमन्त्रपठनं शूद्रस्यापि रथकारस्य यथाऽनुमतं तथा प्रकृते निषादस्यापि तत्कर्तृकयागोपयुक्तमन्त्राध्ययनमनुमतमित्यर्थः। शूद्रस्य यागानधिकारप्रतिपादकापशूदाधिकरणविरोधमाशय प्रतिक्षिपति-न चेति। निषेधे हेतुमाहतस्येति-अपशूदाधिकरणस्येत्यर्थः / एतदतिरिक्तेति-वेदविहितनिषादादिकर्तृकयागव्यतिरिक्तेत्यर्थः / ननु 'रोशनी नाघीयेताम्' इत्यत्र निषादकर्तृकयागोपयुक्तमन्त्रातिरिक्तवेदाध्ययनपरमध्ययनपदमित्येवमध्ययनपदस्य सङ्कचितार्थकत्वं यदाश्रीयते तदपेक्षया लाघववाच्छूद्रपदस्यैव निषादातिरिक्तशूद्रपदत्वं किमिति नोपयत इति शूदपदस्यैव सङ्कचितार्थत्वमस्त्विति तटस्थाश प्रतिक्षिपति-न चैवमिति-अस्य 'शङ्कनीयम्' इत्यनेनान्वयः / एवं सङ्कोचस्यावश्यकर्तव्यत्वे सति / निषादीयेति'निषादीयतत्तदध्ययनपरतया' इत्यस्य स्थाने “निषादीयतत्तदध्ययनातिरिकाध्ययनपरतया" इति पाठो युक्तः, तथा च 'निषादस्थपति याजयेद्' इत्यतः प्राप्तो यो निषादकर्तृकयागोपयोगिमन्त्रस्य निषादकर्तृकाध्ययनल क्षणविध्यर्थस्तस्य 'स्त्री-शूद्रौ नाधीयेताम्' इत्यनेन यो निषेधस्तस्य बाधात् निषादकर्तृकयागोपयोगिमन्त्राध्ययने निषादरूपशूदकर्तृकत्वस्याभावेन तंत्र तदभावस्यासम्भवात्, अध्ययनपदे "स्त्री-शूद्रौ नाधीयेताम्' इत्यत्राध्ययनार्थकं यत् पदं तस्मिन्, निषादीयं- यन्निषादकर्तृकयागोपयोगिमन्त्राध्ययनं तदतिरिक्तवेदाध्ययनपरतयेत्यर्थः / शद्रपदे एव 'स्त्रीशूद्रौ' इत्येतद्भटकशद्रपद एव / निषेधे हेतुमाह-निषादस्येति- शूद्रपदेन निषादातिरिक्तशूदस्येव ग्रहणे तस्यैव वेदमात्राध्ययनं निषिद्धं न तु निषादजातीयशद्रस्येति निषादस्य निषादकर्तृकयागोपयोगिमन्त्राध्ययनस्येव तादृशयागानुपयोगिवेदवचनाध्ययनस्यापि प्रसाः 'स्वाध्यायोऽध्येतव्यः' इत्यध्ययनविधेस्तं प्रत्यप्यबाधितप्रसरत्वादित्यर्थः / यदि च प्रकारविधयाऽभेदस्य बोधार्थमेव कर्मधारयाश्रयणं न लाघवात् , तर्हि समासघटकस्याभेदवाचकपदस्याभावात् कर्मधारयेऽपि पूर्वपदे लक्षणाऽऽवश्यकी, एवं च निषादस्थपतिं याजयदित्यत्र निषादश्चासौ स्थपतिरिति कर्मधारयाश्रयणे निषादाभिन्नस्थपतिकर्तृकयागान्यथानुपपत्या तस्याप्राप्त विद्याप्रयुक्तिः कल्पनीया स्यात्, निषादानां स्थपतिरिति तत्पुरुषाश्रयणे तु ब्राह्मणादित्रैवर्णिकोऽपि निषाद; स्थपतिपदबोध्य इति नाप्राप्तविद्याप्रयुक्तिकल्पनम् , तदनुरोधेन स्रोशूद्रौ नाधोयेतामित्यत्राध्ययनपदस्य निषादीयाध्ययनातिरिकाम्ययनपरतया सङ्कोचोऽपि न कर्तव्य इति तत्पुरुषसमास एवाश्रयणीयः स्यादिति निषादस्थपत्यधिकरणाप्रवृत्तिप्रसन