________________ नयामृततरलिपी तरङ्गिणीवरमाम्यां समबहतो नसोपदेशः। भोयम्, इति-एवं समासद्वयशुद्धिमान् शब्दनयः प्राइ, न चैवं धौ धर्मो वा प्रदेशो नोद्रव्यमित्यपि स्वादनिरितसामान्यैकव्यक्तिविधेयतायामेव नोशब्दप्रयोगात्, धर्मास्तिकायाद्येकव्यनिर्धारिताग एव विधेयत्वादिति ध्येयम् // 60 // . ब्रूते समभिरूडस्तु, भेदावेर्नात्र सप्तमी। - देश-प्रदेशनिर्मुक्तमेवम्भूतस्य बस्तु सत् // 61 // - मयामृत-बूत इति / समभिरूढनयस्तु 'धर्मे प्रदेशः' इत्यादिसप्तमीसमासं [ न ] व्रते, समाप्रयोगे ‘कुण्डे बदरम् ' इत्यादेवि भेदाप्तेः- भेदबुद्धिप्रसङ्गात्, 'घटे घटस्वरूपम् ' इत्यादी कचिदभेदे सप्तमीप्रयोगेऽप्यभेदप्रकारकबोधार्थ कर्मधारयस्यैवावश्याश्रयणीयत्वात् ; तत्पुरुष पदलक्षणा. सस्वात् कर्मधारये चाभेदस्य संसर्गविधदैव लाभात् तदभावेन लाघवादेव कर्मधारयपक्षः समभिरूडमोनाश्रीयन इत्यपरे। मुकिरिति निर्गलितोऽर्थः। इतीति मूलस्य विवरणम्-एवमिति- अमुना प्रकारेणेत्यर्थः / समासद्वयशद्धिमान सप्तमीतत्पुरुष-कर्मधारयलक्षणसमासद्वयमाश्रित्य धर्मास्तिकायप्रदेशादिशब्दार्थाभ्युपगन्तृत्वलक्षणा या शुद्धिस्तद्वान् / नन्वेवं सफलद्रव्येकदेशविवक्षितधर्मास्तिकायात्मकद्रव्यात्मकत्वस्य धर्मास्तिकायप्रदेशे प्रतिपादनाय धर्मास्तिकाये प्रदेशे नोद्रव्यमिति सप्तमीतत्पुरुषेण धर्मास्तिकायश्चासौ प्रदेशो नोद्रव्यमिति कर्मधारयेण चाऽभिलापोऽपि कर्तव्यकुक्षिमास्कन्देदित्याशा प्रतिक्षिपति-न चैवमिति / धर्म धर्मास्तिकाये। धर्मो वा धर्मास्तिकायो वा। निषेधहेतुमुपदर्शयतिभनिर्धारितेति-'जीवे प्रदेशो जीबो वा प्रदेशः' इत्यत्र 'स्कन्धे प्रदेशः स्कन्धो वा प्रदेशः' इत्यत्र च जीवसामाम्यस्व स्कन्धसामान्यस्य वा बैकव्यक्तिः, अनिर्धारिताया एव तस्या विधेयताया, न त्वस्मिन् जोवे प्रदेशोऽयं जीवः प्रदेश इलेवं निर्धारिताया जीवव्यक्तर्विधेयला, नवास्मिन् स्कन्धे प्रदेशोऽयं स्कन्धः प्रदेश इत्येवं निर्धारिताया स्कन्धव्यर्विधेयतेति तस्यामेवानिर्धारितसामान्यकव्यक्तिविधेयतायां सत्यां नोजीको नोस्कन्ध इत्येवं नोशब्दप्रयोगादित्यर्थः / धर्मास्तिकायेति- धर्मास्तिकाये प्रदेशो धर्मास्तिकायो वा प्रदेश इत्यादौ तु द्रव्यसामान्यस्य या धर्मास्तिकायादि. बक्षकव्यक्तिस्तस्या निर्धारिताया एव विधेयता, न तु द्रव्यसामान्यवाचिद्रव्यशब्देन तस्या उपादानं येनानिर्धारितायास्तस्य विधेयता स्यादिति निर्धारितसामान्यैकव्यक्तिविधेयत्वादेव नोद्रव्यमित्येवं न तत्र नोशब्दप्रयोग इत्यर्थः // 6 // .. प्रदेशविषये समभिरूडैवम्भूतयोर्मन्तव्योपदर्शकमेकषष्टितमपद्यं विवृणोति-व्रत इतीति / “धर्मे प्रदेश इत्यादि। इत्यत्रादिपवाद 'अधर्म प्रदेशः, आकाशे प्रदेशः, जीवे प्रदेशः, स्कन्धे प्रदेशः' इत्यस्य सङ्ग्रहः / कथं सप्तमीतत्परूषसमासं प्रकृते सममिरूढनयो नाभ्युपगच्छतीत्यपेक्षायामाह-तथा प्रयोग इति-धर्मे प्रदेश इत्यादिप्रयोग इत्यर्थः / कुण्डे बदरमित्यादेरिवेति- कुण्डे बदरमिति सप्तम्यन्तकुण्डपदसमभिव्याहृतबदरपदाद् यथा बदरे कुण्डभेदबुद्धिस्तथेअर्थः / भेदातेरिति मूलस्य विवरणम्-भेदबुद्धिप्रसादिति- प्रदेशे धर्मास्तिकायादेमेंदबुद्धिप्रसङ्गादित्यर्थः / सप्तमीतत्पुरुष कर्मधारये वाऽभ्युपगच्छति भवान् प्रदेश धर्मास्तिकायादेरभेदमेवेति तद्भगः स्यादिति साम्प्रतनयं प्रति समभिसदमयस्याक्षेपः, यद्यप्यभेदेऽपि सप्तमीप्रयोगो भवति यथा घटे घटखरूपमित्यादौ नहि घटखरूपं घटादू भिन्नमिति तथापि तत्र संसर्गतयैवाभेदो भासते न प्रकारतयेति प्रकारतयाऽभेदभानार्थ कर्मधारयसमास एवाश्रयणीय इत्याह- 'घटे घटस्वरूपम्' इत्यादाविति। धर्मास्तिकाये प्रदेशो धर्मास्तिकायप्रदेश इति सप्तमीतत्पुरुषस्य धर्मास्तिकायश्चासौ प्रदेशी धर्मास्तिकायप्रदेश इति कर्मधारयस्य च विग्रहवाक्यत्वस्वरूपे भेदेऽपि समस्तखरूपे भेदाभावात् तयोरर्थभेदप्रतिपत्तये तत्पुरुषे पूर्वपदस्य स्वशक्यार्थसम्बन्धिनि लक्षणा, कर्मधारये तु पूर्वपदशक्यार्थस्याभेदसम्बन्धेनैवोत्तरपदार्थेऽन्वय इति तत्र लक्षणाऽभावेन लाघवात् कर्मधारय एव समभिरूढनयेनाभ्युपेयत इति केषाश्चिन्मतमुपदर्शयति-तत्पुरुषे इति / 'पट लक्षणासस्वात्' इत्यस्य स्थाने 'पूर्वपदलक्षणामस्वात्' इति पाठो युक्तः। तदभावन लक्षणाया अभावेन / लायादेव' इत्येवकारेणाभेदप्रकारकबोधार्य कर्मधारयसमासाश्रयणस्य पूर्वमुक्तस्य व्यवच्छेदः, नामार्थयोरमेदसम्बन्धे.