________________ 220 ___ नयावतरङ्गियी तरङ्गिणीतरणिभ्यां समलको म्योपदेशः / एवम्-श्रादिना * अधर्मेऽधर्म इति वा प्रदेशोऽधर्मः, आकाशे भाकाश इति वा प्रदेश भाकाशः' इति द्रष्टव्यम् // 59 // जीवे स्कन्धेऽप्यनन्ते, नोशब्दाद् देशावधारणम् / इति शब्दनयः प्राह, समासद्वयशुद्धिमान् // 60 // . नयामृत०-जीव इति / जीवे स्कन्धेऽपि- अप्रिश्वार्थः, जीवे स्कन्धे चानन्ते नोशब्दादू देशावधारणं कर्तव्यम् , जीवे जीव इति वा प्रदेशो नोजीवः, स्कन्ध इति वा प्रदेशो नोस्कन्ध इत्यभिलापः कर्त्तव्य इत्यर्थः, धर्मास्तिकायादेरैक्यात् तत्तत्प्रदेशस्य धर्मास्तिकायादिरूपता अनतिप्रसकेति तथोक्तिः, जीव-स्कन्धयोस्तु प्रतिस्वमनन्तत्वात् कथमधिकृतप्रदेशस्य सकलसन्तानात्मकत्वसम्भव इति विवक्षितप्रदेशे सकलसन्तानकदेश विवक्षितसन्तानात्मकत्वप्रतिपादनाय नोजीवल्व नोस्कन्धत्वोक्तिरिति कर्तव्य इत्यन्वयः / धर्म इति मूलस्य विवरणम्-धर्मास्तिकाय इति- अत्र धर्मास्तिकायपदस्य प्रदेशपदेन सप्तमी. तत्बुरुषे कर्मधारये वा समासे धर्मास्तिकायप्रदेश इति भवितुमर्हति, तत्र यद् ‘धर्मास्तिकाय' इत्येकाभिधीयते सेनामिलापेन धर्मास्तिकायस्वैकस्वात् तत्सम्बन्धी तदात्मको वा प्रदेशोऽप्येक एव तद्रूष इति ज्ञापयति, तथा व धमक्तिकाग्रप्रदेशस्य धर्मास्तिकायलेन रूपेण निर्णयः साम्प्रतारुयशन्दनये इत्याशयः / एवम् उक्तरीत्या / मादिना 'इत्यादि इत्यत्रादिपदेन / अधर्म इति- अधर्मास्तिकाये प्रदेशोऽधर्मास्तिकाय इति सप्तमीतत्पुरुषेण, अधर्मास्तिकायचासौ प्रदेशो. धर्मास्तिकाय इति कर्मधारयेण वा निर्णयः, आकाशास्तिकाये प्रदेश आकाशास्तिकाय इति सप्तमीतत्पुरुषेण, बाकाशास्तिकायचासौ प्रदेश आकाशास्तिकाय इति कर्मधारयेण वा निर्णयः कार्य इत्यर्थः // 59 // धर्मास्तिकायस्याधर्मास्तिकायस्याकाशास्तिकायस्य चैकैकव्यकिरूपत्वात् तत्तरप्रदेशस्याप्येकस्य तदात्मकत्वसम्भोग धर्मास्तिकायप्रदेशो धर्मास्तिकायः, अधर्मास्तिकायप्रदेशोऽधर्मास्तिकायः, आकाशास्तिकायप्रदेश आकाशास्तिकाय इत्येवं वदितुं. शक्यम्, जीव-पुदलल्कन्धयोश्वानन्तत्वाद्रेकस्य कस्यचित् तत्प्रदेशस्य विवक्षितस्य सकलजीवात्मकत्वं सकम्युद्गलस्यान्वारन. कत्वं न सम्भवतीति जीवप्रदेशो जीव इत्येवं वदितुं न शक्यो नवा पुद्गलस्कन्धप्रदेशः पुद्गलस्कन्ध इति वक्तुं शक्यः, किन्तु जीवप्रदेशो नोजोवः स्कन्धप्रदेशो नोस्कन्ध इत्येवं वक्तव्य इत्यस्योपदर्शकं षष्टितमपद्यं विवृणोति-जीब इतीति। अविश्वार्थ इति- 'कन्वेऽपि' इत्यत्र योऽयमपिशब्दः स शब्दस्य समुच्चयरूपेऽर्थे वर्तते इत्यर्थः / अपिशब्दस्य चार्थकत्वे 'जीवे स्कन्धेऽपि ' इति 'जावे स्कन्धे ब' इति पर्यवसितमुट्टङ्कितम् / कीदृशमवधारणमिस्खपेक्षायामाहजीवे जीव इति बेति- जीवे प्रदेशो नोजीव इति सप्तमीतत्पुरुषेण, जीवश्चासौ प्रदेशो नोजीव इति कर्मधारयेच वाऽमिलापः कर्तव्यः, स्कन्धप्रदेशस्यापि स्कन्धे प्रदेशो नोस्कन्ध इति सप्तमीतत्पुरुषेण, स्कन्धश्चासौ प्रदेशो नोस्कन्ध इति कर्मधारयेण वाभिलापः कर्तव्य इत्येवं पद्यपूर्वार्दस्यार्थोऽभिप्रेतार्थो ज्ञेय इत्यर्थः / “स्कन्ध इति बा" इत्यस्य स्थाने "स्कन्धे स्कन्ध इति वा" इति पाठो युक्तः। ननु धर्मास्तिकायप्रदेशादेर्धर्मास्तिकायादिशब्देनाभिलपनं जीवस्कन्ध प्रदेशयोश्च नोजीच-नोस्कन्धशब्देनाभिलपनमित्येवमभिलापवैचित्र्यं कथमित्यपेक्षायामाह-धर्मास्तिकायादे. रिति-आदिपदादधर्मास्तिकाया-काशास्तिकाययोः परिग्रहः / अनतिप्रसका विवक्षितप्रदेशव्यतिरिकप्रदेश न वर्तते / इति एतस्मात् कारणात् / तथोकिः धर्मास्तिकायप्रदेशस्य धर्मास्तिकाय इति, अधर्मास्तिकायप्रदेशस्याधर्मास्तिकाम इति, आकाशास्तिकायप्रदेशस्याकाशास्तिकाय इत्येवमुक्तिः। प्रतिस्वमनन्तत्वात् जीवा अप्यनन्तसहायकाः स्कन्धा मप्यनन्ता इत्येवं प्रत्येकमनन्तस्यात् / कथमिति- एकस्य जीवात्मकसन्तानस्य यः प्रदेशस्तस्य तज्जीवात्मकत्वमेव मान्य. जीवात्मकत्वमिति ब विधक्षितकजीवप्रदेशस्य सकल जीवसन्तानात्मकत्वसम्भवः, एवमेकपुद्गलस्कन्धस्य यः प्रदेशः तत्पु. दूलस्कन्धात्मक एवेति न तस्य सकलपुद्गलस्कन्धात्मकत्वसम्भव इत्येतस्मात् कारणात् 'जीवप्रदेशो जीवः' इत्युक्रिन सम्भवति, एवं 'स्कन्धप्रदेशः स्कन्धः' इत्युक्तिर्न सम्भवति, किन्तु विवक्षितो य एकजीवसन्तानम्न प्रदेशस्तस्मिन् सकलजोवसन्तानस्यैकदेशो यो विवक्षितैकजीवात्मकसन्तानस्तदानकत्वप्रतिपादनाय नो जीव इत्युक्तिः, एवं विवक्षितो य . एकपुद्गलस्कन्धस्य प्रदेशस्तस्मिन् सकलपुद्गलस्कन्धानामेकदेश एकपुङ्कलस्कन्धस्तदात्मकत्वस्य प्रतिपादनाय मोस्कन्ध इत्येव.